०१६ जलाधिवासपटलः

जलाधिवासपटलप्रारम्भः
अम्बिकानाथ सर्वेश देवदेव महेश्वर
जलाधिवासनं श्रोतुमिच्छामि वदमे प्रभो ॥ १ ॥

वक्ष्येऽहन्तु महासेन सर्वकामार्त्थसिद्धिदम्
आयुरारोग्यमैश्वर्यम् अपमृत्यु क्षयं भवेत् ॥ २ ॥

नदीतीरे पुण्यतीर्त्थे तटाकेवा प्रकल्पयेत्
तोयं शुद्धमशुद्धं वा शिवालय समीपगम् ॥ ३ ॥

शिवगङ्गे च तीर्त्थे वा शिवधामाम्बुसेचनम्
तीर्त्थमद्ध्ये विशेषेण मण्टपालं कृतन्तथा ॥ ४ ॥

गोमयालेपनं कृत्वा तीर्त्थं वारणमस्तके
धान्यपुञ्जैरलङ्कृत्य अष्टपद्मदलं लिखेत् ॥ ५ ॥

दशकुम्भं न्यसेद्धीमान्सूत्रकूर्चैरलङ्कृतम्
मण्डितं गन्धपुष्पाद्यैः अमुकं देवमर्चयेत् ॥ ६ ॥

चरं चराचरञ्चैव अचरञ्च स्थितं भवेत्
चरं धातुमयं ज्ञेयम् अचरञ्च शिलामयम् ॥ ७ ॥

चराचरं बाणलिङ्गं स्थितं गोपुरमुच्यते
स्वायम्भुदेविकञ्चैव दिव्यं भक्तिपटन्तथा ॥ ८ ॥

दर्पणे देवमावाह्य पूजयेत्तु विशेषतः
नित्यं स्नानं प्रतिदिनं देवानां पूजयेत्ततः ॥ ९ ॥

नित्यं स्नानविहीने तु दर्पणे स्तानमाचरेत्
घटे देवं समावाह्य अष्टमूर्तिन्न्यसेत्ततः ॥ १० ॥

देवस्य पूर्वदिक् भागे ब्राह्मणान्वेदपारगान्
अघोरास्त्रजपं सव्ये वामे चैव त्रियम्बकम् ॥ ११ ॥

शिवास्त्रं पश्चिमे चैव याम्ये घोषैस्समप्रभम्
नृत्तगीतसमायुक्तं वेदघोषैश्चतुर्दिशि ॥ १२ ॥

पञ्चगव्यन्तथाकल्प्य क्षिपेत्सद्यैस्समर्चयेत्
त्रिरात्रम् एकरात्रं वा याममात्राधिवासनम् ॥ १३ ॥

बिम्बं जलेषु निक्षिप्य वारुणं मन्त्रमुच्चरन्
आपो वा इदं सर्वं मन्त्रमुच्चारयेत्ततः ॥ १४ ॥

पूर्वाद्यष्टदिशि चैव अष्टभैरवमर्चयेत्
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १५ ॥

वाराही चैव माहेन्द्री चामुण्डा वीरभद्रका
अष्टदिक्ष्वर्चयित्वा तु रक्षार्त्थं पूजयेत्ततः ॥ १६ ॥

मोक्षार्त्थञ्जलजन्तूनां जलाधिवासनन्तथा
एवं प्रतिदिनं पूज्य वेदघोषं सदाजपेत् ॥ १७ ॥

बिम्बमुत्थापयेत्तत्र धौतवस्त्रेण वेष्टयेत्
गन्धपुष्पैरलङ्कृत्य प्रादक्षिण्य क्रमेण वा ॥ १८ ॥

यागशालां प्रविश्याथ सव्ये हि स्थपयेत्ततः
एवं कृत्वा विशेषेण क्षत्रियो विजयी भवेत् ॥ १९ ॥

इति जलाधिवासपटलष्षोडशः