नयनोन्मीलनपटलप्रारम्भः
अथातस्समहेशानसर्वकाम्यार्त्थसिद्धद
सर्वलोकहितं पुण्यं नयनोन्मीलनं वद ॥ १ ॥
अथ वक्ष्ये विशेषेण श्रुणु शरवणोद्भव
क्रियानूतनकाले तु प्रतिष्ठासमये तथा ॥ २ ॥
नयनोन्मीलनं कृत्वा जगत्सृष्ट्यर्त्थकारणम्
नयनोन्मुकुलितं भाव्यं जगत्संहृतिरुच्यते ॥ ३ ॥
स्वयम्भू दिव्यलिङ्गञ्च बाणलिङ्गन्तथैव च
नयनोन्मीलनञ्चैव वर्जयित्वा विशेषतः ॥ ४ ॥
नयनोन्मीलनञ्चैव पीठे चैव तु धारयेत् ४-॥ २ ॥
अन्येषां रुद्रभागे तु पञ्चभागं प्रकीर्तितम्
त्रिभागो परिविन्यस्य वृत्ताकारं प्रकीर्तितम् ॥ ५ ॥
एकाश्राकारमेवोक्तं यागाश्रं वा प्रकल्पयेत्
शेषाद्विरेखयासङ्ख्या पार्श्वयोश्च द्विरेखया ॥ ६ ॥
प्रदक्षिणक्रमेणैव सोमसूत्रं प्रकल्पयेत्
अन्येषां निधनयोर्मद्ध्ये पूर्णचन्द्राकृतिन्तथा ॥ ७ ॥
विमानमद्ध्यमे कुक्षौ महेशं मण्डले यजेत्
चतुर्दिशि समभ्यर्च्य अघोरास्त्रन्तु पूर्वके ॥ ८ ॥
सव्ये पाशुपतञ्चैव प्रत्यङ्गिरञ्च पश्चिमे
उत्तरे क्षुरिकां पूज्य मण्डलं पूजयेत्ततः ॥ ९ ॥
पञ्चगव्यन्तु सङ्कल्प्य सद्यादीन्योजयेत्ततः
अग्निकार्यं समाराध्य महेशं मद्ध्यमे यजेत् ॥ १० ॥
शङ्खेषु पञ्चसङ्कल्प्य कुर्यात् गायत्रिमन्त्रतः
नालिकेरकपालञ्च पात्राणां दापयेत्ततः ॥ ११ ॥
पात्रोत्तरे वसानञ्च प्रमीताञ्च तदुत्तरे
ब्रह्माणं दक्षिणे पूज्य कपालं ग्राहयेत्ततः ॥ १२ ॥
पात्रे च पूरयेच्चैव तोयमापूरयेत्ततः
जलेशं पूजयेत्पश्चात् घृतपात्रं गृहेत्ततः ॥ १३ ॥
घृतमापूरयेच्चैव मद्ध्ये ग्रन्धिपवित्रकम्
आज्यञ्च बहिरापूज्य स्रुक्स्रुवं संस्कृतिन्तथा ॥ १४ ॥
कपालैः पूरयेदाज्यं होमयेत्तु विशेषतः
अघोरास्त्रेण साहस्रं शिवं पाशुपतन्तथा ॥ १५ ॥
प्रत्यङ्गिरं समभ्यर्च्य सहस्रञ्च हुनेत्पृथक्
शतकन्तु विशेषेण प्रत्येकञ्च त्रयाहुतिः ॥ १६ ॥
मूलमन्त्रेण हुत्वाथ शिष्यं कौतुकबन्धनम्
वेणुदण्डं समादाय अष्टपद्ममुदीरितम् ॥ १७ ॥
षण्णवत्यङ्गुलं दीर्घम् अघोरास्त्रं प्रपूजयेत्
हृत्कमण्डलुसङ्ग्राह्य जलमापूरयेत्ततः ॥ १८ ॥
नक्षत्रेशञ्च सम्पूज्य अर्चयित्वा विशेषतः
वल्कलं मुद्गलं विद्यात्काषायं वस्त्रमेव वा ॥ १९ ॥
पञ्चब्रह्मषडङ्गैश्च अर्चयित्वा न्यसेत्ततः
अग्निं प्रज्वालयेच्चैव ब्रह्माणं पूजयेत्ततः ॥ २० ॥
शिखाच्छेदं प्रकुर्वीत सद्यमन्त्रेण होमयेत्
शिखा तच्चोपवीतञ्च अघोरास्त्रेण होमयेत् ॥ २१ ॥
अजपामन्त्रमुच्चार्य अष्टोत्तरशताहुतिम्
चतुर्विंशतितत्वञ्च संहृतिक्रममेव वा ॥ २२ ॥
अघोरास्त्रेण हुत्वा तु त्रिवारं प्रणवमुच्चरेत्
त्रयाहुतिं पृथक्चैव निवृत्तिञ्च त्रयाहुतिम् ॥ २३ ॥
विष्णुं सम्पूजयेत्पश्चात् ब्रह्माणं वैष्णवन्तथा
कालतत्वादिमभ्यर्च्य प्रत्येकञ्च त्रयाहुतिम् ॥ २४ ॥
विद्याशक्तिं ततो हुत्वा अग्नौ रुद्रं प्रपूजयेत्
विद्यातत्वं समभ्यर्च्य त्रयाहुतिं हुनेत्ततः ॥ २५ ॥
शान्तित्रयाहुतिञ्चैव विष्णुरुद्रैर्यजेत्ततः
महेश्वरञ्च सम्पूज्य रुद्रं योज्य महेश्वरे ॥ २६ ॥
महेशं पूजयेच्चैव ईशतत्वे सुयोजयेत्
आत्मानं स्वहृदे न्यस्य आहुतित्रयमुत्तमम् ॥ २७ ॥
भोग्यकर्मोपभोगार्त्थं शिष्यदेहे च योजयेत्
महेशं मस्तके न्यस्य उपदिश्य विशेषतः ॥ २८ ॥
अकारञ्च सकारञ्च अजपामन्त्रमुच्चरन्
शिवाय मन्त्रं मन्त्रेण उपदेशन्तु कारयेत् ॥ २९ ॥
ईशानादि च सद्यान्तं शिष्येणैव समाचरेत्
तत्तन्नामप्रकल्प्याथ नामान्ते ब्रह्ममुच्चरन् ॥ ३० ॥
पञ्चब्रह्माभिधानैश्च अर्चयित्वा महेश्वरम्
दण्डं करे च संयोज्य द्विकरा वञ्जली कृतम् ॥ ३१ ॥
नाभिदेशे नमस्कृत्य त्रिप्रदक्षिणमारभेत्
महेश इति नामाख्यं यःपरस्समहेश्वरः ॥ ३२ ॥
महेशे सम्यक्न्यासं चित्तं सन्यासमुच्यते
पूजायोग्यं महेशानं द्ध्यानयोग्यं सदाशिवम् ॥ ३३ ॥
मोहैस्सदाशिवं पूज्य ब्रह्महत्या समं भवेत्
सन्यासदर्शनं कृत्वा कन्न्यकादर्शनं तथा ॥ ३४ ॥
अष्टवर्षा भवेत् कन्न्या गौरी चेत् दशवर्षिणी
उत्तमं कन्न्यका चैव गौरी वा मद्ध्यमं भवेत् ॥ ३५ ॥
’
कुनखी अङ्गहीना च मुण्डीरोगी विवर्जयेत्
विप्रयुग्मं प्रदर्श्या वा धान्यञ्चैव ततः परम् ॥ ३६ ॥
धान्यं प्रदर्शयित्वा तु दधिक्षीरं प्रदर्शयेत्
यजमानन्ततः पश्चात् दर्शयेत्सर्वजनानपि ॥ ३७ ॥
एवं कल्प्य विशेषेण महापातकनाशनम्
सर्वकामप्रदं प्रोक्तं देवसान्निद्ध्यकारणम् ॥ ३८ ॥
इति नयनोन्मीलनपटलः पञ्चदशः