०१४ कौतुकबन्धपटलः

कौतुकबन्धपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वकामार्त्थसिद्धिदम्
देवानां कौतुकं पध्वा उत्सवादिषु कर्मषु ॥ १ ॥

विधिसाध्वीषु तद्बाह्ये तलं सेच्यविशेषतः
आचार्यो कौतुकं बध्वा ग्रामसन्धिं न लङ्घयेत् ॥ २ ॥

रकारं सर्वमित्युक्तं क्षकारं पापनाशनम्
रक्षाशब्दमिति ख्यातं समासात्परिकीर्तितम् ॥ ३ ॥

स्वर्णे वा रजते वापि दुकूलतन्तुना तथा
कार्पासतन्तुना चैव एकविंशतितन्तुभिः ॥ ४ ॥

तन्तुमेकादशं प्रोक्तं सप्ततन्तुञ्च कन्न्यसम्
यावन्मात्रं तले मूलं नाभिञ्चेत् मणिबन्धके ॥ ५ ॥

तावन्मात्रं कौतुकन्तु कथं शम्भो महेश्वर
गोपुराणान्तु कण्ठेषु रथानां स्तम्भमद्ध्यमे ॥ ६ ॥

विमानं मद्ध्यमे कुक्षौ मण्टपे स्तम्भमद्ध्यमे
शिवार्थं मद्ध्यमे पात्रे कौतुकं बन्धयेत्ततः ॥ ७ ॥

देवानाञ्च द्विजानाञ्च मणिबन्धेषु कारयेत्
क्षत्रियाणां द्व्यङ्गुलाग्रे रक्षाबन्धनमाचरेत् ॥ ८ ॥

मणिबन्धात्करो मद्ध्यं तयोर्मद्ध्ये तु बन्धनम्
वैश्यानाञ्चैवमित्युक्तं शूद्राणाञ्च ततश्शृणु ॥ ९ ॥

करमन्न्यं बाहुमूलं तयोर्मद्ध्येषु बन्धयेत्
शुक्लपात्रं समादाय तण्डुलान्पूरयेत्ततः ॥ १० ॥

तण्डुलोपरिविन्यस्य नालिकेरञ्च विन्यसेत्
नालिकेरं विशेषेण दीर्घकोणा कृतिं त्यजेत् ॥ ११ ॥

शिखाहीनन्त्यजेच्चैव नालिकेरञ्च निक्षिपेत्
पक्वं फलञ्च नारङ्गम् अथवा निक्षिपेत्ततः ॥ १२ ॥

उत्तराभिमुखो भूत्वा निक्षिपेत्तण्डुलोपरि
अर्चयित्वा विशेषेण बिम्बं वै प्रमुखो भवेत् ॥ १३ ॥

द्विकरान्तं विशेषेण तण्डुलं पूरयेत्ततः
तस्योपरि फलं वापि रक्षाबन्धनमारभेत् ॥ १४ ॥

यो ब्रह्माब्रह्मण इत्यादि मन्त्रेणा बद्धयेत्ततः
रुद्रभाव्यञ्च मद्ध्ये तु बध्नीयात् देशिकोत्तमः ॥ १५ ॥

अन्ते सूत्रं विसृज्याथ ससूत्रं चुलुकोदकम्
शिवस्य वरदे हस्ते दापयेत्तु निवेदनम् ॥ १६ ॥

एवं कृत्वा विशेषेण राजराष्ट्रविवर्द्धनम् ॥ १७ ॥

इति कौतुकबन्धपटलश्चतुर्दशः