०१३ बिंबशुद्धिपटलः

बिम्बशुद्धिपटलप्रारम्भः
त्रिपुरान्तकसर्वेश इच्छामि वदमे प्रभो
सर्वलोकहितं पुण्यं सर्वानुग्रहकारणम् ॥ १ ॥

बिम्बशुद्धिः कथं शम्भो वक्ष्येऽहन्तु षडानन
ताम्रे वा कांस्य लोहे वा दारुणा पीठमुत्तमम् ॥ २ ॥

चतुर्हस्तसमं दीर्घं द्विकरं विस्तरन्तथा
दशाङ्गुलघनं गात्रं चित्राकारं प्रकल्पयेत् ॥ ३ ॥

पादोन्नतं विस्तरार्द्धं चतुष्पादसमायुतम्
दर्पणोदरमद्ध्यस्थं स्नानवेदिं प्रकल्पयेत् ॥ ४ ॥

नवकोष्ठं क्रमाल्लिख्य दर्भेणैव सुलेखयेत्
कुङ्कुमेनाङ्कितञ्चैव मन्त्रन्यासं प्रकल्पयेत् ॥ ५ ॥

शिवतत्वञ्च तन्मद्ध्ये पूर्वे चैव सदाशिवम्
अनले ईशतत्वं स्यात् विद्यातत्वन्तु दक्षिणे ॥ ६ ॥

माया तत्वन्तु नैर्ऋत्यां कालतत्वन्तु पश्चिमे
निर्ऋतौ चैव वायव्ये उत्तरे प्रकृतिन्तथा ॥ ७ ॥

ऐशान्यां पुरुषं प्राक्तं कोष्ठमद्ध्येषु पूजयेत्
पीथे बिम्बं निवेश्याथ अभिषेकन्तु कारयेत् ॥ ८ ॥

नद्यां पुण्यतमं विद्यात् पुण्यतीर्त्थे विशेषतः
तटाकं मद्ध्यमं प्रोक्तम् अधमं कूपवारिणि ॥ ९ ॥

एलालवङ्गकर्पूरत्रुटिकच्चोलचूर्णकैः
जले निक्षिप्य तद्द्रव्यं बिम्बं स्नाप्य विशेषतः ॥ १० ॥

उत्तमं गन्धतैलं स्यात् तिलतैलन्तु मद्ध्यमम्
वदमे गन्धतैलन्तु कथं शम्भो महेश्वर ॥ ११ ॥

मरीची च जटामांसी सितसर्षपमेव च
हरीतकीफलञ्चैव खदिरो मधुकस्तथा ॥ १२ ॥

नालिकेरजलञ्चैव —– शृङ्गिबेरकम्
कृत्वामलकसारञ्च नारङ्गफलमेव च ॥ १३ ॥

साम्राणि कोष्ठसंयुक्तं कह्लारं कोष्ठमेव च
उशीरं मूलमित्युक्तं कच्चोरन्तु तथैव च ॥ १४ ॥

एलालवङ्गगन्धञ्च कर्पूरं लखुपत्रकम्
अगरूञ्चैव कस्तूरि हिमाम्बुमिश्रमेव च ॥ १५ ॥

पाटलीञ्चम्पकञ्चैव कह्लारं मल्लिकान्तथा
तिलेषु दापयेत्पुष्पान्पञ्चरात्रं त्रिरात्रकम् ॥ १६ ॥

दापयेत्सञ्चयेच्चैव तिलसारं ग्रहेत्ततः
एतान्मिश्राणि सम्मृज्य मिलित्वा निक्षिपेत्ततः ॥ १७ ॥

पात्रेषु पूरयेत्पश्चात् अग्निदानाहरेत्ततः
तीव्राग्निञ्चैव मन्दाग्निं वर्जयित्वा विशेषतः ॥ १८ ॥

पक्वतैलरसं क्षिप्य ग्राहयेत् शुद्धपात्रके
गन्धतैलं ततः पूर्वं पञ्चगव्यं द्वितीयकम् ॥ १९ ॥

पदमे पञ्चगव्यन्तु वक्ष्येऽहन्तु षडानन
द्रोणतण्डुलमाहृत्य हस्तमात्रन्तु विस्तरम् ॥ २० ॥

चतुरश्राकृतिं कृत्वा द्व्यङ्गुलोन्नतमाचरेत्
नवकोष्ठं समालिख्य कोष्ठपूजां समाचरेत् ॥ २१ ॥

शिवतत्वकृतं मद्ध्ये सादाख्यं तत्वपूर्वके
ईश्वरं त्वनले चैव विद्यां चैव तु दक्षिणे ॥ २२ ॥

माया तत्वञ्च निर्ऋतौ कालतत्वञ्च वारुणे
वायव्ये नियतीञ्चैव सोमे तत्पुरुषन्तथा ॥ २३ ॥

ऐशान्यां प्रकृतिः प्रोक्तं पात्रपूजां ततः परम्
सुप्रतिष्ठन्तु तन्मद्ध्ये सुशान्तं पूर्वपात्रके ॥ २४ ॥

तेजः पात्रं तथा याम्ये मृतपात्रन्तु पश्चिमे
उत्तरे रत्नपात्रन्तु धरान्ये व्यक्तपात्रकम् ॥ २५ ॥

ज्योतीरूपन्तु शेषाणि क्षीरन्तु मद्ध्यमे तथा
पूर्वे दधिश्च सर्वे च आज्यं गोमयगोजलम् ॥ २६ ॥

वसान्ये पयसा क्षिप्य ईशानादीन्प्रपूजयेत्
पञ्चवारं चतुर्वारं त्रिवारञ्च द्विवारकम् ॥ २७ ॥

एकवारन्तु ईशादीन्मूलमन्त्रं जपेत्ततः

अष्टोत्तरशतं जप्त्वा अघोरेण जपेत्ततः ॥ २८ ॥

घृतं वै कुडुपं त्रीणि प्रस्थार्द्धं दधिरुच्यते
द्विप्रस्थम् आढकं क्षीरं द्विप्रस्थं गोमयन्तथा ॥ २९ ॥

द्विपादम् आढकं मूत्रं पञ्चगव्यं समाचयेत्
कृष्णं श्वेतं तथारक्तं धूम्रञ्च कपिला कृता ॥ ३० ॥

घृतादीन् ग्राहयेच्चैव महापातकनाशनम्
पञ्चामृतन्तु वक्ष्येऽहं तण्डुलैर्हस्तमात्रतः ॥ ३१ ॥

नवकोष्ठं समालिख्य अर्चयित्वा विशेषतः
मद्ध्ये क्षीरन्तु संस्थाप्य दधिपूर्वे च विन्यसेत् ॥ ३२ ॥

दक्षिणे घृतमेवं स्यात्पश्चिमे गोमयन्तथा
उत्तरे मधुविन्यस्य अर्चयित्वा विशेषतः ॥ ३३ ॥

गन्धसारन्तु ईशाने जम्बीरन्त्वनले तथा
नालिकेररसञ्चैव नैर्ऋतेषु समर्चयेत् ॥ ३४ ॥

नारङ्गद्वयसंवीतं सारं वै वायुदेशके
इन्द्रादीनर्चयेच्चैव अगस्त्यं मद्ध्यमे न्यसेत् ॥ ३५ ॥

कदलीफलसाहस्रं जम्बीरञ्चतुरश्शतम्
षोडशं नालिकेरञ्च पनसञ्च चतुस्तथा ॥ ३६ ॥

अशीतिपलसंयुक्तं शर्करा सम्प्रकीर्तितम्
त्रिप्रस्थं मधुसंयुक्तं चतुःप्रस्थं घृतन्तथा ॥ ३७ ॥

द्रोणतैलविशेषेण इक्षुदण्डं शतं भवेत्
अभ्रं शतपलं प्रोक्तं त्रिशतं नालिकेरकम् ॥ ३८ ॥

भारमात्रन्तु सुक्षीरं द्विखारिदधिसंयुतम्
गन्धसारन्तु सुक्षीरं द्विखारिदधिसंयुतम् ॥ ३९ ॥

वस्त्रमूर्ध्ना पटाकारं नालिकेरजलं क्षिपेत्
स्वर्णे वा रजते वापि ताम्रे वा पात्रमुत्तमम् ॥ ४० ॥

शङ्खं वा पूरयेच्चैव अभिषेकन्तु कारयेत्
पात्रेषु फलसारञ्च निक्षिप्य चाभिषेचयेत् ॥ ४१ ॥

अश्वत्थं जम्बुवृक्षञ्च प्लक्षं हालातरुन्तथा
औदुम्बरञ्च वृक्षाणि एतांस्तु ग्राहयेत्ततः ॥ ४२ ॥

सङ्गृह्य पल्लवं तेषां पञ्चपात्रेषु निक्षिपेत्
वल्मीके दर्भमूले च गजस्थाने गिरौ तथा ॥ ४३ ॥

तटाकं वटसंयुक्तं मृदोदकं प्रपूरयेत्
यथेष्टमभिषिच्याथ बिम्बशुद्धिं विशेषतः ॥ ४४ ॥

शुद्धवस्त्रेण सम्मृज्य धौतवस्त्रेण वेष्टयेत्
एवं कृत्वा विशेषेण सर्वकार्येषु साधयेत् ॥ ४५ ॥

इति बिम्बशुद्धिपटलस्त्रयोदशः