अङ्कुरार्पणपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणुष्वच षडानन
सर्वलोकहितं पुण्यम् अङ्कुरार्पणमुत्तमम् ॥ १ ॥
नराणां चौलकर्मादि कर्मसु चाङ्कुरार्पणम्
निशावर्ज्यं दिवा कुर्यात्सर्वकार्येषु शोभनम् ॥ २ ॥
देवानान्तु निशा कुर्यात् अहस्सु वर्जयेत्ततः
देवानामङ्कुरं कृत्वा प्रत्यङ्कुरन्न कारयेत् ॥ ३ ॥
नराणामङ्कुरं वर्ज्येत् सर्वकर्मसु कारयेत्
अथातस्समहेशानं प्रत्यङ्कुरं न कारयेत् ॥ ४ ॥
मानुषाणां गृहे वापि कथं शम्भो विशेषतः
देवानामङ्कुरं कृत्वा सर्वकर्मसु कारयेत् ॥ ५ ॥
शास्ता च चण्डिका चैव गणेशः षण्मुखस्तथा
पद्मात्म इति सर्वेषां प्रत्येकालयमुत्तमम् ॥ ६ ॥
पूर्वे वा अङ्कुरं कृत्वा कथं पूज्येत देशिकः
एके च नगरे चैव शास्तारं चण्डिकान्तथा ॥ ७ ॥
गणेशोऽपि च वैष्णव्यम् अन्यांस्तु परिवारकम्
शिवमुद्दिश्य यत्काले यत्काले च विशेषतः ॥ ८ ॥
अन्येषामङ्कुरं वर्जेत्परिवारान्न विद्यते
यावन्मात्रं ग्रामसन्धिस्तावन्मात्रं न करयेत् ॥ ९ ॥
वीधिं पृथक्पृथक् विद्यात्सचेत्वात्वङ्कुरं विना
प्रत्येकं मण्डलङ्कृत्वा आचरेदङ्कुरार्पणम् ॥ १० ॥
सङ्कटे जीर्णदेशे वा बाह्ये रत्नौ च नैर्ऋतौ
वायव्ये ईशदेशे वा अन्यदेशेषु कारयेत् ॥ ११ ॥
पालिका घटिका चैव शरावः त्रिविधं भवेत्
पालिकालक्षणं वक्ष्ये चतुर्विंशाङ्गुलोन्नतम् ॥ १२ ॥
अष्टादशाङ्गुलं वापि षोडशाङ्गुलमेव वा
भानुसङ्ख्योन्नतं वापि कन्न्यसं परिकीर्तितम् ॥ १३ ॥
द्वादशाङ्गुलविस्तारं वृत्ताकारं प्रकीर्तितम्
एकाङ्गुलघनञ्चैव मद्ध्ये सप्ताङ्गुलन्तथा ॥ १४ ॥
एकाङ्गुलमधो रेखा पादं सप्ताङ्गुलन्तथा ॥ १५ ॥
अष्टपद्मदलाकारम् उत्तमं परिकीर्तितम्
चतुर्विंशाङ्गुलञ्चैव उन्नतं घटिका तथा ॥ १६ ॥
पादं मद्ध्यमवक्त्रञ्च त्रिमानं कल्पयेत्ततः
मद्ध्ये रेखा द्वयं विद्यात्पञ्चकोणोत्तमं भवेत् ॥ १७ ॥
प्रतिकोणन्तु तन्मानम् अथवा एकमङ्गुलम्
शरावं चतुरश्रञ्च चतुर्विंशाङ्गुलोन्नतम् ॥ १८ ॥
त्रिमानं कल्पयेच्चैव वक्त्रपादञ्च मद्ध्यमे
रेखा द्वयञ्च तन्मद्ध्ये जर्झरं वर्जयेत्ततः ॥ १९ ॥
कालं भिन्नञ्च सुषिरमदग्धं परिवर्जयेत्
ब्रह्मविष्णुशिवाश्चैव त्रिमूर्ती रूपमुच्यते ॥ २० ॥
जगत्सृष्टि निमित्तं वा अङ्कुरं कारयेत्ततः
प्रत्येकमष्टकञ्चैव चतुर्विंशति सङ्ख्यया ॥ २१ ॥
षोडश द्वादशञ्चैव ग्राहयेत्सुविचक्षणः
अथवा घटिका चैव अष्टमं परिकीर्तितम् ॥ २२ ॥
औदुम्बरः पाटलिश्च अश्वत्थञ्चूतपल्लवैः
पर्णैः पदैरलङ्कृत्य मृत्तिकां पूरयेत्ततः ॥ २३ ॥
वल्मीके च नदी तीरे दर्भमूले मृदं हरेत्
पालिकादिषु सम्पूज्य अलङ्कृत्य विशेषतः ॥ २४ ॥
उत्तमं सप्तकाशैस्तु पञ्चकाशैस्तु मद्ध्यमम्
त्रिकाशैरधमं विद्यात् चतुरङ्गुलदीर्घकम् ॥ २५ ॥
मद्ध्ये एकाङ्गुलं ग्रन्धिं पवित्रं निक्षिपेत्ततः
प्राच्यां दिशि च सूत्रं स्यात् उदीच्यां वसुसूत्रकाः ॥ २६ ॥
द्वाराणां पार्श्वयोश्चैव पूर्वादौ पालिकां न्यसेत्
विन्यसेत् घटिका द्वे तु कोणेषु तु पदद्वये ॥ २७ ॥
शेषेषु च शरावानि स्थापयेत् हृदयेन तु
अष्टद्रोणं तदर्द्धं वा तदर्द्धं धान्यमेव वा ॥ २८ ॥
सतिलेनाङ्कितां रेखां चतुर्विंशद्दलाकृतिम्
कर्णिकामद्ध्यमे चैव सोमकुम्भं न्यसेत्ततः ॥ २९ ॥
पार्श्वयोर्बान्धनीं स्थाप्य गन्धपुष्पैरलङ्कृतम्
मुद्गमाषकुलुत्थञ्च निष्पावं शिवबन्धकम् ॥ ३० ॥
तिलसर्षपशालीञ्च सिद्धार्त्थं नवबीजकम्
उत्तमं नवबीजानि सप्तबीजन्तु मद्ध्यमम् ॥ ३१ ॥
पयसापूरमष्टाख्ये नारीकेलजलेऽपि वा ३१-॥ २ ॥
सामान्यार्घ्यन्तु संस्थाप्य सोममावाहयेत्ततः
द्विभुजाञ्च द्विनेत्राञ्च करण्डमकुटान्विताम् ॥ ३२ ॥
कुमुदौ द्विकरौ धार्यपीतवस्त्रधरान्विताम्
पद्मोपरिस्थां सौगन्धीं कृत्तिकां रोहिणीं यजेत् ॥ ३३ ॥
श्यामाङ्गीं धौतवस्त्राञ्च नीलोत्पलधरान्तथा
पूजयेत् गन्धपुष्पाद्यैः पालिकादीन् यजेत्ततः ॥ ३४ ॥
इत्यादीन्पालिकान्पूज्य भवादीन् घटिके यजेत्
वैकर्तनं शरावे च अर्चयेत्तु विशेषतः ॥ ३५ ॥
इन्द्रादींश्च चतुश्चैव भुवनादींश्चतुस्तथा
वैकर्तानां चतुश्चैव द्वादशानां प्रपूजयेत् ॥ ३६ ॥
वैकर्तनादीन्सम्पूज्य भवादीन् षोदशे यजेत्
भवादीन्वसुसङ्ख्यांश्च प्रत्येकम् अर्चयेत्ततः ॥ ३७ ॥
पीताभं रक्तवर्णञ्च अञ्जनं कृष्णसप्रभम्
श्वेतं पीतं सुरत्नाभं स्फटिकाभं तथैव च ॥ ३८ ॥
चक्रवक्त्रं तथा चैव अष्टमाला कमण्डलीम्
दण्डपाशं खड्गखेटं पाशाभयं तथैव च ॥ ३९ ॥
ध्वजाभयं गदाहस्तं त्रिशूलं व्यालधारिणम्
किरीटमकुटञ्चैव करण्डमकुटन्तथा ॥ ४० ॥
ज्वालाकेशं लम्बकेशम् उत्तुङ्गमकुटान्वितम्
सुपद्ममकुटोपेतं क्षौमे तुङ्गकिरीटिनम् ॥ ४१ ॥
जटामकुटसंयुक्तम् इन्द्राग्नियमनैर्ऋतीन्
वरुणं वायुसोमञ्च ईशानं पूजयेत्ततः ॥ ४२ ॥
रक्तं श्वेतं तथा नीलं कुङ्कुमाभं शशि प्रभम्
अनिलं श्यामवर्णञ्च अतिरक्तप्रभन्तथा ॥ ४३ ॥
पद्मयुग्मधरञ्चैव शङ्खचक्रवराभयम्
वराभयं पद्मयुग्मौ अंशुकौ खेटपद्मकम् ॥ ४४ ॥
पट्टसं मुद्गरञ्चैव अभयं भिण्डिपालकम्
तोमरं पद्ममेवञ्च कपालं शूलमेव च ॥ ४५ ॥
तोमरं खेटकञ्चैव गदावरदमेव च
वज्रनादमिति प्रोक्तं वरदाभयपाणिनम् ॥ ४६ ॥
प्रभामण्डलमद्ध्यस्थं किरीटवरदान्वितम्
वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ॥ ४७ ॥
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमम्
आदित्यश्च महासूर्यो अंशुमाली दिवाकरः ॥ ४८ ॥
एतान्सम्पूज्य एवोक्तं भवादींश्च तत श्रुणु
भवो भीमा नीलकेशः करालो जटिलस्तथा ॥ ४९ ॥
लम्बको वामनो रौद्र अर्चयेत्तु विशेषतः
धूम्राभं कृष्णवर्णञ्च मिश्रं क्षीरप्रभन्तथा ॥ ५० ॥
रक्तं विवर्णपीटाभं हरितालप्रभन्तथा
टङ्ककृष्णमृगञ्चैव शूलवज्रन्तथैव च ॥ ५१ ॥
खड्गपाशं तथा चैव डमरुं टङ्कमेव च
पट्टसम्मुद्गरञ्चैव शूलनागं तथैव च ॥ ५२ ॥
वरदाभयहस्तञ्च अक्षमालाभयन्तथा
अर्चयेत्तु विशेषेण बीजावापनमाचरेत् ॥ ५३ ॥
पञ्चब्रह्मषडङ्गैश्च —- वापत्रयेत्
तूर्यवाद्यैस्समायुक्तम् अर्चयेत्साधकोत्तमः ॥ ५४ ॥
सायं प्रातर्दिनं वापि जलमापूरयेत्ततः
अङ्कुरं लक्षणं वीक्ष्य श्यामला कृष्णवर्णिका ॥ ५५ ॥
कुब्जानीव सुधूमानि तिर्यक्तान्यङ्कुरन्तथा
अङ्कुराण्यर्पयेच्छून्यं तद्दोषशमनाय च ॥ ५६ ॥
अस्त्रमन्त्रं समुच्चार्य जुहुयाच्छतसङ्ख्यया
केशवं माधवं विष्णुं वामनञ्च त्रिविक्रमम् ॥ ५७ ॥
श्रीधरं पद्मनाभञ्च पद्माक्षाणि तथैव च
पालिकेषु च सम्पूज्य घटिकाञ्च तत श्रुणु ॥ ५८ ॥
भवं शर्वम् ईशरुद्रं तथा पाशुपतन्तथा
उग्रं रुद्रञ्च भव्यञ्च अर्चयेत्तु विशेषतः ॥ ५९ ॥
शरावं पूजयेत्पश्चात्त्रिलोक्यञ्च त्रिमूर्तिकम्
पद्माक्षं पद्मयोनिञ्च चतुराननधात्रकम् ॥ ६० ॥
पितामहमजञ्चैव शरावेषु प्रपूजयेत्
——————————- ॥ ६१ ॥
धूपदीपं बलिन्दद्यात्सावधानेन पूजयेत्
भक्तानां गन्धपुष्पाणि ताम्बूलं दापयेत्ततः ॥ ६२ ॥
अनङ्कुरन्तु यत्कर्म तत्कर्म निष्फलं भवेत्
नाङ्कुरन्तु दरिद्रं स्यात् रज्वाकारं महाभयम् ॥ ६३ ॥
दीर्घसूचिकह्रस्वश्च कुटिलं तत्सुखं भवेत्
ऊर्ध्वाभिमुखमेवोक्तं पूर्वे उत्तर ईशके ॥ ६४ ॥
उत्तमम् अङ्कुरं विद्यात् शेषदिग्वधमं भवेत्
वह्नौ च यमनैर्ऋत्यां वारुणे वायुदेशके ॥ ६५ ॥
ज्वरव्याधिमनो दुःखं रिपुवृद्धिञ्च पूर्णकम्
निशाकरोत्तमं प्रोक्तं यद्विवक्ष्ये षडानन ॥ ६६ ॥
निशां रमयशक्तश्चेत् दिवासन्ध्याङ्कुरन्तथा
पालिके घटिके चैव शरावे पूजयेत्ततः ॥ ६७ ॥
नालिकेरप्रसूनैश्च अक्षतैर्लाजसंयुतम्
अङ्कुरं कारयेद्धीमान् आयुश्रीविजयं भवेत् ॥ ६८ ॥
इति अङ्कुरार्पणविधिपटलो द्वादशः