मृत्सङ्ग्रहणपटलप्रारम्भः
अथातस्समहादेव सर्वकामार्त्थसिद्धिदम्
इच्छामि वदमे शम्भो मृत्सङ्ग्रहणमुत्तमम् ॥ १ ॥
वक्ष्ये हन्तु महासेन सर्वलोकहिताय च
पुण्यतीर्त्थसमीपे च उद्यानोपवने तथा ॥ २ ॥
गिरिपार्श्वे महास्थाने समुद्रतीरकेऽथवा
यद्वा देवस्य ऐशान्ये दिग्भागे आयुर्वर्द्धनम् ॥ ३ ॥
पूर्वे तु कलहं विद्यात् वह्नौ तु पुत्रवर्द्धनम्
दक्षिणे ज्ञानहीनं स्यात् नैर्ऋते मरणं ध्रुवम् ॥ ४ ॥
पश्चिमे मोक्षसिद्धिस्स्यात् वायव्ये सम्पदं भवेत्
उत्तरे श्रीपदं प्रोक्तं मृत्सङ्ग्रहणमुत्तमम् ॥ ५ ॥
अधमम् अशनिस्थाने क्षारभूमिं विवर्जयेत्
सन्धिस्थले वर्जयेत्तु मण्टपं कारयेत्ततः ॥ ६ ॥
षोडश स्तम्भसंयुक्तं द्वादशस्तम्भमेव वा
अष्टस्तम्भसमायुक्तं मण्टपालङ्कृतं तथा ॥ ७ ॥
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निगम्
चतुर्द्रोणसुधान्यैश्च अष्टपद्मदलं लिखेत् ॥ ८ ॥
वर्द्धनीं मद्ध्यमे स्थाप्य सकूर्चालङ्कृतं तथा
उत्तराभिमुखो भूत्वा सघदेवीं समर्चयेत् ॥ ९ ॥
द्व्यक्षां द्विभुजां पीताम् उत्तुङ्गमकुटान्विताम्
अभयं वरदोपेतां सर्वालङ्कारशोभिताम् ॥ १० ॥
भूमिदेवीं समावाह्य गन्धपुष्पैस्समर्चयेत्
चण्डेश्वरं समभ्यर्च्य दध्योदनबलिन्ददेत् ॥ ११ ॥
अस्त्रमूर्तिं समभ्यर्च्य पुण्याहप्रोक्षणन्तथा
पञ्चगव्येन संशोद्ध्य स्थलशुद्धिन्तु कारयेत् ॥ १२ ॥
देव्यास्तु पूर्वदिग्भागे नवकोष्ठं प्रकल्पयेत्
शिवस्सदाशिवेशश्च विद्यामाया तथैव च ॥ १३ ॥
कालश्च नियतिश्चैव पुरुषं प्रकृतिन्तथा
कोष्ठान्पूज्य विशेषेण निम्नोन्नतसभूतलम् ॥ १४ ॥
भूमिदेवीं यजेन्मद्ध्ये अनन्तां पूर्वदेशके
विनतां वाग्निदेशे तु भद्रां याम्ये प्रपूजयेत् ॥ १५ ॥
जृम्भितां नैर्ऋते पूज्य श्रमणीं वारुणे यजेत्
भूमिं वै वायुदिग्भागे प्रस्थितां चोत्तरे यजेत् ॥ १६ ॥
जृम्भिता भूमिदेव्योश्च तयोर्मद्ध्ये विशेषतः
शूलिनीं शक्तिमभ्यर्च्य दद्ध्योदनबलिन्ददेत् ॥ १७ ॥
शूलखट्वां तथा पाशं वरदं खड्गखेटकम्
पट्टसं मुद्गरञ्चैव तोमरम् असिमेव च ॥ १८ ॥
अभयं सूचिहस्तञ्च वरदं ज्ञानमुद्रिकाम्
कमण्डलाक्षसूत्रञ्च एते दिव्यायुधान्धराः ॥ १९ ॥
वेद्याश्चोत्तरभागे तु खनित्रं पूजयेत्ततः
षडङ्गुलसमानाहं त्रिकरं दीर्घमुच्यते ॥ २० ॥
दण्डाग्रे निर्मितञ्चैव स्वर्णेन रजतेन वा
ताम्रैर्वा लोहजैर्वापि द्वादशाङ्गुलविस्तरम् ॥ २१ ॥
षडङ्गुलन्तु दीर्घानि खनित्रं निर्मितोत्तमम्
शिवास्त्रमर्चयेच्चैव सुमुहूर्ते सुलग्नके ॥ २२ ॥
कोष्ठे शक्तिं समुद्वाह्य भूमिदेव्याश्च वामके
खनित्रं ग्राहयेच्चैव छेदयेत्सङ्ग्रहं मृदः ॥ २३ ॥
स्थलिकां रोपयेच्चैव धूपदीपान्बलिन्ददेत्
भूमौ निम्ने जलं क्षिप्य वर्द्धनीं योजयेत्ततः ॥ २४ ॥
मञ्चे वा शिबिके वापि प्रदक्षिणक्रमेण वा
आलयं वेशयेच्चैव पूजयेत्तु विशेषतः ॥ २५ ॥
एवं सङ्कल्प्य विधिवत्कल्पयेत्साधकोत्तमः
इति मृत्सङ्ग्रहणपटल एकादशः