वास्तुशान्तिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणु पार्वति नन्दन
वास्तुशान्तिविधिं चैव सर्वकामार्त्थसाधनम् ॥ १ ॥
वास्तुपूजा विहीनञ्चेत् सर्वकार्येषु निष्फलम्
प्रतिष्ठा निर्णये काले काले देवोत्सवे तथा ॥ २ ॥
वास्तुपूजां ततः कृत्वा सर्वकार्येषु साधनम्
ग्रामस्य मद्ध्यमे चैव कल्पयेत् देवसन्निधौ ॥ ३ ॥
उत्तमं लिङ्गमाख्यातम् अष्टाष्टस्तम्भसंयुतम्
द्वात्रिंशत्स्तम्भमेवोक्तं षोडश स्तम्भमेव वा ॥ ४ ॥
पूर्वोक्तयागं सङ्कल्प्य मद्ध्ये वेदिं प्रकल्पयेत्
कुण्डं सङ्कल्प्य तत्पूर्वे मेखला त्रयमुत्तमम् ॥ ५ ॥
वृत्ताकारं वेदिकां वा ऐशान्ये सम्प्रकल्पयेत्
नैर्ऋत्यां पञ्चगव्यञ्च कोष्ठं सम्पाद्यमेव च ॥ ६ ॥
चतुर्द्वारसमायुक्तं चतुस्तोरणसंयुतम्
मद्ध्ये वेदिं विशेषेण नवोनवपदं भवेत् ॥ ७ ॥
मद्ध्ये नवपदञ्चैव पद्ममष्टदलं लिखेत्
कर्णिकां कुङ्कुमप्रख्यां रक्तपद्मदलाकृतिम् ॥ ८ ॥
अन्तरे श्यामवर्णञ्च वीधिं श्वेतेन कल्पयेत्
षट्पदं पूर्वभागे तु कृष्णवर्णैरलङ्कृतम् ॥ ९ ॥
दक्षिणे षत्पदञ्चैव श्वेतवर्णैरलङ्कृतम्
पश्चिमे षट्पदञ्चैव रक्तवर्णैरलङ्कृतम् ॥ १० ॥
उत्तरे षट्पदञ्चैव पीतवर्णैरलङ्कृतम्
आग्नेयादि चतुर्दिक्षु द्विद्विकोष्ठं प्रकल्पयेत् ॥ ११ ॥
कृष्णश्वेतं वह्निदिशि श्वेतरक्तञ्च नैर्ऋते
रक्तपीतञ्च वायव्ये पीतशुक्लञ्च ईशके ॥ १२ ॥
पार्श्वे वीधिं प्रकल्प्याथ ईशानेन समं क्रमात्
ईशानाद्यष्टपदञ्चैव रक्तवर्णं प्रकल्पयेत् ॥ १३ ॥
आग्नेयाद्यष्टपदञ्चैव कृष्णवर्णं प्रकल्पयेत्
नैर्ऋत्याद्यष्टपदञ्चैव श्वेतवर्णं प्रकल्पयेत् ॥ १४ ॥
वायव्याद्यष्टपदञ्चैव श्यामवर्णं प्रकल्पयेत्
अभावे पञ्चवर्णांश्च तण्डुलैर्वा विशेषतः ॥ १५ ॥
—– सुपश्चात् गन्धपुष्पैरलङ्कृतम्
ब्रह्माणं मद्ध्यमे पूज्य इन्द्रादींश्च दलाग्रके ॥ १६ ॥
पूर्वादिषु चतुर्दिक्षु पदेषु च पृथक्पृथक्
विवस्वन्तं मरीचिञ्च मित्रं चैव धराधरम् ॥ १७ ॥
सम्पूज्य विधिवत् द्ध्यात्वा गन्धपुष्पैस्समर्चयेत्
आग्नेयादिचतुर्दिक्षु द्विकोष्ठं च पृथक्पृथक् ॥ १८ ॥
सविता चैव सावित्रान् अर्चयेत्तु विशेषतः
इन्द्रं चैव जयां चैव पूजयेद्विधिवत्तथा ॥ १९ ॥
रुद्राय रुद्रदासाय गन्धपुष्पैस्समर्चयेत्
आपश्च आपवत्सश्च अर्चयेत्तु तथैव च ॥ २० ॥
रूपं वक्ष्ये विशेषेण तेषाञ्चैव पृथक्पृथक्
पापदेह इति नाम वास्तु पर्याय वाचकः ॥ २१ ॥
तस्याधिदैवतं ब्राह्मं वक्ष्येऽहन्तु षडानन
चतुर्भुजं चतुर्वक्त्रं किरीटमकुटोज्वलम् ॥ २२ ॥
पीताभं पीतवस्त्रञ्च हेमयज्ञोपवीतिनम्
स्रक्कमण्डलुकं वामे सव्ये पद्माक्षमालिका ॥ २३ ॥
ब्रह्माणं पूजयेत्पश्चात् विवस्वन्तं प्रपूजयेत्
द्विभुजञ्च द्विनेत्रञ्च किरीटमकुटोज्वलम् ॥ २४ ॥
खड्गखेटसुधार्यञ्च कुङ्कुमाङ्कितसन्निभम्
विवस्वन्तं पूजयेच्च मरीचिञ्च ततः श्रुणु ॥ २५ ॥
खट्वाङ्गं लम्बहस्तञ्च किरीटाभरणोज्वलम्
पीताम्बरोत्तरीयञ्च आदनूपुरसंयुतम् ॥ २६ ॥
मरीचिं पूजयेत्पश्चात् अर्चयित्वा विशेषतः
द्विपादञ्च त्रिनयनं करण्डमकुटान्वितम् ॥ २७ ॥
वज्रशक्तिधरं ध्यात्वा मित्रञ्चेत्पूजयेत्ततः
सरत्नमकुटोपेतं कृष्णवस्त्रेण वेष्टितम् ॥ २८ ॥
अभयं शूलहस्तञ्च धराधरं यजेत्ततः
श्यामवर्णञ्च दण्डञ्च खड्गधार्यं सुवामके ॥ २९ ॥
शूलिका भरणैर्भूष्यं सविता पूजयेत्ततः
रक्तवर्णं द्विनेत्रञ्च लम्बकेश करालिनम् ॥ ३० ॥
खड्गदण्डं सुधार्यञ्च सावित्रं पूजयेत्ततः
पीताभं पीतवस्त्रञ्च कुङ्कुमाङ्कित सन्निभम् ॥ ३१ ॥
पाशं थार्यञ्च दण्डञ्च इन्द्रं वै पूजयेत्ततः
द्विपादञ्च द्विनयनं रक्ताभरणभूषितम् ॥ ३२ ॥
खेटकं पट्टसञ्चैव विजयं पूजयेत्ततः
श्वेताभं श्वेतवस्त्राङ्गं व्याघ्रचर्मेण वेष्टितम् ॥ ३३ ॥
कार्मुकं बालसंयुक्तं रुद्राय च प्रपूजयेत्
मिश्रवर्णद्वयाक्षाभ्यां पादनूपुरसंयुतम् ॥ ३४ ॥
ऊरुवस्त्रञ्च संवेष्ट्य रुद्रदासं प्रपूजयेत्
रक्तवस्त्रेण संवेष्ट्य शुद्धयज्ञोपवीतिनम् ॥ ३५ ॥
सरत्नमकुटोपेतं क्षुरिकां धारयेत्ततः
एवं हुत्वा विशेषेण आपञ्च पूजयेत्ततः ॥ ३६ ॥
द्विपादञ्च द्विनेत्रञ्च किरीटमकुटन्तथा
भिण्डिपालसुधार्यञ्च आपवत्सं प्रपूजयेत् ॥ ३७ ॥
ईशानाद्यष्टपदे चैव श्रुणुष्व च षडानन
रक्तवर्णं द्विनेत्रञ्च किरीटाकृतिमण्डितम् ॥ ३८ ॥
खट्गखेटं महाभीमम् ईशानं पूजयेत्ततः
रक्तवर्णं द्विनेत्रञ्च किरीटमकुटोज्वलम् ॥ ३९ ॥
खण्डखड्गसुधार्यञ्च पर्जन्यं पूजयेत्ततः
कृष्णवर्णं दिनेत्रञ्च ऊरुवस्त्रञ्च संयुतम् ॥ ४० ॥
असिखेटं सुधार्यञ्च जयन्तं पूजयेत्ततः
पीतवर्णं द्विबाहुं च अजिनं वेष्टयेत्ततः ॥ ४१ ॥
—– गरं चैव माहेन्द्रं पूजयेत्ततः
हरितालप्रभा चैव सरक्तमकुटान्वितम् ॥ ४२ ॥
पट्टसम्मुत्गरं चैव आदित्यं पूजयेत्ततः
द्विपादौ नूपुरौ धार्यं खेटकं पाशमेव च ॥ ४३ ॥
शुक्लवस्त्र ——- पूजयेत्ततः
पद्मं च तोमरं धार्यं द्विनेत्रमकुटान्वितम् ॥ ४४ ॥
कृष्णाभरणसम्भूष्य भृङ्गराजं यजेत्ततः
कुण्डलाभरणञ्चैव हेमयज्ञोपवीतिनम् ॥ ४५ ॥
नीलोत्पलधरं शूलम् अ—— रिं पूजयेत्
आग्नेय्या द्यष्टके चैव रक्तवर्णन्तथैव च ॥ ४६ ॥
कृष्णवर्णं द्विबाहुं च अङ्कुशं च कपालिनम्
चित्रवस्त्रसमायुक्तम् अग्निन्तु पूजयेत्ततः ॥ ४७ ॥
कृष्णवर्णं द्विनेत्रं च रक्तवर्णं तथैव च
कपालं खड्गसंयुक्तं पूजयेच्च विशेषतः ॥ ४८ ॥
मुक्ताभरणसंयुक्तं कृष्णवक्त्रं तथैव च
रक्ताङ्गं खड्गशूलं च विदधां पूजयेत्ततः ॥ ४९ ॥
रक्ताभं कुण्डलं चैव कृष्णवक्त्रं द्विनेत्रकम्
अभयं शुण्डहस्तं च ऋक्षतं च प्रपूजयेत् ॥ ५० ॥
नीलाङ्गं रक्तवक्त्रं च उग्रदंष्ट्रीभयङ्करम्
वक्त्राभयं विशेषेण यमं वै पूजयेत्ततः ॥ ५१ ॥
कालवर्णं द्विनेत्रञ्च कम्बुकं भरणोज्वलम्
रक्तवक्त्रं त्रिशूलञ्च गर्न्धवं पूजयेत्ततः ॥ ५२ ॥
श्यामवर्णं द्विनेत्रञ्च श्वेतवस्त्रसमन्वितम्
सूचिहस्ताभयञ्चैव भृङ्गराजं प्रपूजयेत् ॥ ५३ ॥
शुक्लाङ्गं शुक्लनेत्रञ्च कृष्णवक्त्रं तथैव च
तोमराभयसंयुक्तं मृगराजं प्रपूजयेत् ॥ ५४ ॥
नैर्ऋत्यां द्विपदेष्वेष्टे कुङ्कुमाभं तथैव च
कृष्णवक्त्रं करालास्यं वरदाभयपाणिनम् ॥ ५५ ॥
निर्ऋतिं पूजयेत्पश्चात् दौवारिकं तत श्रुणु
नेत्रयुग्मं द्विबाहुञ्च श्वेतवर्णं करालकम् ॥ ५६ ॥
खड्गपट्टसमे वोक्तं दौवारिकं प्रपूजयेत्
द्विभुजं सोपवीताङ्गं पद्माक्षं मालिकाधरम् ॥ ५७ ॥
शुक्लवर्णं द्विनेत्रञ्च सुग्रीवं पूजयेत्ततः
मिश्रवर्णं द्विबाहुं च कुण्डलाभरणोज्वलम् ॥ ५८ ॥
सृगक्षमालिनीं चैव पुष्पदन्तं प्रपूजयेत्
द्विक्षं द्विभुजं विद्यात्कार्मुकं शरसंयुतम् ॥ ५९ ॥
पद्माभं कुण्डलं चैव प्रचेतं पूजयेत्ततः
द्विबाहुं नेत्रयुग्मं च वृश्चिकाभरणोज्वलम् ॥ ६० ॥
खड्गं दण्डं सुधार्यं च सुरांश्च पूजयेत्ततः
एकास्यम् एकनाडिं च द्विबाहुं च तथैव च ॥ ६१ ॥
भिण्डिपालं स्रुवं चैव शेषं चेत्पूजयेत्ततः
हेमयज्ञोपवीताङ्गं शुक्लवस्त्रोत्तरीयकम् ॥ ६२ ॥
शङ्खखड्गसुधायां च रोगां पूज्य विशेषतः
वायव्याद्वसुसङ्ख्या च अर्चयेत् श्रुणु षण्मुख ॥ ६३ ॥
इन्द्रनीलसमानाङ्गम् अङ्गरागसमन्वितम्
मुद्गरं क्षुरिकं चैव वयुं वै पूजयेत्ततः ॥ ६४ ॥
स्फटिकाभं द्विनयनम् उत्तुङ्गमकुटान्वितम्
खड्गखेटं भ्रमं वक्त्रं नागं चेत्पूजयेत्ततः ॥ ६५ ॥
काचपुष्पसमानाभं मन्दस्मितमुखन्तथा
शूलशङ्खसुधार्यञ्च मुखं वै पूजयेत्ततः ॥ ६६ ॥
करालवदनं भीमं चूलिकाधारणं तथा
मुक्ताभरणसम्भूष्य भल्लाटं पूजयेत्ततः ॥ ६७ ॥
चन्द्रकान्तनिभप्रख्यं कुङ्कुमाङ्कितसन्निभम्
खट्वाङ्गं लम्बहस्तं च होमं वै पूजयेत्ततः ॥ ६८ ॥
नक्षत्राभरणप्रख्यं कृष्णाभरणभूषितम्
वज्रं व्यजनहस्तं च रुच्या यं पूजयेत्ततः ॥ ६९ ॥
काश्मीरसदृशप्रख्यं कुण्डलाभरणोज्वलम्
वज्रं मुसलधार्यं च अदितिं पूजयेत्ततः ॥ ७० ॥
विद्युत्कोटिसमप्रख्यं सर्वाभरणभूषितम्
अभयन्तोमरं चैव दितिं सुपूजयेत्ततः ॥ ७१ ॥
ईशानादि चतुश्शूले चरक्यादीन्प्रपूजयेत्
चतुर्भुजं द्विनेत्रं च जटाज्वाला सुकेशकम् ॥ ७२ ॥
ब्रह्मास्त्रं दक्षिणे चैव तोमरं वामहस्तके
खड्गखेटं सुधार्यं च पादुकोपरिसंस्थितम् ॥ ७३ ॥
ईशाने पूजयेत्पश्चात् विदारीं च तत श्रुणु
द्विपादं च द्विनेत्रं च चतुर्भुजसमायुतम् ॥ ७४ ॥
वज्रं शक्त्यन्तरा चैव पट्टसम्मुद्गरं तथा
विदारीं पूजयेत्पश्चात् अर्चयेत्तु विशेषतः ॥ ७५ ॥
शुक्लवर्णं चतुर्बाहुं सर्वाभरणभूषितम्
चक्रशूलं मुद्गरं च भिण्डिपालं तथैव च ॥ ७६ ॥
पूतनां पूजयेत्पश्चात् पापरक्षस्तत श्रुणु
कुण्डलाभरणं चैव धूम्राभं विकृताननम् ॥ ७७ ॥
अभयं पट्टसं चैव क्षुरिका खेटकन्तथा
पश्चात्तन्मण्डलस्यैव बाह्ये चैव चतुर्दिशम् ॥ ७८ ॥
स्कन्दार्यमणविजृम्भबलिपिञ्चं तथैव च
पूर्वेशादि चतुर्दिक्षु द्विपादं च द्विनेत्रकम् ॥ ७९ ॥
करण्डमकुटोपेतं पद्मखड्गं च खेटकम्
अभयं धार्यते चैव स्कन्दं पूज्य विशेषतः ॥ ८० ॥
चतुर्बाहुं किरीटं च पाशदण्डं तथैव च
तोमरं घृतपात्रं च अर्यम्णं पूजयेत्ततः ॥ ८१ ॥
द्विपादं कृष्णवर्णं च कुण्डलाभरणोज्वलम्
पाशाभयं स्रुवं शूलं विजृम्भं पूजयेत्ततः ॥ ८२ ॥
हेमवर्णं चतुर्बाहुम् ऊरुकञ्चुकसंयुतम्
गदापद्मं च शङ्खं च वरं चैव तथैव च ॥ ८३ ॥
बलिपिञ्चं समर्चेत्तु गन्धपुष्पैरलङ्कृतम्
सामान्यार्घ्यं तथा सर्वे क्षीरान्नं च बलिन्ददेत् ॥ ८४ ॥
ऐशान्ये वेदिके चैव नवकुम्भान्प्रकल्पयेत्
मद्ध्ये ब्रह्माणमभ्यर्च्य इन्द्रादीन्परितो यजेत् ॥ ८५ ॥
अग्नौ ब्रंहाणमावाह्य सहस्रं वा हुनेत्ततः
तदर्द्धं चैव हुत्वा तु पूर्णाहुत्याविशेषतः ॥ ८६ ॥
परिवारन्तु देवानाम् अष्टोत्तरशतं पृथक्
होमयेत्तु विशेषेण पूर्णाहुतिं पृथक्पृथक् ॥ ८७ ॥
कृसरान्नं बलिन्दद्यात् कूश्माण्डं होममाचरेत्
बलिं कृत्वा विशेषेण माषापूपान् बलिन्ददेत् ॥ ८८ ॥
पापदेवं च सम्पूज्य वास्तुपर्याय नामतः
अष्टोत्तरशतं हुत्वा बलिं कृत्वा विशेषतः ॥ ८९ ॥
पालाशपर्णं सङ्गृह्य उत्तमं परिकीर्तितम्
याज्ञीय वृक्षजैर्वापि दर्भैर्वा वधमं भवेत् ॥ ९० ॥
शरीराकारमाकृत्य घृतकम्बलवेष्टयेत्
पापदेवं समावाह्य गन्धपुष्पैरलङ्कृतम् ॥ ९१ ॥
त्रिमुखं चैकहृदयं श्रोत्रषट्कं त्रिनासिकम्
दशबाहुं विशेषेण किरीटमकुटोज्वलम् ॥ ९२ ॥
खड्गखेटं पट्टसं च मुद्गरं क्षुरिकान्तथा
शूलं वज्रं शक्ररज्जुं कटीबन्धकरं तथा ॥ ९३ ॥
ऊर्ध्वज्वाला सुकेशं च ऊर्ध्वाभिमुखसंस्थितम्
पापदेवन्तु सम्पूज्य शिरोदेशे समर्चयेत् ॥ ९४ ॥
कुण्डेष्वग्निं समादाय शिरोदेशेषु निक्षिपेत्
प्रज्वाल्यहोमयेच्चैव अष्टोत्तरशतं हुनेत् ॥ ९५ ॥
तस्यार्द्धं वा तदर्द्धं वा अस्त्रेणैव हुनेत्ततः
पाददेश —— प्रादक्षिण्य क्रमेण वा ॥ ९६ ॥
अनिर्वापणवह्निश्च यजमानं विनश्यति
ग्रामस्यैशान्यदिग्भागे न्य —– समाचरेत् ॥ ९७ ॥
स्नानं कृत्वा विशेषेण परिचारकशुद्ध्यता
ग्रामे वापि जनानान्तु तद्दोषशमनाय च ॥ ९८ ॥
एवं कृत्वा विशेषेण ग्रामाभिवृद्धिदं ततः ॥ ९९ ॥
इति वास्तुशान्तिपटलो दशमः