००९ ग्रामशान्तिपटलः

ग्रामशान्तिपटलप्रारम्भः
अथातस्समहेशानग्रामशान्तिविधिं वद
सर्वलोकहितं पुण्यं वक्ष्येऽहन्तु षडानन ॥ १ ॥

ग्रामनूतनकाले तु क्षेत्रे वा मन्दिरेऽपि वा

महाप्रतिष्ठा काले तु पूर्वदिक्षु क्रमेण वा ॥ २ ॥

ग्रामशान्तिक्रमञ्चैव देवस्य पूर्वभागके
ग्रामस्य पूर्वभागे च चतुस्सन्धिस्थलेऽपि वा ॥ ३ ॥

कारयेत् शान्तिकर्मापि अन्यदेशेषु वर्जयेत्
ब्रह्महत्तिस्थले वापि अशनी पतितस्थले ॥ ४ ॥

कर्दमे पतितक्षेत्रे क्षारे वा श्रेणि तीरके
उद्यानोपवने चैव पर्वतस्य समीपके ॥ ५ ॥

समुद्रतीरे वर्जयेदन्यदेशेषु कारयेत्
अष्टाष्टस्तम्भसंयुक्तं द्वात्रिंशत् स्तम्भमेव वा ॥ ६ ॥

षोडशस्तम्भमेवाथ मण्टपं कारयेत्ततः
कृष्णध्वजान्स तु द्वारे मण्टपालङ्कृतं तथा ॥ ७ ॥

मद्ध्यवेदीं प्रकल्प्याथ चतुरश्राकृतिन्तु वा
ह्रस्वदीर्घकुशस्तम्भान् अनार्द्रं पर्वकं तथा ॥ ८ ॥

त्वक्सङ्गीतं त्यजेच्चैव अन्यपादपसंयुतम्
निबन्तिन्त्रिणिकोलञ्च पाटलैश्चम्पकैस्तथा ॥ ९ ॥

वल्कलैश्शतमालैश्च हिन्तालैर्लिकुचैस्तथा
स्तम्भांस्तु कारयेच्चैव कृष्णपुष्पैरलङ्कृतम् ॥ १० ॥

नारिकेलप्रसूनैश्च मण्टपालङ्कृतन्तथा
मद्ध्ये वेदीन्तु सङ्कल्प्य तत्पूर्वे कुण्डमुच्यते ॥ ११ ॥

ऐशान्ये वेदिकायान्तु उपवेदीं तथैव च
वायव्ये वेदिकां कृत्वा नैर्ऋते वेदिकां तथा ॥ १२ ॥

आग्नेये वेदिकां कृत्वा दर्पणोदरसन्निभाम्
मद्ध्ये च वेदिकां कृत्वा नवकोष्ठं समालिखेत् ॥ १३ ॥

मद्ध्ये अष्टदलं पद्मं लेखयेत् विधिमाचरेत्
——————————– ॥ १४ ॥

पश्चिमे चैव षट्कोणम् अष्टकोणं यथोत्तरे
रक्तवर्णैस्समालिख्य क्षुरपद्मं समालिखेत् ॥ १५ ॥

आच्छाद्यरक्तवस्त्रेण तद्बाह्ये वेष्टयेत्ततः
अथ सो निर्मितं शास्त्रान्मद्ध्ये शूलञ्च निक्षिपेत् ॥ १६ ॥

पूर्वे खड्गं समालिख्य धनुर्बाणञ्च दक्षिणे
क्षुरिकां पश्चिमे चैव भिण्डिपालं तथोत्तरे ॥ १७ ॥

चतुर्द्वारो विशेषेण चतुःपीठञ्च निक्षिपेत्
अष्टाङ्गुलघनं प्रोक्तं द्वादशाङ्गुलविस्तरम् ॥ १८ ॥

दीर्घं विंशाङ्गुलं चैव यज्ञवृक्षैस्समुद्भवम्
पञ्चवर्णैरलङ्कृत्य रक्तवस्त्रेण वेष्टयेत् ॥ १९ ॥

रक्तपद्मं समालिख्य तस्योपरिविशेषतः
षडङ्गुलन्तु विस्तारम् अष्टाङ्गुलसमं तथा ॥ २० ॥

दशाङ्गुलोन्नतं विद्यात्पूर्णचन्द्राकृतिं तथा
पञ्चाङ्गुलघनं प्रोक्तं कपालं निक्षिपेत्ततः ॥ २१ ॥

त्रिप्रस्थं कुडुपं त्रीणि उत्तमं सम्प्रकीर्तितम्
द्विप्रस्थं कुडुपञ्चैव मद्ध्यमञ्च तदुच्यते ॥ २२ ॥

प्रस्थं कुडुपमेवोक्तम् अधमं तण्डुलान्क्षिपेत्
रक्ततण्डुलमेवोक्तं सिततण्डुलमेव वा ॥ २३ ॥

कपाले निक्षिपेत्पश्चात् नालिकेरं ततोपरि
पीठस्य दक्षिणे भागे दीपदण्डं विशेषतः ॥ २४ ॥

षोडशाङ्गुलविस्तारं दीर्घाकारं सुपीठकम्
षडङ्गुलसमं नाहं दण्डं लिख्यञ्च मद्ध्यमे ॥ २५ ॥

पञ्चाङ्गुलं घनं प्रोक्तं दीपाधारं विशेषतः
तस्योपरि विशेषेण अक्षतान्निक्षिपेत्ततः ॥ २६ ॥

द्वादशाङ्गुलविस्तारं वृत्ताकारं विशेषतः
घातं द्वयाङ्गुलं प्रोक्तं सपात्रञ्च विनिक्षिपेत् ॥ २७ ॥

नालिकेरे जलञ्चैव गोघृतं मधुमिश्रितम्
दीपं कृत्वा चतुर्द्वारे भेरीं सङ्घोषयेत्ततः ॥ २८ ॥

वायुदेशे समारोप्य स्वस्तिकारेखमुत्तमम्
गोघृतं नालिकेरञ्च मधुमिश्रं सुदीपकम् ॥ २९ ॥

दीपस्य पूर्वदेशे तु कदलीपत्रं निक्षिपेत्
तस्योपरि विशेषेण तण्डुलं निक्षिपेत्ततः ॥ ३० ॥

चतुरश्राकृतिं कृत्वा तन्मद्ध्ये कदलीफलम्

पूर्वदक्षिणसव्ये च पश्चिमेऽप्युत्तरे तथा ॥ ३१ ॥

कदलीफलविंशत्या देवतां पूजयेत्ततः
मद्ध्ये तु भूतनाथेशं पूर्वे शास्तारमर्चयेत् ॥ ३२ ॥

चण्डिकां दक्षिणे चैव अघोरं पश्चिमे ततः
उत्तरे भैरवन्न्यस्य गन्धपुष्पैरलङ्कृतम् ॥ ३३ ॥

मुद्गान्नं पायसान्नञ्च कृसरान्नं तथैव च
हरिद्रान्नं गुलान्नञ्च बलिं कृत्वा विशेषतः ॥ ३४ ॥

आग्नेय दिक्समारोप्य पञ्चचूर्णैरलङ्कृतम्
अष्टछदेषु पद्मानि लेखयित्वा विशेषतः ॥ ३५ ॥

कदलीपर्णमालिख्य पश्चिमाग्रान्विनिक्षिपेत्
अष्टप्रस्थञ्च षट्प्रस्थं चतुःप्रस्थन्तु वापि च ॥ ३६ ॥

तण्डुलैः पूर्णकान्कृत्वा मधुगौमिश्रमेव च
नालिकेरफलं विद्यात्कपित्थस्य फलन्तु वा ॥ ३७ ॥

पिण्डाश्च निक्षिपेच्चैव दीपन्दक्षिणदेशके
आनन्दा विनता भद्रा जयन्तीमतिविभ्रमा ॥ ३८ ॥

प्ररक्षी भीषणी जम्भी परितश्च प्रपूजयेत्
पूर्वादीशानपर्यन्तं द्ध्यायेद्वा साधकोत्तमः ॥ ३९ ॥

द्विभुजा च द्विनेत्रा च विद्युद्राशिसमप्रभा
कराली ऊरुवस्त्रा च खड्गखेटधरा शुभा ॥ ४० ॥

किङ्किणी मालया भूष्य अनन्तस्था प्रपूजयेत्
दंष्ट्राकरालवदना बालनेत्रा तटित्प्रभा ॥ ४१ ॥

कृष्णवक्त्रासुराखड्गी खेटञ्चेत् भिण्डिपालकम्
ऊरुवस्त्रञ्च संवेष्ट्य चर्मणा यदिवेष्टयेत् ॥ ४२ ॥

विनता शक्तिमभ्यर्च्य भद्राञ्चैव ततः श्रुणु
श्यामाङ्गी नीलकेशी च भृकुटी च तदन्विता ॥ ४३ ॥

पाशखड्गा द्विहस्ता च ऊरुवस्त्रा च धारिणी
घण्टामाला कराली च भद्रा शक्तिं समर्चयेत् ॥ ४४ ॥

जयन्तिमन्ती रक्ताङ्गी श्वेतवस्त्रा करालिनी
ज्वालाकेशी सुखड्वाङ्गी तोमरं धारयेत्ततः ॥ ४५ ॥

अजिनं वेष्टयेत् ग्रीवम् अर्चयित्वा विशेषतः
श्वेताङ्गी रक्तवस्त्राभाभ्रुकुटी मुखभूषिणी ॥ ४६ ॥

त्रिशूलं तोमरञ्चैव अर्चयेत् मतिविभ्रमाम्
करण्डमकुटोपेतं कूश्माण्डं मुखबिम्बकम् ॥ ४७ ॥

वक्त्रालुरक्तवस्त्राभा कम्बुका भरणोज्वला
उलूखला लम्बहस्ता प्ररक्षीमर्चयेत्ततः ॥ ४८ ॥

कृष्णाङ्गी कृष्णवक्त्राभा ज्वालाकेशी तटित्प्रभा
नीलवस्त्रधरा देवी पट्टसम्मुद्गरं तथा ॥ ४९ ॥

काञ्चीनूपुरसम्भूष्यां भीषणीं पूजयेत्ततः
द्विनेत्रा द्विभुजा श्यामा पीतवक्त्रा करालिनी ॥ ५० ॥

चूलिका रक्तपुष्पाङ्गी क्षुरिका खेटका तथा
जम्भीं सुपूजयेत्पश्चात् बलिं कृत्वा विशेषतः ॥ ५१ ॥

नैर्ऋते च समारोप्य पञ्चचूर्णैरलङ्कृतम्
षट्कोणमद्ध्यमे चैव महा—– समे ॥ ५२ ॥

नन्दाभद्रा च सुरभी सुशीला सुमना तथा
कपिलाभाति षड्देवान् द्ध्यायेत् तान्पूजयेत्तथा ॥ ५३ ॥

द्विनेत्रा द्विभुजा श्यामा किरीटमकुटोज्वला
सर्वाभरणसम्भूष्या नागां पाशधरान्विताम् ॥ ५४ ॥

नन्दीं द्ध्यायेद्विशेषेण भद्राञ्चैव ततश्रुणु
धूम्रभासा कराली च पार्श्वयोर्लम्बकेशिनी ॥ ५५ ॥

ऊरुवक्त्रधराय च
भद्रां ध्यायेद्विशेषेण सुरभीञ्च ततश्रुणु ॥ ५६ ॥

पूजा द्वया सुरक्ताभं किङ्किणीमालयायुतम्
ज्वालाकेशी कराली च असिखेटं तथैव च ॥ ५७ ॥

सुरभीमर्चयेच्चैव पूर्वशान्ति मुखस्थिता
द्विभुजा श्यामदेहाङ्गी किरीटमकुटोज्वला ॥ ५८ ॥

किङ्किणी मालयायुक्ता तोमरं पट्टसं तथा
सुशीलामर्चयेच्चैव सुषुम्ना च ततश्रुणु ॥ ५९ ॥

द्विपादा रक्तवर्णाभा कराली भीषणी तथा

ज्वालाकेशी सुखट्वाङ्गी लम्बहस्तां समर्चयेत् ॥ ६० ॥

रक्ताङ्गी रक्तवस्त्राभा कुन्दलाभरणोज्वला
घण्टामाला धरा चैव कपालं टङ्कमेव च ॥ ६१ ॥

कपिलां पूजयेच्चैव बलिं कृत्वा विशेषतः
मुकुलाभं बलिं कृत्वा पूजयेत्तु विशेषतः ॥ ६२ ॥

ऐशान्य दिक्समारोप्य चतुष्कोणा कृतिं लिखेत्
चतुर्दले सुपद्मानि श्वेतच्छदञ्च पूर्वके ॥ ६३ ॥

कृष्णछदञ्च सर्वञ्च रक्तछदञ्च पश्चिमे
उत्तरे कुङ्कुमा कारं कर्णिकां श्याममुच्यते ॥ ६४ ॥

वेदिका चैव पार्श्वेषु पूर्वाशादि चतुर्दिशि
लम्बिनी कदलीपत्रं चित्राकारं विशेषतः ॥ ६५ ॥

पूगस्तम्बकसव्ये च नालिकेरसुषुम्नकैः
पश्चिमे चैव विन्यस्य उत्तरे कृष्णवस्त्रकैः ॥ ६६ ॥

अलङ्कृत्य विशेषेण कलशान् पूतकान्तथा
विन्यसेत्तु विशेषेण पश्चात्पूज्यं विशेषतः ॥ ६७ ॥

पूर्वोक्तविधिना चैव अग्निमाराधयेत्ततः
भूतेशं भैरवं घोरं चण्डीं शास्तारमेव वा ॥ ६८ ॥

पृथक्पृथक्सहस्रञ्च होमं कृत्वा समाचरेत्
अष्टादश गणानान्तु प्रत्येकन्तु शतं शतम् ॥ ६९ ॥

पूर्वं गणान् समभ्यर्च्य शून्यग्रामनिवासिनः
चतुस्सन्धिस्थले वापि सा च चर्मबलिन्तथा ॥ ७० ॥

हरिद्रान्नालिकेरञ्च यत्तु सन्धिस्थलेऽपि वा
त्रिसन्धिमद्ध्यमे चैव राक्षसानां समाचरेत् ॥ ७१ ॥

नागानां भैरवानाञ्च कूश्माण्डानां समर्चयेत्
कृशरान्नं बलिन्दत्वा सुपूज्यञ्च निवेदयेत् ॥ ७२ ॥

द्विपरिस्सन्धिमारोप्य असुराणां बलिन्तथा
नन्दानाञ्च बलिं कृत्वा गुह्या नाञ्च बलिन्तथा ॥ ७३ ॥

दानवानाञ्च सिद्धानां प्रेतानां बलिमेव च
भूतानाञ्चैव यक्षाणां गारुडानां विशेषतः ॥ ७४ ॥

विद्याधराणां सिद्धानां सूपान्नञ्च बलिन्ददेत्
पितृदीपं सुदर्शिष्य तिलपुष्पाक्षतैः किरेत् ॥ ७५ ॥

शिवशास्त्रैस्सहाराद्ध्य कुक्कुटोदरनिक्षिपेत्
सम्पूज्य विधिवच्चैव यागशालां प्रवेशयेत् ॥ ७६ ॥

ऐशान्ये वेदिमारोप्य भूतनाथञ्च मद्ध्यमे
शास्तारं चण्डिकाञ्चैव अघोरं भैरवन्तथा ॥ ७७ ॥

गन्धपुष्पैरलङ्कृत्य भूतनाधं समर्चयेत्
द्वयाक्षं द्विभुजञ्चैव शुक्लवर्णं तथैव च ॥ ७८ ॥

सरत्नमकुटोपेतं कुण्डलाभरणोज्वलम्
त्रिशूलं खड्गपाणिञ्च गजमस्तकरूढकम् ॥ ७९ ॥

द्ध्यायेद्वा विधिवच्चैव भूतनाधेश्वरं प्रभुम्
यौवनं श्यामवर्णञ्च लम्बकेशं तथैव च ॥ ८० ॥

शुक्लयज्ञोपवीतञ्च तुरङ्गो परिसंस्थितम्
पुष्पचिह्नं सव्यहस्ते अन्ये खड्गं सुधारयेत् ॥ ८१ ॥

त्रिनेत्रां श्यामवर्णाभाम् ऊर्ध्वज्वालां सुकेशिनीम्
अष्टपाणिधराभ्याञ्च खड्गं खेटं तथैव च ॥ ८२ ॥

त्रिशूलं डमरुं खड्गं कपालं शुकमेव च
ऊर्ध्वरिक्तकरं विद्यात् प्रेतारूढां समर्चयेत् ॥ ८३ ॥

द्विपादं वह्निनयनं भस्मकुण्ठितविग्रहम्
ज्वालाकेशं त्रिनेत्रञ्च शूलखड्गं तथैव च ॥ ८४ ॥

किङ्किणी मालया युक्तं श्मश्रुकेशसमन्वितम्
माहिषी मस्तके छित्वा अघोरं पूजयेत्ततः ॥ ८५ ॥

चतुर्भुजं त्रिनेत्रञ्च ज्वाला केशं सुभीषणम्
दंष्ट्राकरालवदनं पादकिङ्किणिगूहितम् ॥ ८६ ॥

कपालं शूलहस्तञ्च डमरुं पाशमेव च
श्वानारूढं यजेच्चैव अर्चयित्वा विशेषतः ॥ ८७ ॥

कूश्माण्डं छेदिनं कृत्वा अघोरञ्च निवेदयेत्
भैरवं पूजयेच्चैव शुद्धान्नञ्च निवेदयेत् ॥ ८८ ॥

यागबाह्ये विशेषेण हरिणीमपि कुक्कुटम्

छेदयेच्छिवभक्तेन भावयेत्साधकोत्तमः ॥ ८९ ॥

शास्तारञ्चण्डिकाञ्चैव भूतेशञ्च निवेदयेत्
चण्डिकां मन्दिरे पश्चात् पूजयित्वा विशेषतः ॥ ९० ॥

निवेदयेत् बलिं मेषं प्रार्त्थयेत्तदनुज्ञया
पुनस्नानं समारोप्य शिवास्त्रेण समं गुरुः ॥ ९१ ॥

नवसन्धिषु देवानां ब्रह्मादीनां बलिं तथा
एवं सम्पूज्य विधिवत् ब्राह्मणान्भोजयेत्ततः ॥ ९२ ॥

प्रतिवर्षं बलिं कृत्वा सर्वपीडा निवारणम्
नगरे पूजयेच्चैव भूपालो जयमप्नुयात् ॥ ९३ ॥

प्रतिष्ठोत्सवकाले च पूजां कृत्वा विशेषतः
पूजाहीने ततः कृत्वा अष्टादशगणांस्तथा ॥ ९४ ॥

व्याधिपीडनमात्रेण अलक्ष्मी वासयेत्ततः
पूजां कृत्वा समारोप्य आचार्यं पूजयेत्ततः ॥ ९५ ॥

इति ग्रामशान्तिपटलो नवमः