शक्तिलक्षणपटलप्रारम्भः
अथातस्तु कथं शम्भो वदमे शक्तिलक्षणम्
शिवसामर्त्थ्यमेवोक्तं शक्तिं पर्याय नामतः ॥ १ ॥
अव्यापकं चिद्घनञ्च निर्मलं शङ्करं शिवम्
शिवकान्त्यौ विशेषेण किञ्चित् शक्तिञ्च सञ्ज्ञया ॥ २ ॥
हृतकीटामिव प्रोक्तं परशक्तिरितिस्तथा
सहस्रांशु कृतश्शक्तेस्सहस्रांशं पृथक्पृथक् ॥ ३ ॥
आदिशक्तिरिति प्रोक्तम् इच्छाशक्तिरितिस्तथा
ज्ञानञ्चेत्तु क्रियाशक्ति पञ्चकन्तु विधं भवेत् ॥ ४ ॥
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिरितिस्तथा
शान्त्य तीत इति प्रोक्तं तासां वाप्यथवाचकः ॥ ५ ॥
शिव एवस्वसामर्त्थ्यात् सृष्टिकाले विशेषतः
शिवज्योतिभृताञ्चैव सूर्यकान्तेर्विशेषतः ॥ ६ ॥
यद्वर्णं शिरसि क्षिप्य अधोभागेषु दर्शयेत्
तदेवशिवतत्त्वं हि प्रतिपठ्यन्तथैव च ॥ ७ ॥
सशम्भू क्षिप्यमात्रेण शिवतत्वं प्रकीर्तितम्
उद्योगं सशिवेनैव शक्तितत्वं प्रकीर्तितम् ॥ ८ ॥
शक्तितत्वं विशेषेण सूक्ष्मनादोद्भवन्तथा
नादे बिन्दुसमुत्पन्नं बिन्दौ सादाख्यमुच्यते ॥ ९ ॥
मन्त्राः बदाश्च वर्णाश्च तत्वाश्च भुवना तथा
तत्वाध्वा च कराध्वा च मन्त्रशास्त्रमनन्तकम् ॥ १० ॥
उद्भवत्वा द्विशेषेण सादाख्यम् ईश्वरोद्भवम्
मद्ध्यमा वैखरी चैव सूक्ष्मा च वै जयन्तिका ॥ ११ ॥
बिन्दौ समुद्भवं प्रोक्तं विशेषन्तु षडानन
बिन्दुरूपात्सहस्रं स्यात् उमाशक्त्योद्भवन्तथा ॥ १२ ॥
अम्बीगणाम्बिका चैव गङ्गा गौरी मनोन्मनी
एकैकात्तु सहस्रांशात् जायते क्रमतस्तथा ॥ १३ ॥
वक्ष्ये गौरी सहस्रांशात् शतकोट्यश्च शक्तयः
जगत् शक्तिमयं विद्यात् शक्तिं प्रेरयिता शिवः ॥ १४ ॥
योगं भोगं तथावीरं त्रिविधं शक्तिरुच्यते
लिङ्गाकारं विशेषेण शिवतत्वं प्रकीर्तितम् ॥ १५ ॥
तदधः शक्तितत्वञ्च योगपर्याय वाचकः
योगशक्तिरिति प्रोक्ता पीठलिङ्गा कृतिस्तथा ॥ १६ ॥
भोगशक्तिरिति प्रोक्तं जगत्सृष्ट्यर्त्थकारणम्
वीरशक्तिरिति प्रोक्तं सर्वानुग्रहकारणम् ॥ १७ ॥
शुद्धं योगमिति प्रोक्तं शुद्धाशुद्धं च भोगिनी
अशुद्धं वीरशक्तिश्च तस्यां पर्याय वाचकः ॥ १८ ॥
अथ वक्ष्ये विशेषेण शक्तीनां लक्षणं श्रुणु
त्रयोविंशति तन्मानं द्वाविंशत्येकविंशतिः ॥ १९ ॥
अष्टादशं षोडशं वा द्वादशं वा समोन्नतम्
हस्तलिङ्गाकृतिञ्चैव तत्समं शक्तिरुच्यते ॥ २० ॥
एकार्द्धं द्वयमानं वा त्रिभागोच्चञ्च कल्पयेत्
बाणलिङ्गस्य वक्ष्येऽहं श्रुणु शरवणोद्भव ॥ २१ ॥
पीठमूलाद्यथा चैव लिङ्गमूर्ध्नान्तमेव च
तन्मानं शक्तिरित्युक्तम् एकार्द्धञ्चेद्विभागकम् ॥ २२ ॥
अर्द्धद्वयञ्च कर्तव्यं त्रिमानोन्नतमारभेत्
अतिह्रस्वविशेषेण लिङ्गपीठे तथैव च ॥ २३ ॥
सङ्गृह्य पीठविस्तारम् आत्मार्त्थे वा परार्त्थके
द्वयात् भूताङ्गुलान्तं वा आत्मार्त्थमभिधीयते ॥ २४ ॥
तस्योपरि परार्त्थयः आत्मार्त्थं लक्षणं श्रुणु
पादाङ्गुष्ठात् ललाटान्तम् उन्नतं परिकीर्तितम् ॥ १५ ॥
कर्णान्तं नासिकान्तं वा अंसान्तञ्च स्तनान्तकम्
नखाधिक्ये महाव्याधिः अङ्गुल्याधिक्यनाशनम् ॥ १६ ॥
पादाधिक्ये पुत्रहानिः ऊर्वधिक्ये प्रजाक्षयम्
मद्ध्याधिक्ये पुत्रहानिः ऊर्वाधिक्ये प्रजाक्षयम् ॥ १७ ॥
हस्ताधिक्ये हस्तहीने यजमानो विनश्यति
मानञ्चेदुपमानञ्च उन्मानमिति कत्थ्यते ॥ १८ ॥
लम्बमानमिति प्रोक्तं यन्मानञ्चेति कीर्तितम्
स्कन्धाधिक्ये स्कन्धहीने स्थपती क्षयमेव वा ॥ १९ ॥
वक्त्राधिक्ये वक्त्रहीने आचार्यो नाशनं भवेत्
नासाधिक्ये दारनाशः कर्णाधिक्ये कुलक्षयम् ॥ २० ॥
मकुटाधिक्यमेवोक्तं चिरात् बिम्बञ्च नश्यति
कोष्ठाधिक्ये स्फोटकञ्च हीने तु ग्रामनाशनम् ॥ २१ ॥
तालुमूलाल्ललाटान्तं तन्मानं मकुटोन्नतम्
तस्मात्त्रिपादमानं वा अर्द्धादि कल्पयेत्ततः ॥ २२ ॥
अर्द्धैकपादं यः कुर्यात्कन्न्यसन्तु विधीयते
कर्णान्ततः संविदध्यात् अस्त्रग्रामान्प्रकल्पयेत् ॥ २३ ॥
इति सङ्कल्पमात्रेण पद्मोपरि विशेषतः
पद्मासनेन सम्पूज्य नित्यपूजाः समाचरेत् ॥ २४ ॥
नैमित्तिकं न चेच्चैव चतुरश्रासनं तथा
इत्येतैर्लक्षणैर्युक्तं कारयेत्साधकोत्तमः ॥ २५ ॥
इति शक्तिलक्षणपटलोऽष्टमः