पीठलक्षणपटलप्रारम्भः
अथातश्शङ्करशम्भो सर्वलोकहिताय च
पीठस्य लक्षणं देववदमे जगतः प्रभो ॥ १ ॥
अथ वक्ष्ये विशेषेण समासात् श्रुणु षण्मुख
अष्टाश्रमुत्तमं प्रोक्तं माया त्रिविधरूपकम् ॥ २ ॥
अशुद्धञ्चेदधो भागे शुद्धाशुद्धञ्च मद्ध्यमे
शुद्धमूर्ध्वास्यकं विद्यात् वक्ष्येऽहं श्रुणु षण्मुख ॥ ३ ॥
अष्टाश्रं चतुरश्रं वा वृत्ताकारमथापि वा
स्वायम्भुवं विशेषेण गर्भगेहतलोपरि ॥ ४ ॥
क्रियालिङ्गं विशेषेण नन्द्यावर्तशिलोपरि
चतुर्विंशतिभागञ्च पक्षसङ्ख्या पदोन्नतम् ॥ ५ ॥
चतुरश्राकृतिं कृत्वा लिङ्गनाहञ्च सङ्ग्रहम्
तत्समं पीठविस्तारं तदर्द्धं विस्तरन्तु वा ॥ ६ ॥
तत्त्रयम् अधमं प्रोक्तं तच्चतुष्कन्तु कन्न्यसम्
विस्तारार्द्धोन्नतं विद्यात्त्रिभागम् उन्नतं तथा ॥ ७ ॥
उन्नतं तत्समं प्रोक्तं विस्तारार्द्धन्तु गोमुखम्
उन्नतं पञ्चभागञ्च उपानम् एकमुच्यते ॥ ८ ॥
पद्मदामाकृति त्वेकं कुण्डमेकं भवेत्ततः
ऊर्ध्वछदाकृति त्वेकम् एकभागन्तु वेदिका ॥ ९ ॥
दक्षिणात् गोमुखान्तश्च तत्समं कुण्डनाहकम्
अर्द्धभागाधिकं वापि कल्पयेत्तु विशेषतः ॥ १० ॥
मद्ध्ये नादं सुवृत्ताङ्गं पीठं कल्प्य यथाविधि
बाणलिङ्गाकृति प्रोक्तं विशेषं कश्चिदुच्यते ॥ ११ ॥
लिङ्गनाहं ग्रहेत् विद्वान् पञ्चभागोन्नतं तथा
चतुर्भागोन्नतं वापि त्रिभागद्वयमेव वा ॥ १२ ॥
एकभागोन्नतं कृत्वा शरवेदोन्नतं तथा
पूर्वेषु कल्पयेच्चैव गृहं वा मण्टपन्तु वा ॥ १३ ॥
प्रासादगोपुरादीनि प्राकारं त्वालयन्तु वा
अथ पूर्वेषु निर्माणं तथा कल्पेद्विशेषतः ॥ १४ ॥
मोहेन विहितं कार्यं महारोगक्षयं भवेत्
पश्चाच्च यत्पुरं कृत्वा ज्वालानुकलमाप्नुयात् ॥ १५ ॥
बिम्बादीनि विशेषेण यत्पूर्वं यावदाचरेत्
तावत्सङ्कल्पमात्रेण ग्रामाभिवृद्धिदं तथा ॥ १६ ॥
सर्वलोकहितं पुण्यं सर्वकामार्त्थसिद्धिदम् ॥ १७ ॥
इति पीठलक्षणपटलस्सप्तमः