मण्टपलक्षणपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणु मण्टपलक्षणम्
गर्भगेहस्य विस्तारं तत्समं पूर्वभागके ॥ १ ॥
गर्भगेहस्य दीर्घेषु अर्द्धभागन्तु वृद्धिदम्
दीर्घाणि चैव कृत्वा तु पार्श्वयोस्तम्भलिख्यते ॥ २ ॥
रसभूतमुनिश्चैव चतुर्विंशति स्तम्भकान्
षोडशञ्च तदर्द्धञ्च पूर्ववत्कल्पयेत्ततः ॥ ३ ॥
मद्ध्ये स्तम्भद्वयञ्चैव चित्राकारं तु निर्मितम्
विस्तरञ्चेत् त्रिभागस्स्यात् एकभागं ग्रहेत्ततः ॥ ४ ॥
द्वारस्य विस्तरं प्रोक्तम् उन्नतं षट्पदं लिखेत्
अतोग्रमण्टपं वक्ष्ये अर्द्धमण्टपविस्तरम् ॥ ५ ॥
द्विभागं कुर्वते ज्ञेय एकभागं ग्रहेत्ततः
दक्षिणे उत्तरे चैव एकभागं पृथक्पृथक् ॥ ६ ॥
मण्टपस्यैव मद्ध्ये तु दशस्तम्भं विशेषतः
षट्स्तम्भञ्च चतुस्तम्भं मण्टपं कारयेत्ततः ॥ ७ ॥
द्वात्रिंशत्स्तम्भसंयुक्तं षोडशस्तम्भमेव वा
अष्टस्तम्भेन संयुक्तं मण्टपालङ्कृतं गुह ॥ ८ ॥
द्वारस्य दक्षिणे पार्श्वे अहस्करपदं भवेत्
तस्यैव दक्षिणे पार्श्वे पाकशालापदन्तथा ॥ ९ ॥
तत्रैव पश्चिमे पार्श्वे उमास्थानं प्रकीर्तितम्
देवस्य पश्चिमे चैव किञ्चिन्नैर्ऋतदेशके ॥ १० ॥
उमास्कन्देश्वरस्थानं तस्यैव दक्षिणे तथा
विनायकपदं प्रोक्तं विमानाकृतिमुत्तमम् ॥ ११ ॥
पश्चिमे वायवे चैव तयोर्मद्ध्ये गुहस्थलम्
वायौ लक्ष्मीपदं प्रोक्तं तत्पूर्वे चण्डिकापदम् ॥ १२ ॥
तत्पूर्वे महिषाशीञ्च तत्पूर्वे बहिरेव च
ईशानोत्तरयोर्मद्ध्ये नटेश्वरपदं तथा ॥ १३ ॥
तत्पश्चिमे पदे चैव होमधारिं विशेषतः
तस्य पश्चिमपार्श्वे च गौरीस्थानं प्रकल्पयेत् ॥ १४ ॥
गौर्याथ उत्तरे पार्श्वे चण्डस्थानं प्रकीर्तितम्
नटेशस्यैव ऐशान्ये शयनालयमुत्तमम् ॥ १५ ॥
गोपुरस्योत्तरे भागे क्षेत्रपालपदन्तथा
क्षेत्रपालोत्तरे भागे यागस्थानं प्रकीर्तितम् ॥ १६ ॥
देवस्य पूर्वदिग्भागे अनड्वाहपदन्तथा
तत्पूर्वे वेदिकां कृत्वा बलिपद्मं विशेषतः ॥ १७ ॥
चित्राकारन्तु निर्वृत्य पञ्चवर्णैरलङ्कृतम् ॥ १८ ॥
इति मण्टपलक्षणपटलष्षष्ठः