गोपुरलक्षणप्रारम्भः
अथ वक्ष्ये विशेषेण लक्षणं गोपुरस्य च
गर्भगेहस्य विस्तारम् अर्द्धद्विगुणविस्तरम् ॥ १ ॥
पञ्चभागं तथा कृत्वा एकञ्चेत् द्वारमुच्यते
पार्श्वयोश्च चतुर्भागं खातं समतलन्तथा ॥ २ ॥
द्वितीया वरणे चैव सप्तभागं प्रकीर्तितम्
षड्भागं पार्श्वयोश्चैव त्रिभागं द्वारमुच्यते ॥ ३ ॥
गोपुरस्य क्रमं वक्ष्ये उत्तमा मद्ध्यमाधमा
प्रथमा वरणे चैव वेदिं कृत्वा विशेषतः ॥ ४ ॥
वितस्ति पञ्चको ज्ञेय उन्नतं सुप्रकीर्तितम्
उपानादीनि सङ्कल्प्य वेदिं कृत्वा तथोपरि ॥ ५ ॥
उपानजगती चैव कुमुदा पट्टिका तथा
एतन्मद्ध्ये कर्णकूटं देवकोष्ठं प्रकल्पयेत् ॥ ६ ॥
देवकोष्ठं विशेषेण स्तम्भमद्ध्ये पृथक्पृथक्
कृमिपादञ्च तत्पार्श्वे युक्त्या चित्रान्प्रकल्पयेत् ॥ ७ ॥
द्वारस्य विस्तरं ग्राह्यं द्विगुणोन्नतमारभेत्
द्वाराग्रे शृङ्गवीधिस्स्यात् पार्श्वयोश्चुलुका कृतिम् ॥ ८ ॥
द्वारस्य विस्तरं ग्राह्यं चतुर्मानं प्रकीर्तितम्
एकाशं द्वारविस्तारं मद्ध्ये स्तम्भद्वयं तथा ॥ ९ ॥
पार्श्वान्ते कर्णकूटञ्च कर्णशालाञ्च मद्ध्यमे
द्वारत्रयं विशेषेण भूतसङ्ख्या तथैव च ॥ १० ॥
सप्तसङ्ख्या इति प्रोक्तं तस्याग्रेऽथ करं तथा
तलौ तलौ विशेषेण एकांशं वर्जयेत्पृथक् ॥ ११ ॥
द्वारविस्तारकं ग्राह्य अष्टभागं प्रकीर्तितम्
एकांशोन्नतकञ्चैव खण्डस्य द्विगुणोन्नतम् ॥ १२ ॥
शिखराकारनिर्वृत्या पार्श्वयोश्चैव मद्ध्यमे
नासिकाकृतकं विद्यात् पार्श्वयोः कर्णकूटकम् ॥ १३ ॥
कर्णशालां विसृज्याथ स्थूपिदण्डं विशेषतः
भूतिसङ्ख्या जनिश्चैव नव एकादशस्तथा ॥ १४ ॥
विंशाङ्गुलोन्नतं स्तम्भं स्तम्भाग्रे घटनिर्मितम्
पूर्णकुम्भा कृतिं कृत्वा स्थूललिङ्गाक्षतं तथा ॥ १५ ॥
पञ्चवर्णैरलङ्कृत्य पूजयेत्साधकोत्तमः ॥ १६ ॥
इति गोपुरलक्षणपटलः पञ्चमः