००४ शिलापरिक्षा

शिलापरिक्षा-प्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणु शरवणोद्भव
शिलापरीक्षा कर्त्तव्या उत्तमासाधकोत्तमः ॥ १ ॥

स्थापकोस्थपतिश्चैव राजा तु मन्त्रिभिस्सह
भृत्यैश्च शिल्पिभिश्चैव वेदशास्त्रादिपाठकैः ॥ २ ॥

ज्योतिष्कैर्मान्त्रिकैर्वापि चान्यैः परिजनैस्सह
सटङ्कमुसलैर्भिण्डि रज्जुकाषायशिञ्जिनी ॥ ३ ॥

कथितैर्ज्वलितैस्सङ्घैः पत्रिभूटङ्किनी तथा
शलाकावर्त्तुलीकर्णी सर्वोपकरणैस्सह ॥ ४ ॥

सुमुहूर्त्ते सुलग्ने च प्रस्थाय विधिमार्गतः
भस्मरुद्राक्षधारी च शिवदीक्षा युतस्तथा ॥ ५ ॥

नित्यकर्मसमाराद्ध्य विप्रमेकेन दर्शयेत्
घूटको दक्षिणे भागे सर्पाशी वामभागके ॥ ६ ॥

उलूकोऽपि च सव्ये तु भारद्वाजस्तु वामके
बकोपि च सृगालश्च मधूरसरघावपि ॥ ७ ॥

सव्ये भागे प्रसर्त्तव्या तार्क्ष्यस्तु वामभागके
श्येनमार्ज्जारशुनकाः सर्पं वै पुष्पिणी तथा ॥ ८ ॥

गोक्षीरं वर्जयेत् चैव अकाले वृष्टिरेव च
तैलाभिषिक्ती तक्री च अग्निकाष्ठानदर्शयेत् ॥ ९ ॥

नित्यकर्मसमाराद्ध्य आचार्यस्तु सलक्षणम्
कुनखी अङ्गहीना च बधिरा कर्णशून्यका ॥ १० ॥

हीनाङ्गुलीरसीकश्चेत् एकाक्षी श्यामदन्तका
कुरूपी जलिनी चैव नखपुष्क इतिस्तथा ॥ ११ ॥

दुराचारोपिटश्चैव मूलसो अतिह्रस्वकः

बह्वाशीनास्तिवाक्यश्च एतान्वै सन्त्यजेत्ततः ॥ १२ ॥

तेजस्वी सुमुखश्चैव सन्तुष्टो वेदपारगः
लक्षाद्ध्यायी गुरुश्लाघ्यः तस्यार्द्धं मद्ध्यमं भवेत् ॥ १३ ॥

पञ्चविंशत्सहस्रं वा उत्तमामद्ध्यमाधमा
शुक्लयज्ञोपवीताङ्गः सशिखैः सौम्यसुन्दरः ॥ १४ ॥

पञ्चकश्छैरलङ्कृत्य कटिसूत्रं विशेषतः
धौतवस्त्रोत्तरीयञ्च भस्मरुद्राक्षधारिणः ॥ १५ ॥

पञ्चाङ्गुलन्तु विस्तारं दशाङ्गुलसमन्वितम्
वृत्ताकृतिसमश्चैव भूतवर्णैश्च तन्तुना ॥ १६ ॥

मुक्तिकामो विशेषेण कृष्णवर्माणि कारयेत्
व्याघ्राजिचर्मणा कल्प्य दारुजैर्वापि कल्पयेत् ॥ १७ ॥

चन्दनैः पाटलैश्चैव पलाशपनसैस्तथा
बिल्वैर्वादारुयाज्ञैश्च सम्पुटाकृतिनिर्मितम् ॥ १८ ॥

अन्तश्शुचिबिल्वफलं वीक्षणाद्या विशुद्धयेत्
भूमावपतिता ग्राह्या सव्येनैव तु गोमयम् ॥ १९ ॥

वामेन पिण्डिकां कृत्वा बहुरूपेण शोषयेत्
नरैश्च दाहकं विद्यात् ईशानेनाभिमन्त्रयेत् ॥ २० ॥

भस्मसङ्ग्राह्य निक्षिप्य नवभाण्डेषु निक्षिपेत्
वने उपवने चैव आरामे पर्वतस्थले ॥ २१ ॥

गोमयं शुष्कमाहृत्यमर्दयित्वा विशेषतः
पूर्ववत्कल्पयेच्चैव यथा वामानुभस्मकम् ॥ २२ ॥

रुद्राक्षलक्षणं वक्ष्ये अष्टविंशतिभेदतः
गौडं जाति करे खञ्च नामरुद्राक्षमेव च ॥ २३ ॥

भद्राक्षं च बिसीबीजं मल्लिकारक्तश्वेतकौ
गरिकोलिसिबीजं स्यात् सुवर्णकदली तथा ॥ २४ ॥

वननिम्बसुबीजं स्यात् वल्लरीवृक्षमेव च
स्वलम्बीजं स्वर्णजम्बुदाह्यवृक्षन्तथैव च ॥ २५ ॥

हेमपद्माक्षमित्युक्तं रक्तमञ्जरिमेव च
हेमकुड्यौ कूटविषं राजवृक्षं समेव च ॥ २६ ॥

पत्रपुन्नागमित्युक्तं पञ्चरोवनमेव च
हलङ्कोङ्गरबीजं स्यात् हेमवल्लीसुबीजकम् ॥ २७ ॥

पारिवृक्षं वीरवनं कुन्दरूष्णन्तथैव च
अष्टाविंशति भेदानि रुद्राक्षधारणं फलम् ॥ २८ ॥

गन्यन्ते वर्षधाराश्च कर्णे भिन्नन्तु मालया
यावन्मात्रं विशेषेण धार्यते शिवभावनैः ॥ २९ ॥

कार्पासं कृष्णकार्पासं गिरिकार्पासमेव वा
राजकार्पासमित्युक्तं चतुर्विधमिहोच्यते ॥ ३० ॥

विप्रादीनां प्रकर्त्तव्यं कर्मणा परिकीर्तितम्
अघोरेणैव सङ्ग्राह्य वामेनैव तु निर्मितम् ॥ ३१ ॥

सद्यो जातेन मन्त्रेण ——- नवतीस्तथा
त्रिगुणं त्रिगुणी कृत्य त्रिसरं वित्तमेव च ॥ ३२ ॥

मद्ध्ये ग्रन्धिं समुच्चार्य ब्राह्मणानाञ्चतुस्तथा
क्षत्रियान्त्रिसरं प्रोक्तं वैश्यानेकसरं भवेत् ॥ ३३ ॥

अन्न्याविनिर्मितं सूत्रं शूद्राणान्धारयेत्ततः
कर्म्मकालेषु धार्यञ्च अन्यकालेषु वर्जयेत् ॥ ३४ ॥

अथ वक्ष्ये विशेषेण दण्डलक्षणमुच्यते
वेणुदण्डं समादाय ललाटान्तं द्विजोत्तमः ॥ ३५ ॥

क्षत्रियाणान्तु कण्ठान्तं शूद्राणान्तु स्तनान्तकम्
वसुषट्पञ्चवर्षाणि कूटपर्वसमाचरेत् ॥ ३६ ॥

उत्तमं पर्वते तीरे सुमुहूर्त्ते सुलग्नके
गिरिराजवरश्रेष्ठे सर्वलोकहिताय च ॥ ३७ ॥

सर्वेषामनुग्रहार्त्थाय शिवालयं प्रकल्पयेत्
क्षमस्वेति नमस्कृत्य पर्वतश्रेष्ठमुत्तमम् ॥ ३८ ॥

पुण्याहप्रोक्षणन्तत्र पर्वतेश्वरमर्चयेत्
पूर्वे शिरो मेषवृषे च कुम्भे वह्नौ शिरः कर्कटकस्तथैव ।
वायौ शिरः सिह्मतुलाश्च युक्ते ईशे शिरो वृश्चिकमीनयुक्ते ॥ ३९ ॥

सोमदिक्शेषमासौ च शाय्यते त्वविशेषतः ॥ ४० ॥

मेषे वृषे तु लायाञ्च मकरे मीनमासके

सङ्क्रान्ते उत्थितो देवः इतरेशाययेत्सुखम् ॥ ४१ ॥

विघ्नेशः पूजयेत्तत्र गोमयालेपनं कुरु
कपिलागोमयेनैव पक्वबिल्वफला कृतिम् ॥ ४२ ॥

धुत्तूरदूर्वकुसुमैर्गन्धपुष्पाक्षतैस्तथा
चलासनं समभ्यर्च्य मूलेनावाहयेत्ततः ॥ ४३ ॥

सितवासोत्तरीयञ्च उपवीतेन संयुतम्
स्वर्णाक्षतैस्वर्णदूर्वान् अर्चयित्वा यथा विधि ॥ ४४ ॥

अपूपैर्बहुविधैश्चैव क्षीरान्नं कृसरान्नकम्
गुलान्नञ्चैव शुद्धान्नं रक्ताभा इक्षुदण्डकैः ॥ ४५ ॥

अर्कोदकैश्च विबुधैः कपित्थञ्च तथैव च
पक्वमाजी फलञ्चैव पनसं कदली तथा ॥ ४६ ॥

अपक्वं वर्जयेच्चैव शर्कराकारवत्तथा
नृसिंहीक्षु गिरिगात्री पैशाचकदली तथा ॥ ४७ ॥

नैवेद्यन्तु विशेषेण नालिकेरं ततश्शृणु
नालिकेरतरुश्चैव त्रिविधो भेद उच्यते ॥ ४८ ॥

अरुणोदयवेलायाम् अंशुकोद्भवमुच्यते
सूर्यवृक्षमिति ज्ञेयम् उत्तमं परिकीर्तितम् ॥ ४९ ॥

चर्महित्वा विशेषेण नैवेद्यं विधिमुत्तमम्
निशाकरोदये काले विस्तारं सम्प्रकीर्तितम् ॥ ५० ॥

षडङ्गुलोन्नतं कल्प्य तस्यान्ते च षडङ्गुलम्
षडङ्गुलन्तु विस्तारं षडङ्गुलसमोन्नतम् ॥ ५१ ॥

द्विकरं स्तम्भमाकारं चतुरश्रा कृतिन्तु वा
कुमुदैव विशेषेण चतुरंशांशिवेति च ॥ ५२ ॥

तदूर्ध्वे स्तम्भमाकारं तदूर्ध्वे कलशा कृतिम्
पद्मोदरसमं कृत्वा कुण्डोदरतदूर्ध्वके ॥ ५३ ॥

चित्राकारन्तु तन्मद्ध्ये कुम्भमूले विशेषतः
एकरेखा त्रिरेखा च पञ्चरेखा तथैव च ॥ ५४ ॥

तदधश्चित्रसङ्कल्प्य स्वेच्छाचित्रान् विशेषतः
कलशोर्ध्वे दशाङ्गुल्यं तदर्द्धञ्च तदर्द्धकम् ॥ ५५ ॥

कलशस्यैव पार्श्वे तु षदङ्गुलसुदीर्घकम्
तस्यार्द्धं वा तदर्द्धञ्च चतुरश्रं त्रिरश्रकम् ॥ ५६ ॥

द्विरश्रं वा विशेषेण चित्राकारन्तु निर्मितम्
तदूर्ध्वे चतुरङ्गुल्यं तदर्द्धञ्च तदर्द्धकम् ॥ ५७ ॥

कर्णं कृत्वा विशेषेण तस्योर्ध्वे तु षडानन
चतुरश्रं त्रिवृत्तं वा षोडशाङ्गुलमुन्नतम् ॥ ५८ ॥

तदर्द्धञ्च तदर्द्धञ्चाधोमुखा कृतिन्तथा
स्तम्भविस्तारमात्रं वा ऊर्ध्वे कुब्जा कृतिन्तथा ॥ ५९ ॥

तदधो द्वादशाङ्गुल्यं तदधः षोडशाङ्गुलम्
अर्द्धपद्मा कृतीरेखा तदधोऽपि षडङ्गुलम् ॥ ६० ॥

तदर्द्धञ्च तदर्द्धं वा तस्यार्द्धं वा विशेषतः
कर्णं सङ्कल्प्य विधिवत् तदूर्ध्वे श्रुणु षण्मुख ॥ ६१ ॥

ऊर्ध्वपद्मं विकसितं नालाग्रान् परितस्तथा
तदूर्ध्वे चैव निष्कृत्य चतुर्विंशां सदीर्घकाम् ॥ ६२ ॥

चतुरश्रा कृतिं कृत्वा फलकाकारमुत्तमम्
तदूर्ध्वे फलकाकारं तदूर्ध्वे कर्णनिर्मितम् ॥ ६३ ॥

तन्मद्ध्ये दलमालिख्य षोडशाङ्गुलविस्तरम्
चतुरश्राकृतिं स्तम्भं तदूर्ध्वे च विशेषतः ॥ ६४ ॥

पूर्वे च स्तम्भमाकारं दक्षिणे उत्तरे तथा
पश्चिमे तु तथा चैव पृथक्पृथग्विशेषतः ॥ ६५ ॥

षोडशाङ्गुलदीर्घञ्च पार्श्वयोश्च विशेषतः
तन्मद्ध्ये तु षडङ्गुल्यं पार्श्वयोश्च विशेषतः ॥ ६६ ॥

तन्मद्ध्ये च षडङ्गुल्यं पार्श्वयोश्च बहिस्तथा
पद्मनालसमाकारं पद्मपुष्पाकृतिन्तथा ॥ ६७ ॥

तदूर्ध्वे पद्मगायत्र्या शृङ्गमद्ध्ये तथैव च
त्रितालविस्तरञ्चैव सिह्मवक्त्रा कृतिन्तथा ॥ ६८ ॥

देवकोष्ठमहं वक्ष्ये श्रुणुष्व च षडानन
द्वादशाङ्गुलविस्तारं विस्तरं तद्बहिस्तथा ॥ ६९ ॥

पद्मगात्रं समालिख्य तदूर्ध्वे शृङ्गनिर्मितम्

त्रिकरञ्च बहिश्चैव द्विकरैकैकविस्तरम् ॥ ७० ॥

षडङ्गुलघनं वापि अर्द्धार्द्धं वाथवा पुनः
पद्मनालसमं कृत्वा तदूर्ध्वे गात्रगान्तथा ॥ ७१ ॥

तदूर्ध्वे पद्मगात्राणि शृङ्गमद्ध्ये तथैव च
पादयोरन्तरे चैव नवभागं प्रकीर्तितम् ॥ ७२ ॥

मद्ध्ये त्रयांशं सङ्ग्राह्य पञ्चभागं प्रकीर्तितम्
द्विभागं स्तम्भसंयुक्तं त्रिभागं कोष्ठमुच्यते ॥ ७३ ॥

उन्नतार्द्धन्तु कोष्ठं स्यात्स्तम्भाग्रं द्वारतत्समम्
तदूर्ध्वे गात्रगांश्चैव तदूर्ध्वे शृङ्गनिर्मितम् ॥ ७४ ॥

तदूर्ध्वे कर्णसंयुक्तं गात्रकञ्च तदूर्ध्वके
शृङ्गाकारन्तु निर्वृत्य पार्श्वयोश्चैव मद्ध्यमे ॥ ७५ ॥

सिह्मवक्त्राकृतिं विद्यात्सिह्मस्य तलनिर्मितम्
तदूर्ध्वे चित्रकुम्भन्तु पञ्चमन्तु तथैव च ॥ ७६ ॥

अथोपादान्तरे चैव देवकोष्ठन्तु निर्मितम्
गात्रोपरिविशेषेण षडङ्गुलघनं भवेत् ॥ ७७ ॥

ऊर्ध्वगात्रसमासक्तान्वृत्ताकारन्तु निर्मितम्
पार्श्वेषु च सुवृत्तौ च मद्ध्ये चित्रान् लिखेत्ततः ॥ ७८ ॥

अन्ये सन्ध्यग्रतन्मद्ध्ये स्तम्भानि च विशेषतः
स्तम्भमूलान्तरे चैव घटक्षीरन्तु निर्मितम् ॥ ७९ ॥

ऊर्ध्वगात्रानि पर्यन्तम् अग्रे सिह्ममुखाकृतिम्
गर्भगेहमितः प्रोक्तं प्रासादलक्षणं श्रुणु ॥ ८० ॥

चतुरश्रा कृतिं कृत्वा उपानं वेदिकान्तथा
तन्मद्ध्ये देवकोष्ठञ्च कर्णकूटञ्च पूर्ववत् ॥ ८१ ॥

स्तम्भद्वयं तथा चैव शृङ्गकन्तु तदूर्ध्वगे
तदूर्ध्वे शफराकारं पद्मकुम्भं ततोपरि ॥ ८२ ॥

पार्श्वयोश्च विशेषेण सप्तांशं वसुसङ्ख्यया
स्तम्भद्वारं विशेषेण शृङ्गाकारं तदूर्ध्वके ॥ ८३ ॥

तदूर्ध्वे स्तम्भसंयुक्तं किञ्चित् शृङ्गैश्च संयुतम्
विंशाङ्गुलोन्नतञ्चोर्ध्वे पद्मोदरसमाकृतिम् ॥ ८४ ॥

अधोमुखस्य पद्मस्य मकुटालङ्कृतन्तथा
मद्ध्ये सिह्ममुखाकारं पार्श्वयोश्च विशेषतः ॥ ८५ ॥

एककोष्ठं त्रिकोष्ठञ्च पञ्चकोष्ठन्तथैव च
सप्तकोष्ठं नवं विद्यात् एकादश्यां त्रयोदश ॥ ८६ ॥

वृषभस्तलमूर्ध्वे च चतुर्दिक् वृषभाकृतिम्
त्रिकरं द्विकरं वापि करमेकोन्नतं तथा ॥ ८७ ॥

कर्णोपरिविशेषेण चतुर्दिक्कोष्ठनिर्मितम्
वृत्ताकारं विमानं वा अष्टाश्रं वा विशेषतः ॥ ८८ ॥

पद्मो रसमाकारम् एकांशं शृङ्गमद्ध्यमे
पद्मं विकसिताकारं परितोष्टदलान्तथा ॥ ८९ ॥

द्वादशं षोडशं वापि चतुर्विंशतिरेव वा
पूर्णकुम्भेन निर्वृत्य चूतपत्रा कृतिन्तथा ॥ ९० ॥

नालिकेराकृतिञ्चैव ऊर्ध्वे ऊर्ध्वमुखा कृतिम्
पञ्चवर्णैरलङ्कृत्य कल्पयेदीशभेदकान् ॥ ९१ ॥

वेदिकोर्ध्वे विशेषेण अष्टाश्रं निर्मितं पुरा
पद्माकारं विशेषेण अधोमुखसुपङ्कजम् ॥ ९२ ॥

दलाश्रान्पार्श्वयोरेव चतुर्दीक् देवकोष्ठकम्
ऊर्ध्वे पद्माकृतिञ्चैव कुम्भं कृत्वा विशेषतः ॥ ९३ ॥

यद्वा सुवृत्तमेवाख्यं चतुर्दिक् देवकोष्ठकान्
ऊर्ध्वे पद्मघटाकारं यद्वा च श्रुणु षण्मुख ॥ ९४ ॥

चतुरश्राकृतिं कृत्वा चतुर्दिग्देवकोष्ठकान्
नन्द्यावर्त इति प्रोक्तं यद्वा चैव ततश्शृणु ॥ ९५ ॥

पूर्वपश्चिमदीर्घानि विमानाकृतिकल्पयेत्
विमानस्याकृतिं कृत्वा तत्तत् भागे सुवृत्तकम् ॥ ९६ ॥

पूर्वभागे विशेषेण ऊर्ध्वं सिह्ममुखा कृतिम्
सुवृत्ताकारपार्श्वं च दलाकृति विशेषतः ॥ ९७ ॥

दिक्षु मद्ध्ये विशेषेण विदिक्षु चतुमद्ध्यमे
गात्रमूले यालपादौ कपोतं यालमस्तके ॥ ९८ ॥

मद्ध्यवृत्तं विलिख्याथ गजपृष्ठाख्यमुच्यते

नासिका मद्ध्यमे चैव हंसावरणमालिका ॥ ९९ ॥

भूतमाला द्वितीयञ्च यालमाला तृतीयकम्
गर्भगेहस्य सव्ये च पश्चिमे उत्तरे तथा १००
दक्षिणे दक्षिणामूर्तिं वैष्णवं पश्चिमे तथा
ब्रंहाणं कल्पयेद्वामे पश्चात् लिङ्गोद्भवन्तु वा १०१
पार्श्वयोश्च विशेषेण ब्रह्माविष्णुस्तथैव च
ब्रंहस्थानादधोभागे मुखाकृतिमथ शृणु १०२
त्रिकरं द्विकरञ्चैव करमेकमथापि वा
अष्टाङ्गुलन्तु विस्तारम् उन्नतं द्वादशाङ्गुलम् १०३
पादं त्रयङ्गुलञ्चैव अधोपद्मदलाकृतिम्
मद्ध्ये तु मुकुलाकारं पट्टाकारं सुपार्श्वयोः १०४
मद्ध्ये स्तम्भसमायुक्तं चतुरश्रं प्रकीर्तितम्
यालवक्त्रं विशेषेण सिह्मवक्त्रा कृतिन्तथा १०५
धारामुत्तरपूर्वा च कन्न्या देशेषु वर्जयेत्
धारणं कल्पमात्रेण पट्टिकां वा विशेषतः १०७
स्थापयेत् गोमुखां कृत्वा तत्तद्वामे प्रकल्पयेत् १०८
इति गर्भगृहलक्षणपटलः चतुर्त्थः