००३ कर्षणविधिपटलः

कर्षणविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि उत्तमं कर्षणं विधिम्
स्वयम्भुर्दैविकञ्चैव दिव्यमार्षं च मानुषम् ॥ १ ॥

राक्षसं गाणवञ्चैव सप्तधा लिङ्गमुच्यते
कन्तकान्तकसर्वेश इच्छामि वदमे प्रभो ॥ २ ॥

लिङ्गानां लक्षणं वक्ष्ये श्रुणुष्वच षडानन
लिङ्कारं लयमित्युक्तं गकारं सृष्टिरुच्यते ॥ ३ ॥

लयनादुदयं प्रोक्तं लिङ्गशब्दमितीरितम्
नादं लिङ्गमिति ज्ञेयं पीठं बिन्दुरितीरितम् ॥ ४ ॥

महार्त्थसंहृतौ काले अशनी पतितो भुवि
कालाग्निरुद्रमूर्द्धानं पतितः कोपमात्रतः ॥ ५ ॥

ज्योतिस्तम्भाकृतिं विद्यात् रुद्रात् भूमिरिहस्तथा
चकाराकारमित्युक्तं पर्वताकारमेव च ॥ ६ ॥

तालवृक्षाकृतिञ्चैव पनसस्य फलाकृतिम्
वेण्वङ्कुरवदाकारं रुद्राक्षाकृतिमुच्यते ॥ ७ ॥

सूत्रहीनं महालिङ्गम् अखण्डं लिङ्गमुच्यते
दैविकं लक्षणं वक्ष्ये श्रुणुष्व पार्वतीप्रिय ॥ ८ ॥

त्रयस्त्रिंशत्सुरैश्चैव निर्मितं लिङ्गमुत्तमम्
तस्य दैविकमेवोक्तं दिव्यलिङ्गान्तरं श्रुणु ॥ ९ ॥

यैकारुणैरुहं लिङ्गं प्रमाणं पञ्चपूरुषम्
पौरुषम् एकपौरुषं कुब्जाकारविशेषतः ॥ १० ॥

सूत्रहीनं महालिङ्गम् आर्षलिङ्गमिहोच्यते
आर्षं च मानुषञ्चैव गाणवं च विधिं भवेत् ॥ ११ ॥

वृषभैः पूजितं लिङ्गं मानुषैः पूजितन्तथा
गाणवैः पूजितञ्चैव सप्तधा लिङ्गमुच्यते ॥ १२ ॥

नवैः प्रतिष्ठितं लिङ्गे सविशेषं निरूप्यते
प्रतिष्ठितं द्विजेनैव क्षत्रियेण प्रतिष्ठितम् ॥ १३ ॥

सर्वलोकहितं पुण्यं सर्वदर्शनमुत्तमम्
उत्सवादीन्विशेषेण न दोषः षण्मुख श्रुणु ॥ १४ ॥

प्रतिष्ठितन्तु वैश्येन अष्टवर्षं न दर्शयेत्
प्रतिष्ठितन्तु शूद्रेण द्वादशं वत्सरोपरि ॥ १५ ॥

दर्शनं कारयेद्धीमान् एतन्मद्ध्ये विवर्जयेत्

पूजान्ते साधको यत्र पुनः स्नानं समाचरेत् ॥ १६ ॥

दासीदासाः परिजनाः पुनः स्नानेन शुद्ध्यति
बाणलिङ्गं प्रतिष्ठाप्य न दोषं कश्चिदुच्यते ॥ १७ ॥

वृषभं पीठसंयुक्तं दक्षिणामूर्तिमेव च
गणेशः षण्मुखश्चैव पार्वती चण्डिकारविः ॥ १८ ॥

मातरो लक्ष्मिदुर्गाञ्च शूद्रेणैव प्रतिष्ठितम्
कथं प्रभो विशेषेण न दोषो यं षडानन ॥ १९ ॥

ब्रह्मक्षत्रियवैश्येन शूद्रेणैव प्रतिष्ठितम्
तत्तन्नाम्निप्रतिष्ठान्तु न कदा च न दर्शनम् ॥ २० ॥

अथवा दर्शनं कृत्वा ब्रह्महत्या समं भवेत्
स्त्रीशूद्रैः पूजितं लिङ्गं बिम्बं वापि न दर्शयेत् ॥ २१ ॥

वक्ष्यामि कर्षणा वृद्धिं स्थलं यत्र विशेषतः
अशनिः पतितो यत्र चतुस्सन्धित्रिसन्धिषु ॥ २२ ॥

द्विसन्धीमेकसन्धीञ्च नाराचेवीधिपार्श्वके
श्रेणी स्थाने सैकते च अग्रौ च कर्दमस्थले ॥ २३ ॥

एताश्च वर्जयेच्चैव नदीतीरे विशेषतः
पुण्यतीर्त्थसमीपे च होमस्थाने विशेषतः ॥ २४ ॥

पुण्यवृक्षसमीपे च वने चोपवने तथा
ग्रामस्य पूर्वदिक् भागे राजराष्ट्रविवर्द्धनम् ॥ २५ ॥

आग्नेये अग्निदग्धं स्यात् याम्ये च सर्वसम्पदम्
नैर्ऋतौ व्याधिपीडाञ्च वारुणे राज्यवर्धनम् ॥ २६ ॥

वायव्ये पुत्रसम्पत्तिः उत्तरे ग्रामनाशनम्
ऐशान्ये सर्वसौभाग्यं ग्राममद्ध्ये प्रजाक्षयम् ॥ २७ ॥

देवालयं पूर्वमेव यथास्थानेषु कल्पयेत्
पूर्वदेवालयं यत्र स्थानशुद्धिं विवर्जयेत् ॥ २८ ॥

सुमुहूर्ते सुनक्षत्रे स्थानशुद्धिं विशेषतः
सुमुहूर्तमहं वक्ष्ये श्रुणुष्वपार्वती प्रिय ॥ २९ ॥

शुक्लवर्षे विरोधी च मन्मथे कीलके तथा
विषुश्च दुर्मुखी चैव वत्सरांश्च विवर्जयेत् ॥ ३० ॥

आषाढं मार्गशीर्षञ्च माघं भाद्रपदं तथा
आषाढं धननाशं स्यात् मार्गशीर्षन्तु रोगदम् ॥ ३१ ॥

माघं तु पुत्रहानिस्स्यात् भाद्रे चैव कुलक्षयम्
चैत्रे सम्पत्करं विद्धि वैशाखे व्याधिनाशनम् ॥ ३२ ॥

ज्येष्ठे च सर्वसिद्धिस्स्यात् श्रवणे मोक्षदं भवेत्
आश्वीजेकर्मसा फल्यं कार्तिके ग्रामवर्द्धनम् ॥ ३३ ॥

पौष्ये च दीर्घमायुष्यं फाल्गुने शत्रुनाशनम्
एते मासफलं कृत्वा शुक्लपक्षे विशेषतः ॥ ३४ ॥

मद्ध्यमं कृष्णपक्षे च प्रथमा च चतुर्दशी
षष्ठ्यष्टमी नवम्याञ्च अमायाञ्च चतुर्दशी ॥ ३५ ॥

वर्जयेत्तु विशेषेण द्वितीये सर्वसम्पदम्
तृतीये लोकवश्यञ्च पञ्चम्यां रोगनाशनम् ॥ ३६ ॥

सप्तम्यां ग्रामवृद्धिस्स्यात् दशम्यामायुवर्द्धनम्
एकादश्यामष्टभाग्यं द्वादश्यां शत्रुनाशनम् ॥ ३७ ॥

त्रयोदश्यां कर्मवृद्धिः पौर्णिमायां सुखं भवेत्
एते तिथिफलं प्रोक्तं वाराणां फलमुत्तमम् ॥ ३८ ॥

भौमार्किवारं वर्जित्वा रविवारं सुखप्रदम्
इन्दुवारे च सौभाग्यं सौम्यवारं सुखप्रदम् ॥ ३९ ॥

गुरुवारे प्रजावृद्धिः भृगुवारे चिरायुषम्
सप्तवारफलं प्रोक्तम् अश्विन्यादिफलं श्रुणु ॥ ४० ॥

ग्रामाभिवृद्धिमाश्विन्यां भरणी मृत्युशीघ्रदम्
कृत्तिका चार्त्थनाशं स्यात् रोहिणी च सुखप्रदम् ॥ ४१ ॥

मृगशीर्षं प्रजावृद्धिरार्द्रायां सर्वनाशनम्
पुनर्वसुः पापनाशं पुष्यं वै शान्तिकं भवेत् ॥ ४२ ॥

आश्लेषाञ्च विनाशं स्यात् मखं वै तु प्रजाक्षयम्
पूर्वफल्गुन्यां मानहानिः उत्तरं सुखसम्पदम् ॥ ४३ ॥

आयुर्द्धानञ्च हस्तञ्च चैत्रे वै शत्रुनाशनम्
स्वाती च राजसम्मानं विशाखं कर्मसत्फलम् ॥ ४४ ॥

अनुषं बिम्बवृद्धिः स्यात् ज्येष्ठां वै ज्येष्ठमाचरम्

मूलं वै बिम्बनाशं स्यात् पूर्वाषाढं विदुः क्षयम् ॥ ४५ ॥

उत्तराषाढं वृद्धिस्स्यात् श्रवणं मोक्षसम्भवम्
श्रविष्ठादारनाशं स्यात् शतभिषक् मृत्युनाशनम् ॥ ४६ ॥

पूर्वाभाद्रं प्रजानाशम् उत्तरो धनसम्पदम्
रेवती वाक्पद्रं प्रोक्तं राशीनाञ्च फलं श्रुणु ॥ ४७ ॥

मेषे तु कार्यवृद्धिस्स्यात् सौभाग्यं वृषभे तथा
मिथुने कार्यनाशं स्यात् कर्कटे राष्ट्रशोभनम् ॥ ४८ ॥

सिंहे तु कर्मसाफल्यं कन्यायान्तु विलक्षणम्
तुलायामतुलं प्रोक्तं वृश्चिके वित्तन्नाशनम् ॥ ४९ ॥

चापं ज्ञानप्रदं विद्यात् मकरे मानहानिकृत्
कुम्भे तु शत्रुनाशं स्यात् मीने सर्वसुखप्रदम् ॥ ५० ॥

देवानां च हितार्त्थाय दिवा चेत्सुमुहूर्तके
निशिकुर्याद्ययुश्चैव मसुराणां जयप्रदम् ॥ ५१ ॥

पूर्वयामे कार्यसिद्धिर्द्वियामे सफलं भवेत्
त्रियामे सर्वहानिस्स्यात् चतुर्यामे तु तामसम् ॥ ५२ ॥

सुमुहूर्ते सुलग्ने च कर्षणं विधिमुत्तमम्
कालञ्चेत् मिश्रवर्णञ्च कर्णशून्यं तथैव च ॥ ५३ ॥

दन्तहीनं खुरैर्हीनं व्याधिनापीडितन्तथा
त्रिणेत्रं चतुर्भुजं शान्तरूपं जटिलन्तथा ॥ ५४ ॥

शूलदण्डञ्च पाशञ्च अक्षमालाधरन्तथा
पद्मपीठोपरिस्थाङ्गं गजचर्मपरिच्छदम् ॥ ५५ ॥

एवं ध्यात्वा विशेषेण यजेच्छक्तिमहेश्वरम्
दशबाहुं त्रिणेत्रञ्च पञ्चमूर्ध्निसमन्वितम् ॥ ५६ ॥

वक्त्रं प्रतिविशेषेण शुद्धस्फटिकसन्निभम्
शूलं वक्त्रञ्च खड्गञ्च पाशपट्टसमेव च ॥ ५७ ॥

नागं घण्टाञ्च वह्निञ्च अक्षमालाधरन्तथा
सादाख्येश्वररूपन्तु ध्यायेत्तु देशिकोत्तमः ॥ ५८ ॥

विद्युत्पङ्क्ति निभाकारं शूलं टङ्कं तथैव च
अभयं वरदोपेतं जटामकुटसंयुतम् ॥ ५९ ॥

त्रिणेत्रं पीतवस्त्राभम् अनन्तेशं भवोत्तमम्
कालाग्निसदृशप्रख्यं त्रिणेत्रं भीमरूपिणम् ॥ ६० ॥

मृगटङ्कसमायुक्तं शूलाभयकरं तथा
सिह्मचर्मसमायुक्तम् ईश्वरं प्रणमाम्यहम् ॥ ६१ ॥

दंष्ट्राकरालवदनं भृकुटीमदभीषणम्
जटामकुटखण्डेन्दु नेत्रत्रययुताननम् ॥ ६२ ॥

खड्गखेटञ्च परशुं मुसलं वरदाभयम्
गगनेशं यजेत्तत्र कालनाम ततः श्रुणु ॥ ६३ ॥

द्विपादञ्च द्विनयनं किरीटमकुटोज्वलम्
कुण्डलं कर्णपत्रौ च शुद्धस्फटिकसन्निभम् ॥ ६४ ॥

शूलं घण्टाञ्च वामे तु कालनामेश्वरं भजे
कृष्णवर्णं चतुर्बाहुं टङ्ककृष्णमृगं तथा ॥ ६५ ॥

अक्षमालाकरञ्चैव ज्ञानबिन्दवमुच्यते
तप्तकाञ्च न सङ्काशं हेमयज्ञोपवीतिनम् ॥ ६६ ॥

व्याघ्रचर्माम्बरधरं पादकिङ्किणिशोभितम्
ज्ञानमुद्राक्षमालाञ्च वज्रनागं तथैव च ॥ ६७ ॥

भजे यमकरं प्रोक्तं विशेषेण तदुच्यते
शरच्चन्द्रनिभाकारं किरीटं हेमनिष्ठितम् ॥ ६८ ॥

अङ्कुशं वज्रनागञ्च वेदविज्ञानमुच्यते
पद्मासनस्थं नीलाभं जटाखण्डेन्दु मण्डितम् ॥ ६९ ॥

परशुं मुसलं पाशमभयं सूक्ष्मभेदकम्
कालमेघसमप्रख्यं कृष्णपीताम्बरं धरम् ॥ ७० ॥

नागयज्ञोपवीताङ्गम् अभयं वरदं तथा
कामदं रूपमाख्यतं प्रधानं च ततश्शृणु ॥ ७१ ॥

सूर्यकोटिप्रतीकाशं त्रयक्षञ्च चतुर्भुजम्
कुण्डलाभरणैर्युक्तं किङ्किणी मालया वृतम् ॥ ७२ ॥

नागं पाशाङ्कुञ्चैव घण्टाञ्चैव तु वामके
सर्वलक्षणसंयुक्तं प्रधानकं यजेत्तदा ॥ ७३ ॥

स्फुरत्तारकसप्रख्यं जटिलं भीमरूपिणम्

तोमरं पट्टसंयुक्तं त्रिदेहमधुनोच्यते ॥ ७४ ॥

शङ्खप्रभसमायुक्तं पीतवस्त्रोत्तरीयकम्
शङ्खकार्मुकसंयुक्तं बुद्धाय प्रणमाम्यहम् ॥ ७५ ॥

तापिञ्छनिभसं युक्तं रत्नकुण्डलमण्डितम्
भीमरूपं त्रयक्षञ्च चतुश्शूलवराब्जधृक् ॥ ७६ ॥

शार्दूलचर्मधार्यञ्च अहङ्कृतनमोस्तुते
त्रयक्षं चतुर्भुजं शान्तं सर्पयेज्ञोपवीतिनम् ॥ ७७ ॥

डमरुं पाशखड्गञ्च अभयं कल्पमूर्ति च
सव्ये पाशवराटङ्कं वामे शूलाभयाब्जकम् ॥ ७८ ॥

मुक्ताभणभूष्यं च जटामकुटशोभितम्
त्रिणेत्रं जटिलं भीमं भजे व्योमधरं तथा ॥ ७९ ॥

चन्द्रबिम्बसमप्रख्यं केयूरकटकान्वितम्
पीताम्बरधरञ्चैव सर्वाभरणभूषितम् ॥ ८० ॥

उग्रतोमरशूलं च सर्वाङ्गेश्वरमूर्तये
पीतवर्णं चतुर्बाहुं रक्तमृष्टिभयङ्करम् ॥ ८१ ॥

अक्षमालां त्रिशूलं च वरदाभयपाणिनम्
किरीटमकुटोपेतम् अप्रकाशमहं भजे ॥ ८२ ॥

राजसङ्ख्यामवर्णञ्च जटागङ्गेन्दुमण्डितम्
त्रिणेत्रं चतुर्भुजोपेतं किङ्किणी मालयावृतम् ॥ ८३ ॥

टङ्ककृष्णमृगञ्चैव त्रिशूलाभयमेव च
सर्वाभरणसंयुक्तं महावक्त्रं तथैव च ॥ ८४ ॥

कुङ्कुमाभं द्विनेत्रञ्च जटालम्बितपार्श्वयोः
खण्डेन्दुमकुटोपेतम् अक्षमालात्रिशूलिनम् ॥ ८५ ॥

पादनूपुरसङ्घट्टं गजचर्मपरिच्छदम्
शुक्लयज्ञोपवीताङ्गं बलिभुक्तं महेश्वरम् ॥ ८६ ॥

तप्तकाञ्च न सङ्काशं नागयज्ञोपवीतिनम्
त्रिशूलाभयपाणिञ्च दुन्दुभेश्वरमेव च ॥ ८७ ॥

द्विपादं च द्विनेत्रं च करण्डमकुटोज्वलम्
कृष्णपीताम्बरोपेतं टङ्कं कृष्णाब्जभीतिकम् ॥ ८८ ॥

हेमयज्ञोपवीताड्यं सामदाय नमाम्यहम्
श्यामवर्णसमायुक्तं जटालङ्कृतमस्तकम् ॥ ८९ ॥

किङ्किणीमालयाभूष्यं मुसलं ज्ञानमुद्रिकाम्
योगासनस्थं पद्माक्षं रमणाय सुबाहवे ॥ ९० ॥

चतुर्भुजसमोपेतं कुण्डलालङ्कृतं तथा
अभयं वरदोपेतं द्वात्रिंशल्लक्षणान्वितम् ॥ ९१ ॥

पद्माक्षं पद्मपीठस्थं भजेत्कर्णकृतेश्वरम्
योगासने स्थितं देवं योगपट्टिकवेष्टितम् ॥ ९२ ॥

व्याख्या मुद्रानलञ्चैव शूलहस्तञ्चतुर्भुजम्
सर्वालङ्कारसंयुक्तं घनानन्देश्वरं तथा ॥ ९३ ॥

पादेनाक्रम्यभूतञ्च काचवस्त्रसमायुतम्
पादकिङ्किणिशोभाढ्यं चतुष्पद्मं सुधारिणम् ॥ ९४ ॥

शुक्लयज्ञोपवीताङ्गं सूक्ष्ममूर्तिं विशेषतः
हेमपद्मोपरिस्थाङ्गं रत्नमालाविभूषितम् ॥ ९५ ॥

व्यालयज्ञोपवीतञ्च ऊर्ध्वज्वालासुकेशकम्
किरीटमकुटोपेतम् ईश्वरं बलवत्तरम् ॥ ९६ ॥

कुन्देन्दुस्फटिकाभासं त्रिणेत्रञ्च चतुर्भुजम्
नागखड्गञ्च दण्डञ्च पाशं वै धारिणं करे ॥ ९७ ॥

पीतवस्त्रोत्तरीयाङ्गं योगं भानुमतेश्वरम्
कुशपुष्पसमानाङ्गं मुक्ताभरणभूषितम् ॥ ९८ ॥

व्यालयज्ञोपवीतञ्च ऊर्ध्वज्वालासुकेशकम्
शङ्खकार्मुकसंयुक्तं जलदाय नमोऽद्य च ॥ ९९ ॥

वक्रालकं श्यामतनुं द्विनेत्रं सव्ये भयं चारुत्रिशूलसंयुतम्
हेमोपवीताङ्गं शशिचूडशीर्षं गण्डाङ्गमूर्तिं ततविद्रुमप्रभम् १००
त्रिणेत्रं चतुर्भुजञ्चैव अभयं वरदान्वितम्
मृगटङ्कसमायुक्तं नागयज्ञोपवीतिनम् १०१
जटामकुटसंयुक्तं सूक्ष्मं विद्यात् विशेषतः
द्विपादञ्च त्रिणयनं करण्डमकुटान्वितम् १०२
खड्गखेटन्तथा चैव चापश्शरधृतं यथा

खण्डेन्दुमकुटञ्चैव मातरिश्वसमूर्तये १०३
जपापुष्पसमप्रख्यं धूर्जटीनीललोहितम्
पाशाङ्गुश्च धरं विद्यात् त्विषान्वितमहेश्वरम् १०४
करुणान्तं स्मरेन्नित्यं रक्तवस्त्रञ्च धारकम्
कान्तनूपुरसंयुक्तं जटामकुटशोभितम् १०५
अर्कधुर्तूरपुष्पञ्च जलेशं विस्मिताननम्
सूर्यकोटिसमप्रख्यं बालरूपदिगन्तरम् १०६
चतुर्भुजसमायुक्तं वामपादन्तु लम्बितम्
शयनं सव्यपादन्तु वामे गौरिसमायुतम् १०७
मृगटङ्कसमायुक्तं वरदाभयपाणिनम्
कुन्दमन्दस्मितं शान्तं श्रीकण्ठं परमेश्वरम् १०८
पञ्चवक्त्रं दशभुजं प्रतिवक्त्रत्रिलोचनम्
पाशाभयवरञ्चैव शङ्खकार्मुकगण्डिका १०९
घण्टानारा च मुद्राञ्च अभयं वरदान्वितम्
रक्तवस्त्राङ्गशोभाढ्यं शान्त्यतीतं विशेषतः ११०
चतुर्भुजाञ्चैकवक्त्रां कुन्दलाभरणोज्वलाम्
ज्ञानमुद्राक्षमालाञ्च पाशतोमरसंयुतम् १११
पीताम्बरोत्तरीयाङ्गं सान्निद्ध्येयं षडानन
शङ्खचक्रवराभीता करण्डमकुटान्वितम् ११२
मुक्ताभरणभूष्याङ्गम् अनेकैः परिवारितम्
कार्तनूपुरसम्बन्धा विद्याशक्तिमिहोच्यते ११३
चतुर्वक्त्रा चतुर्बाहूयक्तवर्णामहाबला
सुरत्नमकुटोपेता ————– ११४
किङ्किणीमालयाभूष्यं केशयज्ञोपवीतिनम्
शक्तिवज्रधरं स्मृत्वा शिवोत्तमशिवं बुधः ११५
एकाननं चतुर्बाहुं खट्वाङ्गं नृकपालकम्
सर्वाभरससंयुक्तम् एकरुद्रासमन्वितम् ११६
हरितालसमानाभं सर्वाभरणभूषितम्
पीताम्बरधरं बुध्वा क्रमेशं मन्त्रशक्तिदम् ११७

दाडिमीकुसुमाभासं चित्रवस्त्रोत्तरीयकम्
अक्षमालां गदाहस्तम् एकनेत्रं भजेत्ततः ११८
अकलङ्कशरत्पूर्णचन्द्रकोटिसमप्रभम्
चिन्मुद्रामूरुहस्तञ्च वपुराननमूर्तयः ११९
अजेशं प्रलयाभासं नीलोत्पलधराम्बुजम्
गङ्गाखण्डेन्दुमकुटं पद्माक्षालोकधारिणम् १२०
सर्पक्रूरत्वसङ्काश अपस्मारस्थिते पदम्
शार्ङ्गबाणेन संयुक्तं बालवेषं दिगन्तरम् १२१
सोमेशं जटकूटस्थं नक्षत्रगणसम्भ्रमम्
अञ्जलीकरहस्ताभ्यां शिवरूपं स्मराम्यहम् १२२
मातुलङ्गाक्षसूत्रञ्च पुण्डरीकवदीक्षणम्
जटामकुटसंयुक्तं लाङ्ग्यशं प्रणमाम्यहम् १२३
मिश्राभं दण्डखड्गञ्च करण्डमकुटं भवेत्
पद्मपीठोपरिस्थञ्च मारुकेशं महामतिम् १२४
पीताभं पीतवस्त्राभं नक्रकुण्डलमण्डितम्
लम्बकेशं सुदन्तञ्च अर्द्धनारीश्वरं तथा १२५
सुरत्नमकुटं भीमं जटालम्बितपार्श्वयोः
वदनं ज्ञानमुद्राञ्च होमेशं पीतवर्णकम् १२६
कञ्चुकाभरणं भीमं सर्पयज्ञापवीतिनम्
उन्मत्तवेषनीलाभं बालरूपं त्रिलोचनम् १२७
फणिखट्वाङ्गसंयुक्तम् आषाढे च विशेषतः
कज्जलाभं त्रिनेत्रञ्च ज्वालकेशं करालकम् १२८
निर्विकारं महेशानं दण्डीशं सार्द्धविग्रहम्
उग्ररूपं महायोगिं मुसलाभयसंयुतम् १२९
पादुकोपरिसंयुक्तम् अत्रीशं विकलेश्वरम्
सव्यपादन्तु शयनं वामपादन्तु लम्बितम् १३०
पर्यङ्के देविमालिङ्ग्य कुण्डलाभरणोज्वलम्
अभयं ज्ञानमुद्राञ्च मीनेशं प्रणमाम्यहम् १३१
उलूखमुसलञ्चैव वृश्चिकाभरणोज्वलम्

उग्रदंष्ट्रं करालञ्च मेषेशं सरसंस्थितम् १३२
शुद्धस्फटिकसङ्काशं गजचर्मपरिच्छदम्
पद्मोत्पलधरं देवं लोहितेशं यजेत्ततः १३३
शिखिनीशं महाबाहुं कृष्णाभं लम्बधूर्जटिम्
वेदबाहुञ्च खण्डासिं नागखेटधरं शिवम् १३४
चतुर्भुजं त्रिणेत्रञ्च कुण्डलाभरणोज्वलम्
वृश्चिकाभरणैर्भूष्यं शूलटङ्ककपालिनम् १३५
एकवक्त्रसमायुक्तं मङ्गलाभं भजेत्ततः
कृष्णकञ्चुकसंयुक्तं केशालकविभूषितम् १३६
पादनूपुरसङ्घट्टं निर्वाणं टङ्कधारिणम्
करालवदनोपेतं द्विरण्डेशं विशेषतः १३७
दंष्ट्राकरालवदनं क्रूरदंष्ट्री भयं करम्
नागासिवरदं पाशम् अभयं टङ्कवज्रिणम् १३८
सर्वाभरणसंयुक्तं महाकालं प्रपूजयेत्
रथाङ्गं शूलपाणिञ्च भिण्डिपालञ्च तोमरम् १३९
योगासनस्थितन्देवं बालीशं विदुषं भजेत्
सुमुखं चन्द्रबिम्बं वा नवरत्नैरलङ्कृतम् १४०
मुद्रापुस्तकटङ्कासिं भुजङ्गेशं प्रपूजयेत्
चन्द्रचूडं द्विपादञ्च तटित् ज्वलनसप्रभम् १४१
डमरुं पाशहस्तञ्च दण्डञ्चैव पिनाकिनम्
कृष्णाधरमृगं भीमं वरदाभयपाणिनम् १४२
पद्मासनस्थितं देवं खड्गेशं भावयेत्ततः
सव्येकपालखट्वाङ्गं वामेदण्डधरं तथा १४३
किरीटकुण्डलोपेतं सकेशं शशिचूडकम्
द्विनेत्रं द्विभुजं श्यामम् अक्षमालाभयं तथा १४४
पूर्णचन्द्रनिभाकारं चेतेशं त्रिदशाधिपम्
पद्मासनस्थितं शान्तं टङ्काक्षं पुस्तकं तथा १४५
मुसलं वज्रशङ्खञ्च लकुलीशं यजेत्तदा
कृष्णं मृगधरं घोरं पाशटङ्काक्षसूत्रिणम् १४६

नीलग्रीवं महावीर्यं शिवेशं विधिना तथा
त्रिणेत्रं शुक्लवर्णाभं पीतवस्त्राङ्गरागकम् १४७
उपवीतं चोत्तरीयं शयनं लम्बपादकम्
पद्मपीठोपरिस्थञ्च संवर्तेश्वरमाननम् १४८
ज्ञात्वा वर्णेश्वरान्प्रोक्तं भुवनेशान्श्रुणुष्विह
अद्धिकारं मलास्तीति शक्त्यानुग्रहकं विना १४९
तस्मात् भुवनमूर्तिञ्च वर्णान्वक्ष्ये षडानन
शान्त्यतीतकले स्थित्वा भुवनाख्यारविप्रभाः १५०
शान्त्यौ स्मभुवनाख्यानि शरच्चन्द्रप्रभां विदुः
विद्याभुवनसर्वाणि विद्युत्पुञ्जनिभा कृतिम् १५१
प्रतिष्ठाभुवनास्सर्वे धूम्रवर्णनिभा कृतिम्
निवृत्यौ भुवनाश्चैव नीलमेघप्रभां विदुः १५२
शान्त्यतीतौ पक्षसौ ख्यशान्त्यौ सप्तदशा भवेत्
सप्तलिङ्गञ्च विद्यौ च षट्पञ्चाशत्प्रतिष्ठितौ १५३
अष्टोत्तरशतञ्चैव निवृत्तौ भुवनानि वै
भुवनेशानरूपाणि श्रुणुष्व पार्वतीप्रिय १५४
ज्योतिं धरनिराकाशं शरच्चन्द्रनिभप्रभम्
अन्येनाश्रतमं किञ्चित् अन्याश्रितशिवां स्मरेत् १५५
पीतवर्णनिभं शान्तं निर्विकल्पं निरामयम्
सदासूर्योगभावेन अनाथं शक्तिरूपिणीम् १५६
नीलप्रभनिभञ्चैव किञ्चित्प्रहसिताननम्
अनन्तासञ्ज्ञिका चैव ध्यायेत्त्वां सर्वसम्पदाम् १५७
शुभप्रभनिभां विद्यात् व्योमरूपां विशेषतः
रक्तवर्णनिभां शक्तिं व्यापिनीं सर्वकामदाम् १५८
मिश्रवर्णनिभाकारां भुवनेशोर्ध्वगामिनीम्
मोचिकापीतवर्णं स्यात् अनुग्राह्यार्त्थकारिणाम् १५९
हरिदाभसमप्रख्यं किञ्चिद्रूपां सयौवनाम्
रोचिकान्तु विशेषेण ध्यायेत्त्वां विधितत्पराम् १६०
मत्तालिकृष्णसप्रख्यां पीतनेत्रां सुयौवनाम्

करण्डमकुटोपेतां दीप्तिकामञ्जली कृताम् १६१
शरच्चन्द्रप्रभाकारां चतुर्भुजसमायुताम्
सुरत्नमकुटप्रख्यां ज्ञानमुद्राक्षमालिकाम् १६२
अञ्जलीकरसंयुक्ताम् ऋद्धिकेशीं प्रपेदिरे
पञ्चवक्त्रं चतुर्बाहुं ————– १६३
पाशाभयविशालाक्षां गदाब्जधरसुन्दराम्
अरूपां रूपिकाञ्चैव शान्त्यतीतामनुग्रहाम् १६४
पीताभवस्त्रधार्यं च ईशानं भुवनेश्वरम्
चतुर्वक्त्रं चतुर्बाहुं कृष्णवर्णामहाबला
अभयं शूलहस्तं च गण्डिकामक्षमालिकाम् १६५
आस्य त्रयं चतुर्बाहुं चतुर्दोर्दण्डमण्डितम्
अभयं शक्तिहस्तं च गदापद्मधरं भवेत् १६६
एकाननं चतुर्बाहुं चक्रबाणगदाधरम्
अभयं चित्रवस्त्राङ्गं प्रतिष्ठां भुवनेश्वरीम् १६७
विपादं च तनूरेकं चतुर्मूर्ध्निसमन्वितम्
चतुर्बाहुमुदाराङ्गं किरीटमकुटोज्वलम् १६८
निवृत्तिं च विरूपाक्षां सर्वाभरणभूषिताम्
पद्मासनस्थितं देवं जटामकुटसंयुतम् १६९
हेमयज्ञोपवीताङ्गं शूलटङ्काभयन्तथा
वरदम् इन्दुकान्तिस्थं शिखण्डिपरमेश्वरम् १७०
श्यामवर्णं त्रिणेत्रञ्च टङ्ककृष्णमृगं तथा
अभयं चाक्षसूत्रञ्च श्रीकण्ठन्तु विशेषतः १७१
त्रिमूर्तिं पीतकृष्णाङ्गं रक्तदृष्टिं त्रिणेत्रकम्
गण्डिकौतोमरं चैव शूलखण्डं भुजेधरम् १७२
त्रिणेत्रं चतुर्भुजं शान्तं कुण्डलाभरणोज्वलम्
चन्द्रचूडाननं खेटं वज्रनागं च धारयेत् १७३
रुद्रमूर्तिं विशेषेण एकनेत्रं ततश्शृणु
शुक्लाभं शान्तरूपं च सरत्नमकुटान्वितम् १७४
खड्गखेटाभयं चैव एकनेत्रं भजेत्ततः

द्विपादं चतुर्भुजं शान्तं बालरूपं महोज्वलम् १७५
खण्डेन्दु चूडितं पिञ्छं धुर्तूरं धार्यविग्रहम्
बाणासिशूलखट्वाङ्गं शिवोत्तममहं भजे १७६
शरच्चन्द्रनिभाकारम् एकवक्त्रं त्रिलोचनम्
अङ्गवज्रधराभीतिं सूक्ष्मेशं विधृतन्तथा १७७
कुन्दपुष्पसमानाङ्गं जटावेणिसमन्वितम्
कमण्डल्वक्षसूत्रं च टङ्ककृष्णमृगं तथा १७८
नागाभरणसम्भूष्यम् अनन्तेशं भजेत्ततः
विद्युत्प्रभनिभाकाशं ———– १७९
रक्तवस्त्रधरां देवीम् अभयं वरदान्विताम्
चामरं पञ्चहस्तञ्च विमानस्थां मनोन्मनीम् १८०
चतुर्भुजां द्विपादाञ्च करण्डमकुटान्विताम्
पद्मचामरहस्तञ्च वराभीतिं द्विधैव च १८१
एते रूपाद्य दृश्यैते सर्वभूतदमनीं भजे
मिश्रवर्णाञ्च दिव्याङ्गां गण्डिकाचाभयप्रदाम् १८२
चामरं पद्महस्तञ्च बलप्रमथिनीन्तथा
शुभ्रवर्णा विशालाक्षी अङ्गरागविभूषिता १८३
ज्ञानमुद्राक्षमालाञ्च पद्मचामरसंयुता
पद्मचामरहस्ता च पाशाङ्कुशधरा तथा १८४
काली चतुर्भुजा कारा सर्वाभरणभूषिता
पद्मचामरसंयुक्ता पाशटङ्कधराभृता १८५
करण्डमकुटोपेता सर्वावयवसुन्दरा
सर्वलक्षणसंयुक्ता चामरापद्मसंयुता १८६
गण्डिकामक्षमालाञ्च रौद्री व्यालविशेषतः
तप्तकाञ्च न सङ्काशा द्विपादा च चतुर्भुजा १८७
पाशशूलवरा चैव चामरा छत्रसंयुता
वामा च कुङ्कुमप्रख्या केयूरमकुटान्विता १८८
उन्मत्तबालवेषाढ्या चामराभयधारिणीम्
पद्मरागसमप्रख्यामुक्ताभरणभूषिता १८९

त्रिणेत्रं चतुर्भुजं चैव रत्नकुण्डलशोभितम्
ज्ञानमुद्रा त्रिशूलं च गण्डिकाब्जं तथैव च १९०
श्वेताङ्गं पद्मपीठस्थम् अङ्गुष्ठेशं भजेत्ततः
त्रिणेत्रं चोपवीष्टाङ्गं सर्वाभरणभूषितं १९१
शिखिपिञ्छजटाचूडं टङ्कशूलं वराभयम्
त्रिणेत्रं चारुवदनं भुवनेश्वरमाश्रये १९२
द्विपादं च तदूर्वेकं नागाभरणभूषितम्
खण्डेन्दुचूडमकुटं पद्मखट्गत्रिशूलकम् १९३
पीताभवस्त्रधार्यं च ईशानं भुवनेश्वरम्
ए—————————- १९४
उग्रदंष्ट्राकरालं च वरदाभयधारिणम्
शुक्लयज्ञोपवीताङ्गम् एवं द्ध्यायेद्विशेषतः १९५
हेमाभमिन्दुखण्डं च मुक्तामाणिक्य भूषितम्
कमण्डल्वक्षमालां च स्रगक्षमालिकां तथा १९६
पद्मासनस्थितं देवम् उत्भावमिति कथ्यते
सूचीहस्तं वरकरं प्रसन्नवदनन्तथा १९७
किङ्किणी मालया युक्तं भवमूर्त्तिरिति स्मृतम्
स्फटिकाभं त्रिणयनं जटाखण्डेन्दुमण्डितम् १९८
तोमरव्यञ्जनं चैव भवेश्वरमहं भजे
शक्तिवज्रधराभीतिं कुण्डलाभरणोज्वलम् १९९
मुक्ताभरणभूष्यं च वामदेवं स्मरेत्ततः
महातेजसपिञ्छाभं हेमाब्जस्थं सुयौवनम् २००
अक्षमालासुदण्डं च पिञ्छचूडितविग्रहम्
नीलपद्मनिभं भीमं भृकुटी वदनान्वितम् २०१
पद्माक्षसूत्रिकायुक्तं शिखेदं मतिधीर्यते
करालवदनं भीमम् उग्रकेशं त्रिलोचनम् २०२
वरदाभयहस्तं च एकवीरेश्वरं प्रभुम्
पञ्चाङ्गं भृकुटीप्रख्यं नागयज्ञोपवीतिनम् २०३
खट्गपाणिं त्रिणेत्रं च पद्मपीठोपरिस्थितम्

हेमाभम् इन्द्रखड्गं च हेमयज्ञोपवीतिनम् २०४
शूलं खड्गं त्रिणेत्रं च शूरेशं भुवनं यथा
सुवक्त्रं कुङ्कुमाभासं बलरूपदिगन्तरम् २०५
चापचक्रवराभीतान्दधानं गणसेवितम्
रत्नाभं फालनेत्रं च चक्रशूलवराभयम् २०६
मुक्तामाणिक्य भूष्यं च ज्योतिषं भुवनेश्वरम्
राजसङ्काञ्चनाभासं पट्टसम्मुत्गरन्तथा २०७
व्याघ्रचर्माम्बरधरं चण्डमूर्त्तिं यजेत्ततः
विद्रुमाभं द्विनेत्रं च द्विपादञ्जटिलन्तथा २०८
व्यञ्जनं ज्ञानमुद्रां च क्रोधमूर्त्तिधरं शिवम्
गजचर्मपरिच्छन्नं खण्डमूलविभूषितम् २०९
पट्टसङ्खेटकं चैव भजेत्तु केशवन्तथा
सिह्मास्यं धूम्रनेत्रं च किरीटमकुटोज्वलम् २१०
अञ्जलीकरसंयुक्तम् अनन्तं प्रणमाम्यहम्
अजं तटित्प्रभाकारं करण्डमकुटान्वितम् २११
ज्ञानचन्द्रकलाचूडम् अजं मूर्त्तिं महेश्वरम्
उमापतिं सुरक्ताभं सिह्मचर्मसुवेष्टितम् २१२
–स्मोद्धूलितसर्वाङ्गं शुक्लयज्ञोपवीतिनम्
प्रचण्डं कृष्णवर्णाभं जटामकुटमण्डितम् २१३
मुक्ताभरणसम्पूज्यं शूलदण्डकरं भजे
त्रियक्षं त्रिभुजं विद्यात्तप्तकाञ्चनसन्निभम् २१४
अभयं वरदं चैव सूर्यहस्तं भजेत्ततः
ईशानं टङ्कहस्तं च मिश्रवर्णं तथैव च २१५
जटामकुटसंयुक्तं त्रिनेत्रं प्रणमाम्यहम्
भवव्यासस्य मूर्तं स्यात् ज्ञानमुद्रां च पुस्तकम् २१६
काचवस्त्रसमोपेतं स्फाटिकं कुण्डलन्तथा
उग्रं भीमं महाबाहुं शरच्चन्द्रनिभाननम् २१७
रत्नकुण्डलपत्रौघं पद्मपीठे सुखासनम्
भीमं चन्द्रनिभं चैव व्यालयज्ञोपवीतिनम् २१८

नवकुण्डलसम्भूष्यं जटामकुटमण्डितम्
वामं रत्ननिभाकारं किञ्चित्स्मितमुखाननम् २१९
जटिलं भस्मलेपं च पद्मपीठोपरिस्थितम्
श्रीकण्ठपट्टहासान्ताश्यामवर्णनिभाकृतिम् २२०
पिताम्बरधरास्सर्वे मुक्तामणिविभूषिताः
जटामकुटखण्डेन्दुज्योत्स्ना विधृतभूषिताः २२१
कुण्डलं पद्मखण्डेन्दुव्यालयज्ञोपवीतिनम्
शूलखट्वाङ्गमुसलं खेटकं सर्पधारिणम् २२२
एते मूर्त्तिविरूपाणि पूजयेत्तु षडानन
उग्रज्वालासुकेशं च करालवदनान्वितम् २२३
किङ्किणीमालयाभूष्याभ्रुकुटीवदनान्विता
भद्रकाली च विख्याता वीरभद्रं ततश्शृणु २२४
कृष्णवर्णं महाबाहुं जटामकुटमण्डितम्
खड्गखेटं च मुसलं भिण्डिपालं तथैव च २२५
वीरभद्र इति ख्यातस्त्रिलोचनान्ततः शृणु
त्रिलोचनकपालांश्च रक्तवर्णनिभाकृतीन् २२६
त्रिलोचनान्चतुर्बाणान्सर्वाभरणभूषितान्
शूलटङ्कवराभीति जटाखण्डेन्दुमण्डितान् २२७
पद्मपीठोपरिस्थं च ध्यायेत्तं साधकोत्तमः
रुद्रान्कालाग्निरुद्रान्तं नाभिखट्गं सुखेटकम् २२८
शूलपट्टं च घण्टां च धत्ते वज्रधरास्तथा
भुवनेशान् यथाप्रोक्तम् ईशान्तश्च ततश्शृणु २२९
कोट्येन्दु किरणाभासं जटामकुटमण्डितम्
अरूपं रूपकं किञ्चित् चतुर्भुजसमायुतम् २३०
सायुधं योगपीठस्थं चन्द्रबिम्बसमाननम्
परावरं शिवं सूक्ष्मं शिवतत्वेश्वरं भजे २३१
शेषाश्च मिश्रवर्णानि अधमं परिकीर्तितम्
चर्मणोन्तर्गतं विद्यात्कपालं परिकीर्तितम् २३२
कापालान्तर्गतं क्रान्तं क्रान्तादन्तर्गतं जलम्

सुपक्वफलकञ्चैव उत्तमं परिकीर्तितम् २३३
अपक्वफलकञ्चैव मद्ध्यमं परिकीर्तितम्
कपालं बालसञ्ज्ञेयं कन्न्यसं परिकीर्तितम् २३४
कुम्भोर्ध्वे निक्षिपेत्काले अतिपक्वफलोत्तमम्
क्रान्तात्पूर्वं समादाय अभिषिच्य विशेषतः २३५
क्रान्तादर्शनमात्रेण अभिषिच्य विशेषतः
कारयेद्यदिमोहेन कारयित्वा तु रौरवम् २३६
क्रान्तेन सहितं ग्राह्यं नैवेद्यन्तु विशेषतः
अतिक्रान्तं विशेषेण नैवेद्यं चोत्तमोत्तमम् २३७
अभावेनालिकेरञ्च क्रान्तेन सहितं जलम्
अभिषिच्य विशेषेण मद्ध्यमं परिकीर्तितम् २३८
मद्ध्यपक्वं जलं स्नाप्य सुरास्नानसमं भवेत्
चर्मणासहितं कुम्भे सूर्यवृक्षफलं सति २३९
अतिदीर्घम् अतिह्रस्वं वर्जयित्वा विशेषतः
स चर्म्मरहितञ्चैव शिखासहितमुत्तमम् २४०
त्रिणेत्राणि च तन्मद्ध्ये शिखां कृत्वा विशेषतः
कनिष्ठाङ्गुलं तन्नाहं कुम्भोर्ध्वे वा विशेषतः २४१
आमूलाग्रफलञ्चैव कपित्थं फलमद्ध्यमम्
कथं मूलाग्रकं शम्भो विशेषेण षडानन २४२
शिखां त्रिणेत्रसहिताम् अग्रञ्चैव प्रकीर्तितम्
रेखा त्रीणि च संयुक्तं मूलञ्चैव प्रकीर्तितम् २४३
ब्रह्माविष्णुश्च रुद्रश्च त्रिरेखा च प्रकीर्तितम्
त्रिणेत्रन्तु विशेषेण तत्वत्रयपदा कृतिम् २४४
शिखाञ्चैव शिखाशक्ति आमूलाग्रञ्च मद्ध्यमम्
मण्डलत्रयरूपञ्च नाडीत्रयमुदाहृतम् २४५
सुमुहूर्ते सुलग्ने च नालिकेरञ्च ताडनम्
नालिकेरं समादाय ऊर्ध्वमूलमथोग्रकम् २४६
अधश्शिखाप्रकुर्वीत ताडयेच्च द्विखण्डकम्
शिथिलं कर्मवैकल्यं द्विखण्डं सर्वसिद्धिदम् २४७

सलिलं सहितञ्चैव मूलेनैव निवेदयेत्
विघ्नेशं प्रार्त्थयेच्चैव दिव्यमुद्रासु योजयेत् २४८
खट्वाङ्गञ्च समादाय गुरुणा दत्तमुद्धृतम्
प्रतिगृह्यस्थपतिभिः पर्वतं ताडयेत्ततः २४९
घण्टानादसुशब्दैव पुंशिला च प्रकीर्तिता
मण्डूकस्वरवच्छब्दं स्त्रीशिला च प्रकीर्तिता २५०
अशनी शब्दमात्रेण न पुंसकशिलास्मृता
पुंशिला शिवभेदानां स्त्रीशिला शक्तिभेदका २५१
प्राकारगोपुरादीनि न पुंसकशिला भवेत्
शिवभेदानि सङ्कल्प्य पुंशिला शिवमन्दिरम् २५२
उत्तमोत्तममित्युक्तम् आलयं परिकीर्तितम्
अथवा स्त्रीशिलाञ्चैव कल्पयेच्छिवमन्दिरम् २५३
शिवभेदानि सङ्कल्प्य मन्दिरं शून्यमाप्नुयात्
अथवा पुंशिलाञ्चैव कल्पयेच्छक्तिमन्दिरम् २५४
शक्तिभेदानि सङ्कल्प्य तत्ग्रामं शून्यमाप्नुयात्
नपुंसकशिलायाञ्च आलयं परिकीर्तितम् २५५
बिम्बं कल्प्य विशेषेण भिन्नञ्चेत् शून्यमाप्नुयात्
तटित्प्रभा विशेषेण मण्डूकाश्मेति सुस्मृता २५६
त्यक्त्वा सर्वं विशेषेण शिलां विज्ञाय बुद्धिमान्
शिला भेदञ्च सुज्ञात्वा ग्रामाभिवृद्धिकारणम् २५७
देवसान्निद्ध्यमेवोक्तं राजराष्ट्रविवर्द्धनम्
अग्रपार्श्वं प्रगृह्याथ नेत्रत्रयविराजितम् २५८
समादाय च हस्तेन यजमानाय दापयेत्
मूलपार्श्वं प्रगृह्याथ त्रिरेखा संयुतोत्तमा २५९
समादाय शिवं प्रार्त्थ्य स्थापयित्वा प्रपूजयेत्
यत्प्राप्ति लिङ्ग– तत्प्राणा न कारयेत् २६०
पूर्वे वा मन्दिरं कल्प्य यत्र देशे प्रवर्तते
प्रासादलक्षणं ग्राह्य लिङ्गपीठन्तु कारयेत् २६१
स्वायम्भुवं विशेषेण लिङ्गमानं ग्रहे चरेत्

प्रमादे भिन्नलिङ्गं वा लिङ्गन्तु पीठिकान्न्यसेत् २६२
कूर्माधारशिले द्वे च वर्जयित्वा विशेषतः
पीठं भिन्नं यथा तत्र पीठमात्रं यजेत्ततः २६३
यत्बिम्बं पीठिका भिन्नं पीठन्त्यक्त्वा विशेषतः
बिम्बं हीनं विशेषेण सर्वं त्यक्त्वा समाचरेत् २६४
अन्योन्य सङ्करं कल्प्य ग्रामनाशकरं भवेत्
अथ वक्ष्ये विशेषेण गर्भगेहस्य लक्षणम् २६५
राजराष्ट्रविवृद्ध्यर्त्थं ग्रामवृद्धिकरं शुभम्
साधकानां हितार्त्थाय शुद्धभूमितलं भवेत् २६६
शिलाभिर्निर्मितं पूज्यं चतुष्कोणं प्रकल्पयेत्
आचार्यः प्राङ्मुखो भूत्वा गर्भन्यासं भवेत्ततः २६७
विघ्नेशं प्रार्त्थवित्वा तु शान्तिहोमं समाचरेत्
न्यासकर्मविशेषेण नवधान्यं तथैव च २६८
द्वारवर्णं द्वाररत्नं यवान्नवविधन्तथा
अष्टमृत्पञ्चगव्यञ्च पञ्च त्वक् नवदर्भकैः २६९
लोकान्तर्प्यविधिं प्रोक्तं नवपात्रेषु निक्षिपेत्
सम्पुटी करणं कुर्यात् नवकोष्ठान्प्रकल्पयेत् २७०
वितस्तिमात्रविस्तारं खातञ्चेत् चतुरङ्गुलम्
पूर्णचन्द्रनिभाकारं नवकोटिषु निक्षिपेत् २७१
आधारशक्तिं तन्मद्ध्ये अनन्ताद्यष्टदिक्षु च
अर्चवित्वा विशेषेण पादबन्धं तथैव च २७२
पद्मबन्धं त्रिहस्तं स्यात्पद्माश्रन्तु त्रयाङ्गुलम्
प्रतिबन्धं तदूर्ध्वे तु निम्नोन्नत समन्तथा २७३
षडङ्गुलोन्नतं कल्प्य दशकोणं तथोपरि
अष्टाङ्गुलोत्तमं विद्यात् षडङ्गुलसमोन्नतम् २७४
त्र्यङ्गुलन्तु तथा चैव द्व्यङ्गुलैर्वा विशेषतः
पूर्वादिपश्चिमान्तं वा अष्टभागं प्रकीर्तितम् २७५
दक्षिणात्सौम्यमष्टौ च कल्पयेत्तु विशेषतः
पार्श्वयोश्चैव षड्भागं द्विभागं मद्ध्यमे तथा २७६

पश्चिमे सौम्यसव्ये च एकभागं बहिस्तथा
उपानमिति विख्यातं जगतीञ्च ततश्शृणु २७७
षडङ्गुलोन्नतं पश्चात्पञ्चाङ्गुलमथापि वा
त्र्यङ्गुलन्तु तथैवापि वेदिं कृत्वा प्रकल्पयेत् २७८
करद्वयोन्नतं वेदी एकार्द्धकरसंयुतम्
करमेकमथैवापि वेदीञ्चैव प्रकल्पयेत् २७९
द्वादशस्तम्भपादानि अष्टभागमथापि वा
षट्पादञ्च प्रकर्तव्यं वेदिमद्ध्ये च कल्पयेत् २८०
द्वादशाङ्गुलविस्तारं तद्घनं द्वादशाङ्गुलम्
तस्योपरि तदर्द्धञ्च उपवेदीं प्रकल्पयेत् २८१
तस्यार्द्धं मद्ध्यमं प्रोक्तं तदर्द्धमधमं भवेत्
तस्योपरिदलान्कल्प्य विंशाङ्गुलघनं तथा २८२
मद्ध्यमं षोडशाङ्गुल्यम् अष्टाङ्गुल्यमथापि वा
ऊर्ध्वे द्व्यङ्गुलवेदी च तदधो तद्दला कृतिः २८३
दलान्तरे दलान्कल्प्य दलमद्ध्ये दलन्तथा
कर्कशन्तु विशेषेण तदूर्ध्वे शान्तिकन्तथा २८४
त्रितालमुन्नतं कल्प्य तदर्द्धं मद्ध्यमं भवेत्
तदर्द्धमधमं ज्ञेयं त्रिदशाङ्गुलविस्तरम् २८५
तीक्ष्णाग्रं तीक्ष्णसन्ध्यग्रं तस्यान्तर्गतविस्तरे
षडङ्गुलं तदन्तेन परितश्चदलाकृतिम् २८६
मद्ध्ये तदङ्गुलं विद्धि तदर्द्धञ्च तदर्द्धकम्
तदूर्ध्वेऽथ दलाकारां तदूर्ध्वे कुमुदं श्रुणु २८७
वेदीसमं प्रकल्प्याथ अश्रलिङ्गाकृतिं भवेत्
षडङ्गुलन्तु विस्तारं विमानाकृतिदृश्यते २८८
नागरञ्चैव श्रीपीठं स्वस्तिकर्षणमेव च
मेरुपृष्ठं गजपृष्ठं सैन्यं वै मानमेव च २८९
नन्द्यावर्तं गण्डिमानम् अङ्गराजं नवन्तथा
एवं दशविधं विद्धि नवती षट्प्रभेदकम् २९०
गोमुखा कृतिमग्रे च षडङ्गुलसुवृद्धिकम्

वटोदराकृतिञ्चैव द्वादशाङ्गुलमेव च २९१
करण्डगोपुराकारं विंशाङ्गुलसमन्तु वा
नन्द्यावर्तादि भेदानां चतुर्विंशाङ्गुलन्तथा २९२
षडङ्गुलन्तु विस्तारं पट्टाकारं सुवीयिकम्
षडङ्गुलन्तु विस्तारं तदूर्ध्वे पद्मनिर्मितम् २९३
तन्मद्ध्ये इति सङ्कल्प्य षडङ्गुलप्रविस्तरम्
तस्य पार्श्वे षडङ्गुल्यं तदन्ते च षडङ्गुलम् २९४
अष्टाङ्गुलं तदन्ते तु अष्टाङ्गुलोन्नतोपरि
षडङ्गुलन्तु विस्तारं षडङ्गुलसमोन्नतम् २९५
पञ्चाङ्गुलं प्रविस्तारं तत् बाह्ये च प्रकल्पयेत्
उन्नतञ्च षडङ्गुल्यं षडङ्गुलन्तदन्तके २९६
षडङ्गुलोन्नतञ्चैव षडङ्गुलन्तु विस्तरम्
अष्टाङ्गुलोपरि चैव षडङ्गुलन्तु विस्तरम् २९७
षडङ्गुलोन्नतं कल्प्य तत् बाह्ये च षडङ्गुलम्
पद्मन्तदाकृतिश्चैव तस्योपरि तथैव च २९८
तत् बाह्ये च षडङ्गुल्यं ————
उत्तमं वृषभं ग्राह्यम् अर्चयित्वा विशेषतः २९९
गन्धपुष्पैरलङ्कृत्य आसनं मूर्त्तमर्च्चयेत्
अश्वत्थैः पनसैर्वापि पाटली निम्बवृक्षकैः ३००
औदुम्बरैः प्लक्षतरुश्शमी वा खादिरन्तथा
हलातरुश्चन्दनञ्च हालानिन्दितमुत्तमम् ३०१
अस्त्रमन्त्रेण सङ्गृह्य वामेनैव तु योजयेत्
सर्वमन्त्रेण बन्धीयात् शिलामस्त्रेण चार्च्चयेत् ३०२
घोषयेत्तूर्यवाद्यैश्च चण्डनादविसर्पिणम्
यावन्मात्रं प्रकल्प्याथ तावत्शुद्ध्यन्ति भूतले ३०३
उर्वारुकं कारवल्ली शाकिनी बृहती तथा
अन्यसस्यानि सर्वाणि एकभोगं विधाय च ३०४
नवग्रहाणि हुत्वा तु विघ्नेशं पूजयेत्ततः
ब्राह्मणान् भोजयेत्तत्र उच्छिष्टान् परिपूरयेत् ३०५

तृणं सङ्ग्राह्य विधिवत् गोभिर्गोष्पदधूलिभिः
अग्निना दाहयेत्तत्र पुण्याहं प्रोक्षणन्तथा ३०६
इत्येवं विधिवत्कृत्वा सर्वज्ञानप्रदायकम् ३०७
इत्युत्तरकारणे प्रतिष्ठातन्त्रे कर्षणविधिस्तृतीयपटलः