मन्त्रावतारविधिपटलप्रारम्भः
मन्त्रावतारं यद्वक्ष्ये आदौ पञ्चाक्षरं स्मृतम्
पञ्चसादाख्य रूपाणि पराशक्त्यादिरूपकम् ॥ १ ॥
शिकारन्तु शिवाकारं वकारं शक्तिसञ्ज्ञितम्
यकारं मूर्तिरूपाणि नकारं निष्कलन्तथा ॥ २ ॥
मकारं कान्तभेदानि पृथिव्यादीनि वर्णकम्
पञ्चवक्त्रेषु नामानि ईशानादीनि मन्त्रतः ॥ ३ ॥
हृच्छिरो शिखया चैव कवचन्नेत्रमस्तके
प्रत्येकमुद्भवं कान्तं शुक्लकुङ्कुमसन्निभम् ॥ ४ ॥
कृष्णश्वेतप्रभं विद्यात् वामं शुक्लप्रभाविदुः
हृदयं सूर्यसङ्काशं तप्तकाञ्च निभं शिरः ॥ ५ ॥
शिखां सिन्दूरसदृशां कवचं मेघसन्निभम्
नेत्रं रक्तप्रभं विद्यात् अस्त्रं विद्युत्प्रभं तथा ॥ ६ ॥
सादाख्य तत्वं शुक्लाभं नवोनवपदं भवेत्
मद्ध्ये सदाशिवं प्रोक्तं केष्टशीति चतुर्दशम् ॥ ७ ॥
द्विपादञ्च तनूरेकं त्रिणेत्रं शुक्लवर्णकम्
जटामकुटसंयुक्तम् अभयं वरदं तथा ॥ ८ ॥
पाशाङ्कुशधरञ्चैव शुद्धज्योतिस्वरूपकम्
एवं प्रणवमित्युक्तं व्यक्ता व्यक्तमिहोच्यते ॥ ९ ॥
त्रिणेत्रं चतुर्भुजं शान्तं शूलासुज्ञानमुद्रिकाम्
वरदं धूर्जटिन्नीलं व्योमव्यापि नमीश्वरम् ॥ १० ॥
विकुण्डलं भाण्डशान्तं व्यालयज्ञोपवीतिनम्
अङ्काक्षमभयन्नागं व्योमरूपाय शम्भवे ॥ ११ ॥
श्वेताभ्रं रक्तवस्त्राभं खट्वाङ्गमभयं तथा
किरीटमकटं शान्तं सर्वव्यालनमीश्वरम् ॥ १२ ॥
बद्धवेणिकिरीटञ्च ऊरुहस्ताभयन्तथा
दुकूलवसनं धृत्वा शिवाय पदमूर्तये ॥ १३ ॥
भीमाक्षं श्मश्रुकेशं च कपालं शूलमेव च
किङ्किणी मालयाभूष्यम् अनन्ताय नमाम्यहम् ॥ १४ ॥
नीलाभं नीलवस्त्राङ्गं योगपट्टिकसंयुतम्
कपालं चण्डहस्ताभ्याम् अनाधाय नमोनमः ॥ १५ ॥
त्रिणेत्रं मुद्गरं भीमम् अभयं वरदं मणिम्
भीमनादं करालास्यम् अनाश्रयशिवं स्मृतम् ॥ १६ ॥
नीलकन्धरभीमाङ्गम् उग्रं दंष्ट्राभयं करम्
ज्ञानमुद्राक्षमालां च ध्रुवाय परहेतवे ॥ १७ ॥
कुङ्कुमाभं द्विनेत्रं च द्विपादं जटिलन्तथा
खड्गखेटं च नागं च वरदं शाश्वताय च ॥ १८ ॥
द्विजानुसमयोगाभ्यां जान्वौ लम्बकरौ तथा
कृष्णामृगं च टङ्कं च योगपीठं च संस्थितम् ॥ १९ ॥
शार्ङ्गंशरं तोमरं च शूलविद्या त्रिणेत्रकम्
नागाभरणसंयुक्तं नमामीति च योगिने ॥ २० ॥
शान्तं कुण्डलकर्णौ च वृश्चिका भरणोज्वलम्
गण्डिकावरदञ्चैव वन्दे द्ध्यानहराय च ॥ २१ ॥
भस्मोद्धूलितसर्वाङ्गं जटामण्डलमण्डितम्
अक्षमाला मूलखड्गं विद्युन्नमश्शिवाय च ॥ २२ ॥
गजचर्म च सुश्लेष्य शयनं लम्बितं पदम्
नीलोत्पलं शूलहस्तं सर्वप्रवरमूर्तये ॥ २३ ॥
पद्मासनस्थं नीलाभम् उग्रदंष्ट्राकरालिनम्
खट्वाङ्गं लम्बहस्तञ्च शिवाय प्रणमाम्यहम् ॥ २४ ॥
स्फटिकाभं त्रिणेत्रञ्च जटाखण्डेन्दु मण्डितम्
शूलाभयं विशालाक्षं वन्दे मूर्द्धानमीशजम् ॥ २५ ॥
पीताभं पीतवस्त्राभं कुण्डला भरणोज्वलम्
अभयं चाक्षसूत्रञ्च वन्दे तत्पुरुषाननम् ॥ २६ ॥
ज्वालाकेशं त्रिणेत्रञ्च विकृताननहुङ्कृतिम्
कपालं शूलसंयुक्तम् अघोरहृदयं तथा ॥ २७ ॥
रक्ताभं जटिलं नेत्रं वरदं चाङ्कुशन्तथा
गङ्गाखण्डेन्दु संयुक्तं वामदेवञ्च गुह्यकम् ॥ २८ ॥
गवाङ्क्षीरसमप्रख्य कह्लारमालयावृतम्
नागपाशन्तथा चैव सद्योजातादिमूर्तये ॥ २९ ॥
प्रवालकान्तिसप्रख्यं मुक्तामणिविभूषितम्
घण्टां वज्रधरं वन्दे ओन्नमः परमात्मने ॥ ३० ॥
अञ्जनप्रख्यसङ्काशं शूलं शङ्खसुधार्यकम्
व्याघ्रचर्मोत्तरीयञ्च गुह्यातिगुह्यकाय च ॥ ३१ ॥
श्वेताभं नीलवस्त्राभं सर्वाभरणभूषितम्
अङ्ककृष्णमृगञ्चैव गोपते प्रणमाम्यहम् ॥ ३२ ॥
चतुर्भुजसमायुक्तं वारिराशिसमप्रभम्
मुक्ताभरणसंयुक्तं निधनायावधे स्मरेत् ॥ ३३ ॥
सूर्यकोटिसमप्रख्यं जटाखण्डेन्दुमण्डितम्
पद्माक्षमभयञ्चैव सर्वविद्याधिपाय च ॥ ३४ ॥
जपापुष्पसमप्रख्यं भस्मोद्धूलितविग्रहम्
असिखेटञ्च मुसलं योगाधिकृतये नमः ॥ ३५ ॥
स्फटिकाभं त्रिणेत्रञ्च चर्माम्बरधरं शिवम्
अञ्जली पद्महस्ताभ्यां ज्योतीरूपवराय च ॥ ३६ ॥
ज्वलिताग्निसमप्रख्यम् अग्निनागाभयाङ्कुशम्
पादे वामकपुष्यञ्च परमेशवराय च ॥ ३७ ॥
त्रिणेत्रञ्च चतुर्हस्तं कालमेघसमप्रभम्
शक्तिवक्त्रवराभीतिं व्योमात् व्योमं स्मराम्यहम् ॥ ३८ ॥
षड्भुजं राजसोदण्डं नीलोत्पलसमप्रभम्
राजसन्नेत्रयुग्मञ्च व्यापिन्व्यापिन्महेश्वरम् ॥ ३९ ॥
वेणीञ्जटां त्रिणेत्रञ्च भुजत्रयसमन्वितम्
प्रसार्यशूलहस्ताभ्यां वन्दे रूपिन्नरूपिनम् ॥ ४० ॥
एकवक्त्रं त्रिणेत्रञ्च तप्तकाञ्च न सन्निभम्
गदाहस्ताभयं वन्दे प्रथमप्रथमं तथा ॥ ४१ ॥
विद्युत्सन्निभसङ्काशं चक्राब्जं गण्डिकाभयम्
पद्मासनस्थं खण्डेन्दु तेजस्तेजो नमाम्यहम् ॥ ४२ ॥
जटामकुटशोभाढ्यं नवकुण्डलमण्डितम्
चतुर्भुजसमायुक्तं ज्योतिर्ज्योतिर्नमाम्यहम् ॥ ४३ ॥
अरूपविधृतं भूष्यं खण्डमालाधरं शिवम्
भृकुटीवदनं भीमं खण्डवज्रधरं तथा ॥ ४४ ॥
अनग्ने काञ्चनाभासं योगासनपतेश्वरम्
शङ्खनादं पिण्डिपालम् अञ्जलीकरसंयुतम् ॥ ४५ ॥
प्रवालवर्णसङ्काशं जटाभागेन्दुमण्डितम्
चक्रटङ्काक्षशूलञ्च अधूमं प्रणमाम्यहम् ॥ ४६ ॥
विद्युत्कोटिसमप्रख्यं श्मश्रुकेशसमन्वितम्
अभयं सूचिहस्तञ्च अभस्मविधृताह्वयम् ॥ ४७ ॥
अङ्काब्जं खण्डमालञ्च मुसण्डिमुसलन्तथा
चित्रवस्त्रसमायुक्तम् अनादेवस्मराम्यहम् ॥ ४८ ॥
परमात्मन्महेशानञ्चक्रपाण्यब्जकुण्डिका
व्याघ्रचर्मोत्तरीय्यञ्च नीलवर्णन्तथैव च ॥ ४९ ॥
बालसूर्यसमानाभं शशिखण्डितमस्तकम्
अभयं शुण्डहस्तञ्च महेश्वरसमं तथा ॥ ५० ॥
कृष्णवर्णसमानाभं छत्रवस्त्रोत्तरीय्यकम्
गण्डिकासुस्रवञ्चैव महातेजन्नमाम्यहम् ॥ ५१ ॥
कपालनागखट्वाङ्गम् अक्षमालाधरं शिवम्
शरत् घननिभं देहं सद्भागेश्वरतः प्रभो ॥ ५२ ॥
महातेजामहाकान्तं भ्रुकुटीवदनन्तथा
द्विपादन्नतरीरेकं त्रिनेत्रं द्विभुजान्वितम् ॥ ५३ ॥
सद्भावेश्वरसंयुक्तं कुङ्कुमाभं समप्रभम्
ऊरुहस्ताभयञ्चैव पद्मपीठोपरिस्थितम् ॥ ५४ ॥
महातेजशिवाकाशं घण्टां खड्गधरं तथा
पीतवर्णसमानाङ्गं पादकिङ्किणि शोभितम् ॥ ५५ ॥
योगाधिपतये सूक्ष्मकर्णौ वेदविदुत्तमम्
विमानपीठयोगस्थं विद्रुमाभसमप्रभम् ॥ ५६ ॥
पाशाङ्कुशधरं देवं नानार्ककमलेक्षणम्
वीरासनस्थितं देवं शरच्चन्द्रप्रभान्वितम् ॥ ५७ ॥
नीलोत्पलञ्च कुमुदं धूधूधूविभजते शिवम्
रक्तपद्मासनस्थञ्च जटा चूडितविग्रहम् ॥ ५८ ॥
कुण्डलञ्चोत्तरीरञ्च ओम्भू स्वाहानुकूलितम्
व्याघ्रचर्मोत्तरीयञ्च नक्रकुण्डलमण्डितम् ॥ ५९ ॥
शूलं कपालं खाट्वाङ्गम् अभयम् ओम्भूवः स्तथा
नागयज्ञोपवीताङ्गं मण्डितं फणकङ्कणम् ॥ ६० ॥
ज्वालाकेशत्रिणेत्रञ्च ओम्भुवः परमात्मने
नक्षत्रगणसङ्काशं जटालम्बितमस्तकम् ॥ ६१ ॥
लग्नरूपं त्रयक्षञ्च अनिथन् अनिथन् तथा
हरितालसमप्रख्यं कुण्डलाभरणोज्वलम् ॥ ६२ ॥
नागाक्षगण्डिकाभीतं निधनोत्सवशाश्वतम्
जानुन्येकोच्च पादञ्च अभयं ज्ञानमुद्रिकाम् ॥ ६३ ॥
पादे किङ्किणिसङ्घट्य शिवाख्यं प्रणमाम्यहम्
कुसुम्भपुष्पवद्वर्णं सूर्याग्निन्तु त्रिलोचनम् ॥ ६४ ॥
गङ्गेन्दु चूडितजटं शर्वरुद्रं तथैव च
विकृताननसम्बन्धं प्रणमामि सुराधिपम् ॥ ६५ ॥
मञ्जुमञ्जूसृणीकेशं वेतालं खड्गहस्तकम्
प्रणवासनमारूढं शिवरूपं नमाम्यहम् ॥ ६६ ॥
प्रथमं प्रथमं घोरं किञ्चिद्दंष्ट्राकरालनम्
पाशशक्तिसमायुक्तं बन्ध—सलस्थितम् ॥ ६७ ॥
शर्वशर्ववराभीतिं खट्वाङ्गं नृत्तपालकम्
गण्डिकं ज्ञानमुद्राञ्च नीलपद्मसुशोभितम् ॥ ६८ ॥
तप्तकाञ्च न सङ्काशं सर्वाभरणभूषितम्
आबद्धमौलिखण्डेन्दुं वन्दे भवभवस्तथा ॥ ६९ ॥
मिश्रवर्णनिभं भीमं पुस्तकं ज्ञानमुद्रिकाम्
किङ्किणीमालया वेष्ट्य भवोद्भवसुधानन ॥ ७० ॥
कुन्दपुष्पसमप्रख्यं मुक्तामणिविभूषितम्
अञ्जलीकरसंयुक्तं सर्वभूतसुखप्रदम् ॥ ७१ ॥
इन्द्रगोपसमानाङ्गं नवरत्नैश्च शोभितम्
सिंहचर्म च संवेष्ट्य सर्वसान्निद्ध्यकारणम् ॥ ७२ ॥
चन्द्रकोटिसमप्रख्यं भस्मोद्धूलितविग्रहम्
निर्मलं जटिलं ब्रंहविष्णुरुद्रपरं तथा ॥ ७३ ॥
भृङ्गप्रभसमानाङ्गं पिञ्छचूडितमस्तकम्
कपालशङ्खहस्ताभ्याम् अर्चितानर्चितं तथा ॥ ७४ ॥
नेत्रत्रयं चतुर्बाहुं काञ्चप्रभसमन्वितम्
क्षेद्वासिकतलं भीतिं संस्थितस्संस्थितं चरेत् ॥ ७५ ॥
एकवक्त्रं त्रिणयनं चतुर्दोर्दण्डमण्डितम्
नागं घण्टाञ्च मुसलं स्थिरपूर्वस्थितिं महत् ॥ ७६ ॥
पद्मनालसमानाङ्गं कुन्दरूक्षञ्च लेपनम्
जटा मकुटसम्बद्धं साक्षिं साक्षिं विशेषितम् ॥ ७७ ॥
चक्रपद्मधरं भीमं नागाभरणभूषितम्
बाणचापधरं विद्यात् नमस्तुरुतुरुस्तथा ॥ ७८ ॥
इन्द्रनीलसमप्रख्यं भस्मोद्धूलितविग्रहम्
ध्वजवज्रधरं वीर्यं पतङ्गपतिमुद्धृतम् ॥ ७९ ॥
स्फटिकाभं त्रिणयनं चतुर्भुजसमायुतम्
गदात्रिशूलहस्तेन पिङ्गपिङ्गन्तथैव च ॥ ८० ॥
अतिरक्तप्रभं विद्यात् अङ्गरागसमायुतम्
अभयं वरदं दत्वा ज्ञानात् ज्ञानसमीरितम् ॥ ८१ ॥
जटिलं नेत्रयुग्मञ्च पीताभं पुण्डरीक्षणम्
अक्षमालाभयं विद्यात् शब्दशब्दचरूपिणम् ॥ ८२ ॥
सरत्नमकुटं दीप्तं प्रभामण्डलसंस्थितम्
अभयम् ऊरुहस्तञ्च सूक्ष्मसूक्ष्मनिरूपिणम् ॥ ८३ ॥
सव्येकमण्डलधरं दक्षिणे अभयप्रदम्
वीरासनस्थितं देवं शिवरूपमिहोच्यते ॥ ८४ ॥
योगासनस्थितं देवम् अङ्कञ्चेत् ज्ञानमूर्तिका
विद्युत्कोटिसमप्रख्यं सर्वदाशिवमूर्तये ॥ ८५ ॥
पद्मपीठोपरिस्थञ्च पीताम्बरधरं शिवम्
वृषभं दक्षिणे पार्श्वे ओन्नमो नम इत्यपि ॥ ८६ ॥
शिवाय विभवे शान्तं रागद्वेषो निरामयम्
कुण्डलं पत्रकर्णौ च सूचिहस्तन्तु मुद्रिकाम् ॥ ८७ ॥
डमरुं दक्षिणे पार्श्वे वह्निं वै वामपार्श्वके
शयनं लम्बितं पादम् ओन्नमोऽपि नमो नमः ॥ ८८ ॥
श्रीकण्ठधूर्जटी भीमं शिवं सूक्ष्मेक्षणम्बकम्
करालो वीरचण्डञ्च रूद्रो नायकसंहरम् ॥ ८९ ॥
उपलम्बविरागञ्च भूरिशो वीरपालकः
खट्वको बलिसंयुक्तो गिरिश्रेष्ठो वने चरः ॥ ९० ॥
गङ्गा चूडोवीररुद्रोसाकल्यो हट्टहासकः
रमणोपिकरालश्च निलकेशो विशालतः ॥ ९१ ॥
उन्मत्तो बालवेषश्च नीलकण्ठो कठोरकः
घोरकालश्च सिंहास्योपक्षिदाह्यो महामुनिः ॥ ९२ ॥
मतिश्चरणकोपश्च गणाचार्योपराशिवः
मलक्षीनिर्मलीपाशी व्यङ्गरो भयकण्टकः ॥ ९३ ॥
मेघशिष्टो विहासश्च हाटको नन्दकाहलः
शक्तो समार्कसङ्काशो जटिलाभिश्च धार्यकः ॥ ९४ ॥
निश्चलो नागधारी च एकवक्त्रो निरामयः
डकोधिरुद्रभूतश्च वैशेषो सकलोकलः ॥ ९५ ॥
अग्निकेशो हुङ्कृतिश्च हेतुको करणेश्वरः
अशेषो रञ्जको वल्को मन्दरो माल्यवक्त्रकः ॥ ९६ ॥
वीरभद्रो बिलालश्च नृत्तगोरुणतुङ्गकः
शङ्करोति इति ज्ञेयः एकाशीति पदे स्थिताः ॥ ९७ ॥
पदमूर्तिरिति ज्ञेयः वर्णान्वक्ष्ये षडानन
अकारं रक्तवर्णं स्यात् आकारं नीलमुच्यते ॥ ९८ ॥
इकारं तटित्प्रभं विद्यात् ईकारं मिश्रवर्णकम्
उकारं काञ्चनाभासम् ऊकारं पीतवर्णकम् ॥ ९९ ॥
ऋकारं स्फटिका भासं ॠकारं मेघमुद्भवम्
लृकारं हरिवर्णाभं लॄकारम् ऋक्षसमप्रभम् १००
एकारम् इन्द्रकोपाख्यम् ऐकारं जलसप्रभम्
ओकारं पद्मसकाशम् औकारं निलसप्रभम् १०१
अङ्कारं पुष्पसप्रख्यम् अःविसर्गन्तटित्प्रभम्
ककारं रक्तवर्णं स्यात्खकारं नलिनोपमम् १०२
गकारं मधुरं विन्द्यात् घकारं मिश्रवर्णकम्
ङकारं कुन्दपुष्पाभं चकारमलिवर्णकम् १०३
छकारं रक्तसङ्काशं जकारं पीतसन्निभम्
स्फटिकाभं झकारं स्यात् ञकारं मणिसन्निभम् १०४
टकारं रुद्रपुष्पाभं ठकारं शशिसप्रभम्
डकारं कृष्णवर्णं स्यात् ढकारं शुक्लवर्णकम् १०५
णकारं मधुराभासं तकारं विद्युतप्रभम्
थकारं लिकुचप्रख्यं दकारं हारसप्रभम् १०६
धकारमिन्दुसङ्काशं नकारं कुङ्कुमप्रभम्
पकारं लोहसङ्काशं फकारं नीलवर्णकम् १०७
बकारं मिश्रवर्णाभं भकारं शशिसप्रभम्
मकारं स्वर्णसङ्काशं यकारं शुक्लवर्णकम् १०८
रकारं रक्तवर्णाभं लकारं पीतभास्वरम्
वकारं कृष्णवर्णं स्यात् शकारं नीलमुच्यते १०९
षकारं कुङ्कुमप्रख्यं सकारं कुन्दरागकम्
हकारमरुणप्रख्यं लकारमशनिप्रभम् ११०
क्षकारं स्फटिकाभासं श्रुणु वर्णेश्वरन्तथा
स्फटिकं कुण्डलञ्चैव नीलाङ्गं टङ्कधारिणम् १११
वज्रप्राशाङ्कुशं धार्यं श्रीकण्ठेशं नमाम्यहम्
पाशाभञ्च विशालाक्षं फणिभूषितविग्रहम् ११२
त्रिणेत्रं ज्ञानमुद्राञ्च अनन्तेशं भजोत्तमम्
चतुर्भुजं महाबाहुं मण्डितं फणिकङ्कणम् ११३
अभयं पद्महस्ताभ्यां सूक्ष्मेरं प्रणमाम्यहम्
ज्वलिताग्निसमप्रख्यं किञ्चित्प्रहसिताननम् ११४
पुस्तकं ज्ञानमुद्राञ्च त्रिमूर्तिं पद्मसंस्थितम्
रक्तवर्णं द्विबाहुञ्च कङ्कणाभरणोज्वलम् ११५
शूलं डमरुकं पाशमभयम् अमरेश्वरम्
वीरासनस्थं पद्माभं कर्मधुर्तूरचूडितम् ११६
नीलोत्पलं पङ्कजाभ्यां जङ्घीशञ्च करालकम्
कृष्णाद्री च समानाङ्गं विकृताननविग्रहम् ११७
अङ्कस्थम् अञ्जलीहस्तं हारभूतीशसञ्ज्ञकम्
शुक्लाभं शुभनेत्राभं वीणापुस्तकधारिणम् ११८
द्विपादञ्च तनूरेकं तिथीशं शान्तरूपकम्
स्थाणुं स्वांशं महाबाहुं नीलवर्णं द्विनेत्रकम् ११९
पाशं टङ्काक्षमभयं पद्मपीठे स्थितासनम्
पद्माक्षमभयं भीमं नीलकन्धरसङ्क्रमम् १२०
पादनूपुरसङ्घट्टहरेशं विकृताननम्
जटिलं चन्द्रचूडञ्च ऊर्ध्वज्वालासुकेशिनम् १२१
स्रक्कमण्डलरक्ताभं चण्डीशं प्रणमाम्यहम्
व्याघ्रचर्माम्बरधरं पादौ पादुकभूषितम् १२२
कञ्चुकाभरणञ्चैव भौतिकेशं विशेषतः
द्विमुखस्सोपवीताङ्गो चतुर्दोर्दण्डमण्डितम् १२३
श्यामवर्णं महायोगं सद्योजातेश्वरं प्रभुम्
कुङ्कुमाभसमानाङ्गम् एकवक्त्रं त्रिणेत्रकम् १२४
सर्वाभरणसंयुक्तम् अनुग्रहेश्वरशालिनम्
शुकपुष्पसमानाभं नयनं पद्मकान्तिवत् १२५
अभयोज्वलितप्रख्यं महासेनवरप्रदम्
रत्नपीठे स्थितं विद्यात् इन्द्रकोपनिभन्तथा १२६
जटामकुटसंयुक्तम् अभयं श्रीवरप्रदम्
कमण्डलधरं शान्तं नागयज्ञोपवीतिनम् १२७
द्विपादं नीलदेहाङ्गं क्रोधीशं भस्मकुण्ठितम्
गजचर्मपरिच्छन्नं किरीटमकुटोज्वलम् १२८
विकृताननसम्भूष्यं फणीशं परमेश्वरम्
वृश्चिकाभरणोपेतं सरत्नमकुटान्वितम् १२९
पाशदन्तवराभीतं प—मुनाद्धृतम्
———— त्रिशूलं शङ्खचक्रिकम् १३०
टङ्कं वामे सुधार्यञ्च कुन्दमन्दस्मितं मनाक्
पद्मासनस्थिता चैव प्रतिष्ठावष्टलोचना १३१
हेमप्रभां चतुर्वक्त्रां किरीटमकुटोज्वलाम्
हेमयज्ञोपवीतञ्च मुक्तामाणिक्कभूषितम् १३२
वज्रं शूलञ्च पद्मञ्च स्रक् धारा नीलवस्त्रकम्
प्रकृत्योपरिसंस्थित्वा निवृत्तिं प्रणमामिते १३३
इत्युत्तरकारणे प्रतिष्ठातन्त्रे मन्त्रावतारपटलो द्वितीयः