शिवमयम्
उत्तरकारणागमे प्रतिष्ठातन्त्रे
तन्त्रावतारपटलप्रारम्भः
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १ ॥
तीर्त्थसङ्ग्रहणे काले पर्वतस्यापि सम्भवे
तस्मिन्काले तु तीर्त्थं स्यात्सर्वसम्पद्विवर्द्धते ॥ २ ॥
श्रीकण्ठं देवदेवेशं मन्त्रसिह्मासनेश्वरम्
प्रणम्यपादकमलौ स्कन्दो वचनमब्रवीत् ॥ १ ॥
नीलकण्ठसुरेशानदेवदेवेश्वरप्रभो
असङ्ख्यासर्वशास्त्रेषु सङ्क्षेपं वदमे प्रभो ॥ २ ॥
ईश्वर उवाच
योगिनां ध्यानपूजार्त्थं ज्ञानानां मुक्तिकारणम्
सर्वलोकहितं पुण्यं सर्वानुग्रहकारणम् ॥ ३ ॥
सर्वैश्वर्याभिवृद्ध्यर्त्थं पुत्रपौत्रविवृद्धिदम्
कारणाख्ये महातन्त्रे वक्ष्येऽहन्तु षडानन ॥ ४ ॥
आदौ तं कारणं तन्त्रं लोकेशस्योदितं पुरा
कोटिग्रन्धसमायुक्तं कर्षणादर्चनान्तकम् ॥ ५ ॥
मूलभेदोपभेदैश्च वक्ष्ये श्रुणु षडानन
कारणं कामिकं चिन्त्यम् अजितं योगजन्तथा ॥ ६ ॥
सहस्रं सूक्ष्मदीप्तौ च सुप्रभेदोंशुमान्भवेत्
निश्वासं विजयञ्चैव स्वायम्भुवमथानलम् ॥ ७ ॥
विमलं मकुटञ्चैव वीरञ्च रौरवं तथा
चन्द्रज्ञानञ्च बिम्बञ्च ललितं प्रोद्गीतन्तथा ॥ ८ ॥
सन्तानं सिद्धशार्वोक्तं पारमैश्वर्यमुच्यते
वातुलं किरणञ्चैव त्वष्टाविंशतिसङ्ख्यया ॥ ९ ॥
पूर्वे तेषु दशप्रोक्तं शिवभेदेति सञ्ज्ञितम्
तथापराष्टदशकं रुद्रभेदमिति स्मृतम् ॥ १० ॥
महेशात् शिवभेदानां श्रोतारस्तु त्रयं स्त्रिया
रुद्रभेदो महेशाय श्रोतारौ द्विद्विको मतौ ॥ ११ ॥
महेशात्प्रणवः प्राप्तः प्रणवात्त्रिकलस्तथा
त्रिकलाच्च हरः प्राप्तं श्रोतारः कामिकस्य तु ॥ १२ ॥
सादाख्य भस्मसम्प्राप्ते भस्मानञ्च विभुस्तथा
योगमन्त्रस्य विख्यातं सुदीप्ता गोपतिस्मृतः ॥ १३ ॥
गोपतेरम्बिकाख्याता चिन्त्याख्यस्य प्रकीर्तिताः
कारणात् शर्वरुद्रस्तु शर्वरुद्रात्प्रजापतिः ॥ १४ ॥
कारणस्य तु विख्याता सुशिर्वच्यौ शिवस्मृतः
तच्छिवादच्युतः प्राप्तः स्वजिताख्यस्य कीर्तितः ॥ १५ ॥
कालभीमस्ततः प्राप्तो भीमाद्धर्म इति स्मृतः
प्रप्तात्सहस्रतन्त्रन्तु उग्राख्यस्तन्त्र सञ्ज्ञकम् ॥ १६ ॥
उग्रात्प्राप्तो रवीतन्त्रम् अंशुमान्परिकीर्तितम्
विघ्नप्राप्ते दशैकं च विघ्नेशाच्च शिवस्मृतम् ॥ १७ ॥
प्राप्तास्ते सुप्रभेदन्तु शिवभेदाः प्रकीर्तिताः
अनाद्यः परमेशस्तु विजयस्य प्रकीर्तितः ॥ १८ ॥
दशार्णात् गिरिजः प्राप्तो निश्वासस्य फलं भवेत्
पद्मोद्भवस्तु निधनात्स्वायम्भुवविशेषतः ॥ १९ ॥
अग्निव्योमार्चसम्भूतिराग्नेयस्य प्रकीर्तितम्
कश्चित्प्रजापतिः प्राप्तो वीरतन्त्रं प्रकीर्तितम् ॥ २० ॥
नन्दीशो ब्रंहणेशाश्च रौरवं परिकीर्तितम्
शिवाख्यस्य महादेवमकुटं कीर्तितं भवेत् ॥ २१ ॥
सर्वात्मदेवान्सम्प्राप्तो विमलं वीरभद्रकम्
चन्द्रभासामनन्दश्च सम्प्राप्तश्चेत् बृहस्पतिः ॥ २२ ॥
मुखबिम्बं प्रशान्तश्च सम्प्राप्ते दधिच स्मृतः
प्रोद्गीतं शूलिना प्राप्तस्त्वचाख्यो मुनिसत्तमः ॥ २३ ॥
आलया वलितः प्राप्तो रुद्रभैरव एव च
बिन्दोश्चण्डेश्वरः प्राप्तो साद्ध्याख्यन्तन्त्रकस्य तु ॥ २४ ॥
स्नानं निशिपिष्टाच्च सम्प्राप्तस्त्वं सवायसः
शर्वोक्तं सोमदेवाच्च नृसिंहः प्राप्तवांस्तथा ॥ २५ ॥
श्रीदेवास्तूशनप्रोक्ता पारमेश्वरमेव च
देवोपितुश्च किरणं संवर्तः प्राप्तवांस्तथा ॥ २६ ॥
शिवात्प्राप्तो महाकालो वातुलं तन्त्रमुत्तमम्
रुद्रभेदमिति प्रोक्तं मूलभेदाः प्रकीर्तिताः ॥ २७ ॥
कामिकन्तु परार्द्धं स्यात् योगजं लक्षसङ्ख्यया
चिन्त्यं शतसहस्रञ्च कारणं कोटिसङ्ख्यया ॥ २८ ॥
अजितम् अयुतं प्रोक्तं दीप्तञ्च नियुतं भवेत्
सूक्ष्मञ्च पद्मसङ्ख्या तु सहस्रं शङ्खसङ्ख्यया ॥ २९ ॥
अंशुमान्पञ्चलक्षञ्च सुप्रभेदं त्रिकोटिकम्
विजयं भानुकोटिञ्च निश्वासं सार्द्धकं भवेत् ॥ ३० ॥
कोटित्रयोदशञ्चैव स्वायम्भुवयुतं भवेत्
अनलं नियुतं प्रोक्तं वीरं वै अर्बुदाष्टकम् ॥ ३१ ॥
मकुटं शतसाहस्रञ्च त्रिलक्षं विमलं भवेत्
चन्द्रज्ञानं त्रिकोटी स्यात् सहस्रं बिम्बसंयुतम् ॥ ३२ ॥
त्रिलक्षञ्चैव प्रोद्गीतं ललिताष्टसहस्रकम्
सिद्धं वै सार्द्धकोटिः स्यात् विशेषेण प्रकीर्तितम् ॥ ३३ ॥
सन्तानं षट् सहस्रञ्च शार्वोक्तन्तु द्विलक्षकम्
पारमेश्वरतन्त्रं स्यात् द्वादशं लक्षमुच्यते ॥ ३४ ॥
क्रिरणं पञ्चकोटिस्स्यात् शतसहस्रन्तु वातुलम्
तन्त्राणां कामिकादीनां ग्रन्धसङ्ख्याः प्रकीर्तिताः ॥ ३५ ॥
नारसिह्मञ्च वक्तारं भैरवोत्तरमेव च
कामिकस्य त्रयोभेदा सुधासन्तादितारकौ ॥ ३६ ॥
वीणाशिखोत्तरञ्चैव आत्मयोगन्तथैव च
योगजस्य तु भेदानि पञ्चधा कीर्तितानि वै ॥ ३७ ॥
पापनाशं परोद्भूतं सुचिन्त्यममृतान्वितम्
सुभगं वामसञ्ज्ञन्तु चिन्त्यभेदास्तु षड्विधा ॥ ३८ ॥
महान्तं कारणं तन्त्रं पावनं भीमसंहिता
विद्वेषं मारकञ्चैव सप्तधाकारणस्य तु ॥ ३९ ॥
पार्वती च परोद्भूतं प्रभूतं पद्मसंहिता
अजितस्य चतुर्भेदा अमेयाख्यमतः परम् ॥ ४० ॥
असङ्ख्यमब्जमश्चाद्यम् आनन्दममितौजसम्
अद्भुतं मानवोद्भूतम् अक्षयं दीप्तमेव च ॥ ४१ ॥
सूक्ष्मस्य सूक्ष्ममेकन्तु अजितं मण्डलन्तथा
प्रमेयाजातिभागञ्च प्रबुधं विबुधन्तथा ॥ ४२ ॥
हस्तशुद्धमलङ्कारं बोधं साहस्रको दश
काश्यपं वासवं नीलं लोहितं भूततन्त्रकम् ॥ ४३ ॥
विद्यापुराणमैन्दञ्च आत्मालङ्कारमेव च
वासिष्ठं गौतमं ब्राह्मम् ईशानोत्तरमेव च ॥ ४४ ॥
प्रकारणं तथा चांशुमानो द्वादशभेदकम्
सुप्रभेदं महाशास्त्रम् अभेदमिति कीर्तितम् ॥ ४५ ॥
कौबेरञ्चाथ विमलं सौम्यञ्चैव तथोद्भवम्
मृत्युनाशमघोरञ्च महाघोरमतः परम् ॥ ४६ ॥
परमेश्वराच्च विजयं विजयस्याष्टभेदकः
निश्वासोत्तरतन्त्रञ्च मनो निश्वासमेव च ॥ ४७ ॥
निश्वासाख्यं महातन्त्रं निश्वासोर्ध्वमुखोदयम्
निश्वासनिधनञ्चैव मन्त्रे निश्वासमेव च ॥ ४८ ॥
निश्वासकारिका चैव निश्वासं घोरमेव च
निश्वासञ्चाष्टधा प्रोक्तं प्रजापतिमतं तथा ॥ ४९ ॥
पद्मञ्च द्विविधं विद्यात्स्वायम्भुवविशेषतः
आग्नेयं व्योमतन्त्रन्तु आग्नेयस्य द्विधामतम् ॥ ५० ॥
प्रस्तरं फुल्लनयनं प्रबोधं बोधकन्तथा
शकटं मोहविजयं प्रमोहं शकटासिकम् ॥ ५१ ॥
विले घनं विले भद्रं वीरतन्त्रं त्रयोदश
कालाख्यं कलदहनं रौरवं रौरवोत्तरम् ॥ ५२ ॥
महाकालमतञ्चान्द्रं रौरवे षड्डिधं स्मृतम्
मकुटोत्तरञ्च मकुटं मकुटस्य द्विधा स्मृतम् ॥ ५३ ॥
वृषगुह्यं यथाक्रान्तं वृषभं वृषभोत्तरम्
सुदन्तमिति भेदञ्च रौद्रभेदं तथैव च ॥ ५४ ॥
आरेवतं सुभद्रञ्च अतिक्रान्तमलङ्कृतम्
अर्चितं त्वट्टहासञ्च अनन्तं मारणं तथा ॥ ५५ ॥
भेदा विमलतन्त्रस्य षोडशोपरिकीर्तिताः
एकादशपुराणञ्च स्थाण्वाख्या नन्दिकेश्वरम् ॥ ५६ ॥
स्थिराख्यं शङ्करप्रोक्तं श्रीमुखं शिवभक्तकम्
कल्पभेदमिति प्रोक्तं शिवसन्तानमेव च ॥ ५७ ॥
देव्यामताख्यतन्त्रञ्च शिवशेखरमेव च
वारुणञ्चैव वायव्यं चन्द्रज्ञानञ्चतुर्विधम् ॥ ५८ ॥
चतुर्वक्त्रञ्च संस्तोभं प्रतिबिम्बमयोगजम्
तुटिनीलञ्च तौटीञ्च अर्द्धालङ्कारमेव च ॥ ५९ ॥
तुला वृत्ययमेवञ्च कुट्टिमाख्यलयोगतम्
पट्टशेखरमेवञ्च महाविद्यामहासुरम् ॥ ६० ॥
नैर्ऋती तिथिविख्याञ्च मुखबिम्बस्य भेदकम्
पिङ्गलामृद एवञ्च दण्डयौपाशबन्धकम् ॥ ६१ ॥
परागं कवचं कौरं शिवज्ञानं धनुर्धरम्
कालज्ञानञ्च विज्ञानम् आयुर्वेदञ्च गन्तकम् ॥ ६२ ॥
भरतञ्च धनुर्वेदं मानोद्यं सर्वदंष्ट्रकम्
प्रोद्गीताख्यस्य तन्त्रस्य भेदं षोडश एव च ॥ ६३ ॥
ललितोत्तरकौमारं ललिताख्यमतःपरम्
ललितस्य त्रयोभेदाः शलाख्यं शक्तिमण्डलम् ॥ ६४ ॥
सारोत्तरञ्च मैशान्यं सिद्धतन्त्रं चतुर्विधम्
अमरेशं सुराद्ध्यक्षं लिङ्गाद्ध्यक्षमसङ्ख्यकम् ॥ ६५ ॥
अनिलं शाङ्करं द्वन्द्वं सन्ताने सप्तभेदकाः
ईशानं शिवधर्मञ्च शिवधर्मोत्तरं तथा ॥ ६६ ॥
दिव्य प्रोक्तं कुबेराख्यं शार्वोक्तस्यैह पञ्चकम्
हंसं पद्मञ्च मातङ्गं सामान्यं यक्षणं तथा ॥ ६७ ॥
पुष्कलं सुप्रिया योगं सप्तधा परमेश्वरे
गारुडं नैर्ऋतं नीलं रूक्षं भानुकमेव च ॥ ६८ ॥
प्रबुद्धं येनकं बुद्धं कालाख्यं किरणेन च
वातुलोत्तरतन्त्रञ्च कालज्ञानं पुरोहितम् ॥ ६९ ॥
श्रेष्ठं सर्वात्मकं शर्वं शुद्धं नित्यमहारमम्
विश्वं विश्वात्मकं तत्वं वातुले द्वादशा स्मृता ॥ ७० ॥
मूलभेदोपभेदाश्च समासात्परिकीर्तितम्
त्रिभेदं कामिकं प्रोक्तं योगजे भूतसङ्ख्यया ॥ ७१ ॥
चिन्त्यभेदं तथा षष्ठं कारणं सप्तमेव च
अजिते वेदसङ्ख्या च दीप्तेन विविधं भवेत् ॥ ७२ ॥
सूक्ष्मस्य सूक्ष्ममेकन्तु सहस्रे दशभेदकम्
अंशुमान् द्वादशं प्रोक्तम् अभेदं सुप्रभेदकम् ॥ ७३ ॥
विजयस्याष्टभेदन्तु निश्वासे चाष्टभेदकम्
स्वायम्भुवञ्च भेदन्तु अनले द्वयमेव च ॥ ७४ ॥
वीरं त्रयोदशं भेदं रौरवं षष्ठमेव च
मकुटद्वयमेवोक्तं विमलं षोडशन्तथा ॥ ७५ ॥
चन्द्रज्ञानं द्विसप्तन्तु बिम्बं वै षोडशन्तथा
प्रोद्गीतं षोडशं प्रोक्तं ललितं तन्त्रमेव च ॥ ७६ ॥
सिद्धतन्त्रं चतुर्त्थन्तु सन्ताने सप्तमं भवेत्
सर्वोक्तं पञ्चधा प्रोक्तं पारमेश्वरसप्तकम् ॥ ७७ ॥
किरणन्नयनञ्चैव वातुले द्वादशन्तथा
एतैव चोपभेदानि सप्तमं द्विशतं भवेत् ॥ ७८ ॥
कामिकाद्युपभेदानि सहस्रगणना भवेत्
द्विशतं सप्तसङ्ख्यानि उपभेदः पृथक्पृथक् ॥ ७९ ॥
सहस्रसङ्ख्यया ग्रन्धं तस्योपरि न षण्मुख
सादाख्येशानने दिव्ये महेशानं पुराश्रया ॥ ८० ॥
कामिकाद्यजितान्तञ्च सद्योजातमुखोद्भवम्
दीप्तादिसुप्रभेदान्ता वामदेवमुखे ध्रुवम् ॥ ८१ ॥
विजयारभ्यवीरान्ताः पञ्चते घोरमूर्तये
रौरवान्तञ्च बिम्बान्तं पुं वक्त्रे च समुद्भवम् ॥ ८२ ॥
प्रोद्गीताद्यष्टतन्त्राणि ईशं नाननसम्भवम्
यथोक्तेन च तन्त्रेण कुरुते दीक्षया तथा ॥ ८३ ॥
कर्षणाद्यर्चनान्तञ्च तत्तन्त्रेण शिवस्य ह
कुर्यात्सर्वं तदुद्दिष्टम् अनुक्तञ्चेत्तथान्यके ॥ ८४ ॥
पाशुपतानि तन्त्राणि सिद्धान्तानि विदुर्बुधाः
शैवतन्त्राधमे प्रोक्ता शैवं पाशुपतानि च ॥ ८५ ॥
वातुलन्तु चतुर्भेदा सोमसिद्धान्तकं तथा
तेषां सङ्करदोषाणि सङ्करे कर्तृनाशनम् ॥ ८६ ॥
तेषु तेषु प्रकर्तव्यं न तु सङ्करदोषभाक्
यस्सिद्धान्ताख्य तन्त्रेण दीक्षितश्चादिशैवकः ॥ ८७ ॥
शैवेषु आदिशैवश्च तथा पाशुपतादिषु
यजनं स्थापनं कुर्यात् सिद्धान्तोक्तविधानतः ॥ ८८ ॥
तत्सौम्यफलदत्वानि न कुर्यादर्चनादिके
शैवं सौम्यमिति प्रोक्तमिमे रौद्रं तथापि च ॥ ८९ ॥
सौम्येन रौद्रधर्माणि सौम्यरौद्रेण वर्जितम्
अष्टाविंशति तन्त्राश्च मन्त्रदेहा कृतिर्भवेत् ॥ ९० ॥
मकुटात् पादपर्यन्तं कामिकाद्य नवान्तकम्
मन्त्रावतारभेदानि श्रुणुष्व शरवणोद्भव ॥ ९१ ॥
इ्त्युत्तरकारणागमे प्रतिष्ठातन्त्रे तन्त्रावतारविधिपटलः प्रथमः