शिवदीक्षाविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि शिवदीक्षाविधिक्रमम्
नराणां मोक्षसिद्ध्यर्त्थं सर्वपापहरं परम् ॥ १ ॥
सर्वरोगविनाशार्त्थं धनधान्न्य समृद्धिदम्
शुद्धश्शिवद्विजैर्मुख्यैराचार्यस्य प्रकीर्तितम् ॥ २ ॥
अखलं खलमित्युक्तं शैवमेवेति चोच्यते
अखलम् ऋषिगर्भं स्यात्खलं वै शिवगर्हितम् ॥ ३ ॥
भिक्षाटनस्य तत्काले खलञ्च शिवगर्हितम्
तत्काले नारिगर्भा च रुद्रस्य गणिका भवेत् ॥ ४ ॥
अखिलं गर्भतो वापि बोधान्ये गर्भसञ्ज्ञिकम्
श्रेष्ठे खलञ्चैव अथवा च खलस्तथा ॥ ५ ॥
ग्रामविप्रं समुद्धृत्य परस्य कुलमेव च
पञ्चैते तु प्रकर्तव्यं भूतमेवेति चोच्यते ॥ ६ ॥
विप्रो नृपन्तु वैश्यं शूद्रजातिस्तु दीक्षयेत्
एते चतुर्विधे जाते अखलीञ्च परीक्षयेत् ॥ ७ ॥
[[८००]]
खिलो च क्रिया द्वे च खलञ्चैवोपदर्शिनः
अन्येषाञ्चैव कर्तव्यं देशिकं सर्वतोमुखम् ॥ ८ ॥
तिथिवारेषु नक्षत्रे सुमुहूर्ते सुलग्नके
देवालये मठे चैव गुरुशिष्यगृहेस्तथा ॥ ९ ॥
दीक्षास्नानेषु कर्तव्यं मण्डपन्तु प्रकल्पयेत्
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव च ॥ १० ॥
नवाग्निञ्चैव पञ्चाग्निम् एकाग्निं वा प्रकल्पयेत्
कर्तव्यमग्निदेशे तु सुप्रमाणमिति स्मृतम् ॥ ११ ॥
द्विहस्तं वेदिविस्तारम् एवमेवन्तु शास्त्रवत्
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ १२ ॥
दर्भमालाभिरावेष्ट्य मुक्तासृक् दामलम्बितम्
प्रोक्षयेत् पञ्चगव्येन पुण्याहं वाचयेत्ततः ॥ १३ ॥
प्रोक्षयेत् गन्धतोयेन नारा च मुद्रया सह
शालिपिष्टमयन्तत्र पदविन्यासमुच्यते ॥ १४ ॥
षट्त्रिंशत्सूत्रविन्यासं पूर्वाग्रचोत्तराग्रकम्
नन्दनन्दपदमध्ये तु पद्माकारं समालिखेत् ॥ १५ ॥
तत् बाह्ये पदसंयुक्तं पदमेकं परित्यजेत्
चत्वारात्मतारूपं पञ्चपञ्चदन्त्यजेत् ॥ १६ ॥
लता पार्श्वद्वयञ्चैव लिङ्गञ्चैव चतुर्दिशि
मध्ये श्वेतमयं पद्मं श्यामवह्निविधिः क्रमात् ॥ १७ ॥
द्वारेषु सङ्कल्प्य नानावर्णविचित्रके
हेमकृष्णसुरक्तञ्च सितवर्णमयन्तथा ॥ १८ ॥
लिङ्गवर्णं प्रकुर्वीत विचित्रेण समाद्विधि
अर्धलिङ्गेषु चाष्टेषु वर्णभेदं विधीयते ॥ १९ ॥
प्रोक्षयेत् कुशतोयेन शङ्खसन्निभमुद्रया
मण्डलं तत्समानन्तु लिङ्गाम्बुजं विधीयते ॥ २० ॥
[[८०१]]
कोणे कोणे विधिप्रोक्तं श्वेताब्जन्तु विधीयते
मण्डपशुद्धिविन्यासं वास्तुहोमं विनिक्षिपेत् ॥ २१ ॥
पर्यग्निकरणं कृत्वा पुण्याहं वाचयेत्ततः
पूर्वोक्तं विधिवत्स्थाप्य घटेषु कलशेषु च ॥ २२ ॥
पूर्वादिपर्यन्तद्वारणतोरणकल्पयेत्
मण्डपस्यैशदिक्भागे मण्डपं चतुरश्रकम् ॥ २३ ॥
दर्भं पुष्पं परिस्तीर्य पद्ममध्येषु विन्यसेत्
शिवकुम्भेषु वर्धन्यां स्थापयेत्पद्ममध्यमे ॥ २४ ॥
पाद्यमाचमनचार्घ्यं पञ्चगव्यं चतुर्दिशि
विद्याचाष्टन्तु सम्पूज्य स्थापयित्वानुक्रमात् ॥ २५ ॥
देशिको मूर्त्तिवैस्सार्धं स्नात्वा वस्त्रेण वेष्टयेत्
आत्मार्थं विधिमभ्यर्च्य विशेषं कल्पयेत्ततः ॥ २६ ॥
तर्पणान्ते विधिप्रोक्तं सर्वालङ्कारसंयुतम्
पञ्चाङ्गभूषणोपेतम् उत्तर्येण तु वस्त्रकम् ॥ २७ ॥
प्रविशेत् मण्डपस्यैव पुण्याहं वाचयेत्ततः
पश्चात्स्थापकं प्रकर्तव्यं निरीक्षणङ्कुरमेव हि ॥ २८ ॥
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः
भूतशुद्धिन्तु विन्यासं करशुद्धिन्तु विन्यसेत् ॥ २९ ॥
अङ्गमक्षरविन्यासं पूजयेत् मण्डपं हृदा
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिं चतुर्दिशि ॥ ३० ॥
भूत्याबलिस्तु चारोग्यं शान्तिं चोत्तरणादिषु
नन्दिकालेन्द्रतथा गङ्गा यमुने चैव पूजयेत् ॥ ३१ ॥
पुष्पोदकं कुशोदकञ्च गन्धादकन्तु बिल्वकम्
विदिक्षु स्थापयेत्तत्र क्रमेणैव तु देशिकः ॥ ३२ ॥
शिवकुम्भे शिवं पज्य वर्धन्यान्तु मनोन्मनीम्
इन्द्राग्नियोस्तु च तन्मध्ये सौरत्येग्रियाय च ॥ ३३ ॥
[[८०२]]
अग्निकुम्भे तथाचाग्नि दण्डिमुण्डन्तु दक्षिणे
मूर्त्तौ तु मयमुत्युक्तं पूजयेत्सह मेदके ॥ ३४ ॥
वायुकुम्भं तथा वायु ज्येष्ठाया वृषभं स्मृतम्
उत्तरे तु यजेत् सद्यं सोमं वै वाह्यमेव च ॥ ३५ ॥
ऐशे तु ब्रह्मविष्णुश्च रुद्रमेवं प्रकल्पितम्
धूपदीपं हृदा हत्वा गन्धपुष्पादिभिर्यजेत् ॥ ३६ ॥
स्वनामादेव सम्पूज्य नमोन्तमुच्चरन् क्रमात्
स्वाहान्तेन हृदा प्रोक्तं निवेद्यादि निवेदयेत् ॥ ३७ ॥
शिवकुम्भे शिवं पूज्य वर्धन्यान्तु मनोन्मनीम्
विद्येश्वराष्टक्रमात्पूज्य स्वनामेनैव देशिकः ॥ ३८ ॥
मण्डलान् सर्वदैवत्यं पूजयेत् गन्धपुष्पकैः
ईशानादिसद्यपर्यन्तं लिङ्गमेतत्प्रकीर्तितम् ॥ ३९ ॥
विधैशाष्टसु सम्पूज्य मध्यलिङ्गेषु चैव हि
लतञ्च पिष्टयञ्चैव चतुष्पङ्कजमेव हि ॥ ४० ॥
वामादिशक्तयश्चाष्टौ पूजयेत् गन्धपुष्पकैः
लिङ्गे लिङ्गे तथा कर्णे वससो नागमष्टकम् ॥ ४१ ॥
विदिर्गूहे चतुर्दिक्षु चतुर्वेदं प्रपूजयेत्
मण्ठपात्पूजयेत्तत्र विद्यादेहात् सुदृढं सुधीः ॥ ४२ ॥
धूपदीपं हृदा दत्वा मुद्रया शङ्खसन्निधौ
साक्षतन्तु मण्डले कर्म कलशे रक्तकूर्चकम् ॥ ४३ ॥
आप्लाव्य प्लवमाप्नोति जयेन्मण्डपं हृदम्
यावत्सम्पूज्य विधिवत् मन्त्रमेतन्नमोन्तकम् ॥ ४४ ॥
पूजाकर्मान्ते शिष्यमाकृष स्नानवस्त्रेण पोह्यकम्
प्रविशेत् मण्डपद्वारे पादप्रक्षालनं कुरु ॥ ४५ ॥
भस्माग्ने लेपनञ्चाङ्गं मण्डपन्तु प्रवेशयेत्
होमकर्मं समाश्रित्य देशिको मूर्तिवैस्सह ॥ ४६ ॥
[[८०३]]
आज्यस्थालीं चरुं गृह्य कुण्डं दक्षिणस्थितम्
गुरोश्चाभिमुखोग्नि विधिना कारयेत् बुधः ॥ ४७ ॥
गुरोर्निरीक्षणे शिष्यः ज्ञानदृष्ट्यावलोकयेत्
उष्णीषं चोत्तरीयञ्च परिचारकमाचरेत् ॥ ४८ ॥
तत् हस्ते कुम्भवर्धन्योः मण्डपन्तु प्रदक्षिणम्
स्थण्डिलोपरि संस्थित्वा होमकर्मसमाचरेत् ॥ ४९ ॥
वागीश्वरी वागीशं पूजयेत् कुण्डमध्यमे
अन्तः दिक्पालमित्युक्तं कुण्डेनैव तु पूजयेत् ॥ ५० ॥
समिधाज्य चरुं लाजान् सर्षपास्तु तिलन्तथा
वेणुमुद्गं तथामाषनिष्पावं शिम्बमाढकम् ॥ ५१ ॥
समिधं मूलमन्त्रेण आज्यं गायत्रिमन्त्रकम्
अघोरेण चरुं हुत्वा लाजं वामेन हूयते ॥ ५२ ॥
सर्षपं कवचेनैव सक्तुकं पुरुषेण तु
तिलमीशानमन्त्रेण वर्णुकं सद्यमन्त्रकम् ॥ ५३ ॥
मुद्गन्तु शिरसा मन्त्रं मासञ्चैव शिखा भवेत्
शिम्बं वै हृदयेनैव आढकं नेत्रमुच्चरन् ॥ ५४ ॥
निष्पावन्तु हुनेत्पञ्च त्र्यम्बकमथाचरेत्
शतमर्धं तदर्धं वा जुहुयात्तत्क्रमशः पुनः ॥ ५५ ॥
धूपं दीपं हृदा दत्वा कुण्डस्योर्ध्वे बलिं ददेत्
चक्रादिलोकपालांश्च स्वनामेनैव देशिकः ॥ ५६ ॥
कुण्डं दक्षिणपार्श्वे तु मण्डलद्वितयेऽपि च
अन्तर्बहिः बलिं कुर्यात् पूर्वोक्तविधानतः ॥ ५७ ॥
धूपं समादाय चुबुकोदकमादिशेत्
शिष्यान् तिष्ठन्ति तत्काले गोमये मण्डलासिते ॥ ५८ ॥
प्रोक्षयेदस्त्रतोयेन धूपं दीपं ददेत् क्रमात्
मलमायादिपाशानां विशिष्टं क्रियते मया ॥ ५९ ॥
[[८०४]]
ज्ञानञ्च अन्यते शिष्यां कारयेत् विधिहोमयेत्
पशश्चेदप्रकर्तव्यं हुम्फट् पाशुपतस्त्रकम् ॥ ६० ॥
आहुतित्रयं दद्यात् गायत्रीणाञ्च होमयेत्
देशिकेन प्रकर्तव्यं शिष्यापाङ्गं प्रकीर्तितम् ॥ ६१ ॥
बीजमुख्यं समन्त्रेण स्पर्शाहुतिं विभावयेत्
धूपदीपं हृदा दत्वा शिष्यं हृदयसञ्चयम् ॥ ६२ ॥
क्षालयेत् शिष्यहस्तन्तु स्थण्डिलं सम्पूरितम्
पादाङ्गुष्ठशिरोसृष्टि शिष्यं सममुखमेव हि ॥ ६३ ॥
त्र्यम्बकेन मन्त्रं सञ्छिष्यं कौतुकबन्धनम्
धूपदीपं हृदा दत्वा ततो भस्मञ्च दापयेत् ॥ ६४ ॥
—— ञ्चतुर्भागमेकभागं निवेद्यकम्
एकभागं बलिप्रोक्तं गुरवे त्वेकभागिकम् ॥ ६५ ॥
एकभागे तु शिष्याय प्राशयेत्सहमेव तु
गुरोः मण्डपशायञ्च गुरुपापैः शिष्यवत् ॥ ६६ ॥
शयने चैव तत्कार्यं शुभकर्मं विलेप्य च
दुःस्वप्नेशयवर्तञ्च प्रायश्चित्ताहुतिमयथा ॥ ६७ ॥
पञ्चाहुतदिवा पञ्च ब्रह्मषडङ्गवत्
द्वितीये दिवसे चैव गुरुशिष्य विधीयते ॥ ६८ ॥
शमीकेतु सकृत् चूर्णं मधूकं कुशभस्मना
जले च लेपयेद्देहं स्नापयेत् शिष्यदेहिकम् ॥ ६९ ॥
स्नाप्य शुद्धसर्वाङ्गं गुह्ये स्फिक् द्वयशुद्धये
तर्पयेत् विधिवत्पूर्वं विशेषेण तर्पणमेव हि ॥ ७० ॥
मण्डपा परे द्वापि पादप्रक्षालनं यजेत्
प्रविशेत् मण्डपे मध्ये उद्धूल्यं भस्मनो गुरुः ॥ ७१ ॥
पूजयेत् पूर्वमात्मार्थं विशेषं पूजयेत् शिवम्
हविर्निवेद्य ताम्बूलं नित्यनैमित्तिकन्तथा ॥ ७२ ॥
[[८०५]]
पूजान्ते तु जपेन्मूलं पूजयेत्पञ्चपञ्चकम्
ततो वै रथसर्वाश्च पादप्रक्षालनं कुरु ॥ ७३ ॥
भस्मानुलेपयेत् स्वाङ्गैः प्रविशेत् मण्डपालये
मण्डले स्थले चैव मण्डलादीन् प्रपूजयेत ७४्
आचार्यो मूर्त्तिवैस्सार्धं सर्वगन्धानुलेपयेत्
पञ्चाग्रे भूषणैर्युक्तं गन्धमाल्यैः विभूषणम् ॥ ७५ ॥
नववस्त्रपरीधानम् उत्तर्यं तथैव च
प्रोक्षयेत् कुम्भतोयेन पुनः पुण्याहं वाचयेत् ॥ ७६ ॥
अग्निकार्योक्तमार्गेण देशिको मूर्त्तिवैस्सह
समिधाज्यचरुं लाजान् सर्षपांश्च यवांस्तिलान् ॥ ७७ ॥
निष्पावं शिम्बमेवोक्तं सकृच्च वेणुमेव च
गुलं मधुं पूपञ्च कन्दञ्च कदलीफलम् ॥ ७८ ॥
अपामार्गन्तु नीवारं कारयेत्तु ततो हुनेत्
पलाशवटमश्वत्थं शमीमायूरखादिरम् ॥ ७९ ॥
प्लक्षोदुम्बरबिल्वञ्च विंशतिर्हूयते
सिमिमूलन्तु हुत्वा तु आज्यं तत्पुरुषेण तु ॥ ८० ॥
गायत्रिकं चरुं हुत्वा लाजाघोरन्तु रूपिणम्
माषं वै वामदेवन्तु कदलीनां सममेव च ॥ ८१ ॥
यवमीशानमन्त्रेण हृदयेषु च सर्षपम्
शिरसा तिलमाह्वा शिखामन्त्रेण मुद्गकम् ॥ ८२ ॥
गुलमस्त्रेण चाहुत्या मधुञ्चैव सदा शिवः
ब्रह्मज्ञानमन्त्रेण पूर्वपं पञ्चहुतेतः ॥ ८३ ॥
शुद्धं शुध्यति मन्त्रेण कदलीफलमेव च
वर्ममन्त्रमपामार्गं नीवारं सोममन्त्रकम् ॥ ८४ ॥
द्रव्य प्रयश्चापि होमयेत्तु शताहुतिः
शिष्यदेहं कर्तव्यं सोमस्यापि पदैरपि ॥ ८५ ॥
[[८०६]]
धूपदीपं तदा तस्मै भस्मना दापयेत्ततः
शिवकुम्भं ततो धृत्य शिष्यश्च स्थापयेत् भुवि ॥ ८६ ॥
इति पूर्वकारणागमे प्रतिष्ठातन्त्रे सम्पूर्णम्