प्रायश्चित्तविधिपटलप्रारम्भः
प्रायश्चित्तविधिं वक्ष्ये सर्वदोषनिकृन्तनम्
प्रायो विलय इत्युक्तश्चित्तराहित्यकृत्ततः ॥ १ ॥
लयराहित्य हेतुत्वात् प्रायश्चित्तमिति स्मृतम्
सर्वेषामेवकार्याणां त्रिया वै कल्यसम्भवे ॥ २ ॥
प्रायश्चित्तं पुराकुर्यादात्मनः शुद्धिहेतवे
अन्यधापतनं तस्य सर्वशास्त्रेषु निश्चितम् ॥ ३ ॥
मन्दिरे पतिते भिन्ने चलिते स्फुटिते तथा
पिण्डिका चलिते वक्रे लिङ्गे च चलिते तथा ॥ ४ ॥
गजचोरैश्च चलिते नदी स्रोतसि सम्भवे
लिङ्गे वा प्रतिमायां वा सङ्गृहीते च शत्रुणा ॥ ५ ॥
अष्टबन्धनहीने च सुधाकर्मविहीनके
स्थलकर्मविहीने वा शूले च पतिते भुवि ॥ ६ ॥
भवने चाग्निदग्धे च दग्धे लिङ्गे च बिम्बके
परिवारविहीने च बलिपीठविहीनके ॥ ७ ॥
प्रासादबलिहीने च वृषपीठविहीनके
द्वारदेवविहीने तु वृषभे च विहीनके ॥ ८ ॥
कुक्कुरैः कुक्कुटैश्चैव खरसूकरवानरैः
भेकचोर ऋतुस्त्रीभिः प्रेतकैश्चैव पातकैः ॥ ९ ॥
[[७५५]]
गर्भगेहे प्रविष्टे च स्पृष्टे लिङ्गे च कौतुके
पतितैश्चैव संस्पृष्टे तस्करैः पापरोगिभिः ॥ १० ॥
स्पर्शने चानुलोमैश्च प्रतिलोमैर्विलोमकैः
हर्म्येषु च मृते जाते तिर्यक् जातौ मृते तथा ॥ ११ ॥
मन्दिरे गर्भगेहे तु परिवारालयेऽपि वा
प्राकारे गोपुरे चैव वल्मीके तु समुद्धृते ॥ १२ ॥
नृत्तकाले तु गणिका पतिते श्लोकहीनके
हीने निर्वाणहीनन्तु मन्त्राणाञ्च विहीनके ॥ १३ ॥
नैवेद्यादिविहीने च सन्ध्यातिक्रमणेऽपि वा
नैवेद्योत्थापने काले लङ्घिते तु नरैस्तथा ॥ १४ ॥
मार्जनप्रोक्षणे हीने रङ्गवल्यादिहीनके
रक्षादीपविहीने तु शङ्खघोषविहीनके ॥ १५ ॥
लिङ्गे च प्रतिमामूर्ध्नि पुष्पहीने तु सम्भवे
बलिदानविहीने तु स्नपनाङ्गविहीनके ॥ १६ ॥
स्पृष्टे दीक्षान्तरैर्बिम्बं गर्भगेहे प्रविष्टके
अब्देनोत्सवहीने च नवनैवेद्यहीनके ॥ १७ ॥
पवित्रारोहणे हीने कृत्तिकादीपहीनके
तन्त्राणां सङ्करे चैवाप्याचार्यसङ्करे तथा ॥ १८ ॥
एवमादि समुत्पन्ने यथाकृत्यं विधीयते
तथाप्रतिक्रियां कुर्यात्सर्वदोषनिकृन्तनम् ॥ १९ ॥
मन्दिरे पतिते यत्र राजराष्ट्रक्षयो भवेत्
बालस्थानं ततः कृत्वा स्थापयेद्विधिपूर्वकम् ॥ २० ॥
पूर्ववत् भवनं कृत्वा सम्प्रोक्षणमथाचरेत्
भवने स्फुटिते भिन्ने कूटशालाविहीनके ॥ २१ ॥
सिंहकूटमहानासि कपोते च विहीनके
ग्रीवाप्रस्तरहीने चाप्यनुनासिविहीनके ॥ २२ ॥
[[७५६]]
अनावृष्टिर्भवेत्पश्चात्पुनस्सन्धानमाचरेत्
स्नपनं कारयेच्छम्भोश्शान्तिहोमं समाचरेत् ॥ २३ ॥
पिण्डिका चलिते चैव विश्लिष्टे बन्धनादिभिः
जायानां नाशनं प्रोक्तं सुस्थितां पिण्डिकां कुरु ॥ २४ ॥
विधिनाकारयेदष्टबन्धनं देशिकोत्तमः
लिङ्गे च चलिते वक्रे स्फुटिते च प्रजापते ॥ २५ ॥
नृपस्य मरणं शीघ्रं दुर्भिक्षं जायते भुवि
जीर्णोद्धारोक्तमार्गेणाप्युद्धृत्य स्थापयेन्नवम् ॥ २६ ॥
तस्करैश्चलिते लिङ्गे नदीस्रोतेन वा पुनः
भूपतिस्त्वन्यधाज्ञेयः स्थापयेन्निर्वृतन्तु च ॥ २७ ॥
स्रोतसाचलितं लिङ्गं शतदण्डं व्यपोह्य च
तत्स्थानस्योत्तरे चैन्द्रे शाङ्करे वा विशेषतः ॥ २८ ॥
स्थाप्यलिङ्गं शुचौ देशे भवनं कारयेद्बुधः
जलाधिवासनञ्चैव लक्षणोद्धारणं विना ॥ २९ ॥
प्रागुक्तविधिना धीमान्प्रतिष्ठां कारयेत्ततः
स्थापितस्यैवलिङ्गस्य पीठस्य बन्धनं कुरु ॥ ३० ॥
तावत्प्रतिदिनं कुर्याच्छान्तिहोमं विशेषतः
रिपुणा सङ्गृहीहितञ्चेत् लिङ्गं वा प्रतिमान्तु वा ॥ ३१ ॥
तद्राष्ट्रदाशनं प्रोक्तं भूपतेश्च विनाशनम्
बालालयं प्रकर्तव्यमेकाब्दस्यैव चोत्तरे ॥ ३२ ॥
यानेनैव गृहीत्वा तं स्थापयेत्पूर्वदेशके
एकाब्दे च तथालब्धे लिङ्गं वा प्रतिमान्तु वा ॥ ३३ ॥
तदूर्द्ध्वेन्यम्परिग्राह्य स्थापयेत्पूर्वदेशके
लिङ्गं वा प्रतिमां वापि ततो विच्छेदने कृते ॥ ३४ ॥
कृत्वा शीघ्रन्तदाकारं सर्वलक्षणसंयुतम्
कुर्यात् संस्थापनञ्चैव मासपक्षादिभिर्विना ॥ ३५ ॥
[[७५७]]
अष्टबन्धविहीने तु लोके तु जलवर्जितम्
ततोष्टबन्धनं कुर्यात् तैलङ्गौलञ्च गैरिकम् ॥ ३६ ॥
गुग्गुलं सिकतं सिद्धं शज्जं लाक्षा तथैव च
व्योमपक्षाग्नि ऋक्बाणा रसमन्यत्रिभागिकाः ॥ ३७ ॥
तैलात्प्रोक्तं क्रमात् भागात् एवञ्चिक्कणवद्भवेत्
पक्वाष्टबन्धनं ह्येवं विवरे तस्य योजयेत् ॥ ३८ ॥
स्नपनं कारयित्वा तु पूजयेत्तु विशेषतः
सुधा कर्मविहीने च स्थलकर्मविहीनके ॥ ३९ ॥
प्रवर्तते महामारी पुनस्सन्धानमाचरेत्
पुण्याहं वाचयेत्पश्चात् गव्यैरेवाभिषेचयेत् ॥ ४० ॥
शूलञ्च पतिते चैव चलिते चाङ्गहीनके
भग्ने च वर्णहीने च चर्मच्छेदे विवर्णके ॥ ४१ ॥
पीठबन्धनहीने च ग्रामनाशं विनिर्दिशेत्
पतिते चलिते चैव बालस्थानन्तु कारयेत् ॥ ४२ ॥
शूलञ्च स्थापयेत्पश्चात्पूर्वोक्तविधिना सह
बेरन्तु विधिवत्कृत्वा सम्प्रोक्षणमथाचरेत् ॥ ४३ ॥
अङ्गोपाङ्गञ्च प्रत्यङ्गं शरीराङ्गं तदुच्यते
अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डमिहोच्यते ॥ ४४ ॥
वक्षो दण्डकटीदण्डबाहुकूर्परकोष्ठकम्
ऊरूश्च जानुजङ्घे च उपाङ्गमिति कीर्तितम् ॥ ४५ ॥
शेषाणि च विजानीयात्प्रत्यङ्गमिति बुद्धिमान्
ब्रह्मदण्डविहीनञ्चेच्छूलस्थापनमारभेत् ॥ ४६ ॥
प्रत्यङ्गोपाङ्गहीनञ्चेत्पुनस्सन्धानकं कुरु
भवने चाग्निदग्धे च पापकेन भयं भवेत् ॥ ४७ ॥
व्यपोह्यङ्गाटकान् सर्वान्पश्चाद्बन्धनमाचरेत्
पुण्याहं वाचयित्वा तु शान्तिहोमन्तु कारयेत् ॥ ४८ ॥
[[७५८]]
दग्धे च प्रतिमालिङ्गे राज्ञो मरणमादिशेत्
वह्निना स्फुटिते भिन्ने लिङ्गे वा प्रतिमादिके ॥ ४९ ॥
जीर्णोद्धारविधानोक्तमार्गेणैव समुद्धरेत्
वह्निना दूषितं बिम्बं कुर्यात्तेनैव वर्त्मना ॥ ५० ॥
तत्प्रमाणेन तद्रूपं कारयेत्तु विशेषतः
पूर्वोक्तविधिना धीमान्प्रतिष्ठां कारयेत्ततः ॥ ५१ ॥
प्रत्यङ्गोपाङ्गहीने च वस्त्राभरणहीनके
पुनस्सन्धानकं कृत्वा पूर्वोक्तेनैवमार्गतः ॥ ५२ ॥
तत्तन्मन्त्रेण मतिमान्सर्पिषा चरुणा ततः
मधुना जुहुयाद्धीमान्प्रत्येकन्तु शतं क्रमात् ॥ ५३ ॥
पुष्पहीनन्तु गन्धाद्यैः पुण्याहं वाचयेत्ततः
बलिपीठविहीने च गोनाशं भवति ध्रुवम् ॥ ५४ ॥
पूर्ववत्कल्पयेत्पीठं स्थापयेद्विधिना ततः
स्नपनं कारयेच्छम्भोः पूजयेत्तु विशेषतः ॥ ५५ ॥
कुक्कुरैः कुक्कुटैश्चैव खरसूकरवानरैः
स्पर्शितं लिङ्गबिम्बे च प्रविष्टे गर्भगेहके ॥ ५६ ॥
प्रवर्तते महामारी तद्ग्रामञ्च विनश्यति
मृद्भाण्डानि विसृज्याथ स्थानशुद्धिं ततः कुरु ॥ ५७ ॥
गोमयालेपनं कृत्वा प्रोक्षयेत्पञ्चगव्यकैः
स्नपनं कारयित्वा तु शान्तिहोमन्ततः कुरु ॥ ५८ ॥
लिङ्गं वा प्रतिमां पृष्ठे ऋतुस्त्रीभेकतस्करैः
गर्भगेहप्रविष्टे वा जनानां नाशनं भवेत् ॥ ५९ ॥
मृद्भाण्डानि विसृज्याथ गोमयेनोपलेपयेत्
पर्यग्निकरणं कृत्वा पुण्याहं वाचयेत्ततः ॥ ६० ॥
स्नपनं कारयेत्पश्चात् बिल्वपत्रेण घर्षयेत्
मूर्तिहोमन्ततः कृत्वा ब्राह्मणान्भोजयेत्ततः ॥ ६१ ॥
[[७५९]]
अन्तर्मण्डलशालादिरभिस्पृष्टे विशेषतः
सम्प्रोक्ष्य पञ्चगव्येन पुण्याहं वाचयेत्ततः ॥ ६२ ॥
स्पृष्टे सूतिकया बिम्बे गर्भगेहे प्रविष्टके
दुर्भिक्षञ्जायते लोके बालानानाशनं भवेत् ॥ ६३ ॥
मृद्भाण्डानि विसृज्याथ गोमयेनानुलेपयेत्
पर्यग्निकरणं कृत्वा ब्राह्मणान्भोजयेत्ततः ॥ ६४ ॥
मूर्तिहोमन्ततः कृत्वा शस्त्रेणैव शतञ्जपेत्
ब्राह्मणान्भोजयेत्तत्र सावित्रीञ्च शतञ्जपेत् ॥ ६५ ॥
प्रेतकैः स्पर्शने चैव प्रविष्टे गर्भगेहकम्
पुत्रपौत्रविनाशं स्यात्तत् ग्रामञ्च विनश्यति ॥ ६६ ॥
वर्जयेदत्रमृत्पात्रं गोमयेनोपलेपयेत्
पञ्चगव्येन सम्प्रोक्ष्य पवमानमुदीरयन् ॥ ६७ ॥
पञ्चशुद्धिक्रमं कृत्वा स्नपनं कारयेद्बुधः
शान्तिहोमन्ततः कृत्वा मूलेनैव शतं हुनेत् ॥ ६८ ॥
ब्राह्मणान्भोजयेत्तत्र पुण्याहं वाचयेत्ततः
अन्तर्मण्डलशालादीन्प्रविशेदविचारतः ॥ ६९ ॥
पुण्याहं वाचयित्वा तु शान्तिहोमन्तु कारयेत्
चोरैश्च पातकैश्चैव हीनयोनिनिषेवकैः ॥ ७० ॥
गुरुनिन्दापरैर्मूर्खैः पतितैः पापरोगिभिः
गर्भगेहे प्रविष्टे च स्पृष्टे लिङ्गे तथापि च ॥ ७१ ॥
परचक्रात् भयं राज्ञो महामारी प्रवर्तते
उद्वास्य मृण्मयं पात्रं गोमयेनानुलेपयेत् ॥ ७२ ॥
पर्यग्निकरणं कृत्वा पुनः पुण्याहमाचरेत्
लिङ्गं प्रक्षाल्यशुद्धोदैः पीठञ्चैव स्थलं क्रमात् ॥ ७३ ॥
तुलसी पत्रबिल्वैश्च घर्षयेदस्त्रमन्त्रतः
जलसम्प्रोक्षणं कुर्यात्प्रागुक्तविधिना सह ॥ ७४ ॥
[[७६०]]
स्पर्शिते चानुलोमैश्च लिङ्गं वा कौतुकन्तु वा
सस्यानान्नाशनं विद्धि पुण्याहं वाचयेत्ततः ॥ ७५ ॥
स्नपनं कारयित्वा तु पूजयेत्तु विशेषतः
प्रतिलोमैरथ स्पृष्टे लिङ्गञ्च प्रतिमान्तु वा ॥ ७६ ॥
प्रविष्टे गर्भगेहे तु ह्यनावृष्टिर्न संशयः
तन्मण्डलाधिपो भूपो ग्रामोराज्यञ्च नश्यति ॥ ७७ ॥
पञ्चशुद्धिक्रमं कृत्वा मृत्पात्राणि विसर्जयेत्
गोमयालेपनं कृत्वा पर्यग्निकरणं कुरु ॥ ७८ ॥
पुण्याहं वाचयित्वा तु स्नपनं कारयेद्विभोः
मूर्तिहोमं ततः कृत्वा सम्प्रोक्षणमथाचरेत् ॥ ७९ ॥
विलोमैस्सङ्करैरन्यैस्स्पृष्टे लिङ्गे च पीठके
प्रविष्टे गर्भगेहे वा महामारीप्रकोपनम् ॥ ८० ॥
धावत्येवनृपोऽन्यत्र राष्ट्रञ्चापि विनश्यति
मृद्भाण्डानि विसृज्याथ पञ्चशुद्धिक्रमाद्यजेत् ॥ ८१ ॥
गोमयेनोपलिप्याथ पुण्याहं वाचयेत्क्रमात्
स्नपनं कारयेत्तत्र मूर्तिहोमं ततः कुरु ॥ ८२ ॥
प्रागुदीरितमार्गेण सम्प्रोक्षणमथाचरेत्
लिङ्गे च प्रतिमायां वा गर्भागारे मलेन तु ॥ ८३ ॥
व्याप्ते सत्येव नृपतेस्सद्योमरणमादिशेत्
गोनाशं सस्यनाशञ्च प्रजानाशं न संशयः ॥ ८४ ॥
अतः कृत्वा पञ्चशुद्धिं पुण्याहप्रोक्षणं कुरु
मूर्तिहोमं ततः कृत्वा शोधयेन्मलवर्जितम् ॥ ८५ ॥
शुद्धोदैरभिषिच्याथ बिल्वपत्रैस्तु घर्षयेत्
प्रमृज्य शुष्कवस्त्रेण प्रतिमालिङ्गयोस्तु वा ॥ ८६ ॥
प्राकाराभ्यन्तरे गेहे मृतिर्जाते नरस्य तु
प्रवर्तते महामारी पुत्रपौत्रविनाशकृत् ॥ ८७ ॥
[[७६१]]
हस्तमात्रेण तद्देशं खातयित्वा विशेषतह्
तत्पांसूंश्च परित्यज्य पूरयेच्छुद्धवालुकाम् ॥ ८८ ॥
सम्मार्जनं ततः कृत्वा गव्येन प्रोक्षणं कुरु
पुण्याहं वाचयित्वाथ ब्रांहणान् भोजयेत्ततः ॥ ८९ ॥
मूर्तिहोमं ततः कृत्वा सम्प्रोक्षणमथाचरेत्
तिर्यक् जातेर्मृतेनैव वाहनानां भयं भवेत् ॥ ९० ॥
पूर्ववत्प्रोक्षणं तत्र पुण्याहं वाचयेत्ततः
पञ्चगव्येन सम्प्रोक्ष्य पवमानमुदीरयन् ॥ ९१ ॥
मूर्तिहोमं ततः कृत्वा स्नपनं कारयेत्प्रभोः
विशेषपूजनं कृत्वा ब्रांहणान्भोजयेत्ततः ॥ ९२ ॥
स्थानभ्रंशो भवेद्राज्ञो नित्यपूजा विहीनके
तस्यां सन्ध्यां विहीनायां द्विगुणञ्चान्यसन्धिके ॥ ९३ ॥
सन्धिद्वयार्चना हीने शान्तिहोमन्तु कारयेत्
पक्षहीने दिशाहोमं स्नपनं तत्र कारयेत् ॥ ९४ ॥
पञ्चाहे स्नपनं कुर्यात् मूर्तिहोमन्तु कारयेत्
सन्धित्रयविहीने च कुर्यात् गव्याभिषेचनम् ॥ ९५ ॥
अहोरात्रविहीने तु स्नपनं शान्तिहोमयुक्
मासादूर्ध्वविहीने तु जलसम्प्रोक्षणं कुरु ॥ ९६ ॥
नित्यहोमविहीनं स्यादनावृष्टिर्भविष्यति
एकसन्धिविहीने तु हुत्वा पाशुपतं शतम् ॥ ९७ ॥
सन्धिद्वयविहीने तु मूलेनैव शतं हुनेत्
सन्धित्रयविहीने च घोरेण जुहुयाच्छतम् ॥ ९८ ॥
तथा त्रियम्बकेणैव शेषं पूर्ववदाचरेत्
एकाहं होमहीने च पञ्चब्रंहषडङ्गकैः ॥ ९९ ॥
अष्टोत्तरशतं हुत्वा मन्त्रैरेतैः पृथक्पृथक्
विहीने चैव पञ्चाहे स्नपनं कारयेत्ततः १००
[[७६२]]
मूलेनैव शतं हुत्वा शतद्वयं शतञ्जपेत्
दशाहे तु विहीने च पञ्चाग्निमाकलय्य च १०१
तत्र होमो विधातव्यः प्रत्येकन्तु शतं क्रमात्
ततः पाशुपतेनैव जपेत्पञ्चाशतं परम् १०२
पक्षहोमविहीने तु मुुर्तिहोमन्तु कारयेत्
स्नपनं कारयेदन्ते शस्त्रं पञ्च शतञ्जपेत् १०३
मासहोमविहीने तु पञ्चब्रह्मषडङ्गकैः
क्षुरिकाबीजमुख्यैश्च मन्त्रैश्चैव दशाक्षरैः १०४
प्रत्येकन्तु शतं हुत्वा मूलमन्त्रं शतञ्जपेत्
स्नपनं कारयेत्पश्चात्पूजयित्वा विशेषतः १०५
मासादूर्द्ध्वविहीने तु दिशाहोमन्तु कारयेत्
कृत्वा स्नपनमभ्यर्च्य प्रभूतन्तु हविर्ददेत् १०६
उपसन्धिविहीने च प्राणीनान्नाशनं भवेत्
मूर्तिहोमन्ततः कृत्वा स्नपनैरभिषेचयेत् १०७
सायरक्षाविहीने च बालानान्नाशनं भवेत्
स्नापयेत्पञ्चगव्येन ह्यर्चनोक्तं समाचरेत् १०८
मूलमन्त्रं शतञ्जप्त्वा द्विगुणान्तं समर्चयेत्
नीराञ्जनविहीने तु क्षुद्बाधाग्रामवासिनाम् १०९
लिङ्गं वा प्रतिमां वापि स्नापयेत्पञ्चगव्यकैः
अर्चनोक्तं समभ्यर्च्य पुण्याहं वाचयेत्ततः ११०
शिवमन्त्रं शतञ्जप्त्वा पश्चान्नीराञ्जनं कुरु
द्वारपूजा विहीने च सस्यानान्नाशनं भवेत् १११
द्वारस्थदेवतानाञ्च मन्त्रेणैव शतं जपेत्
गन्धपुष्पादिभिश्चैव पूर्ववत्सम्प्रपूजयेत् ११२
नित्योत्सवविहीने तु धान्यनाशं भवेद्ध्रुवम्
सन्ध्यैकेन विहीने तु स्नापयेत्पञ्चगव्यकैः ११३
[[७६३]]
मूलमन्त्रं शतञ्जप्त्वा चोत्सवं पूर्ववत्कुरु
सन्धिद्वयविहीने तु शान्तिद्वयञ्जपेत् गुरुः ११४
एकाहोत्सवहीने च स्नपनं कारयेत्प्रभोः
पञ्चाहे चोत्सवे हीने मूलेनैव शतं हुनेत् ११५
स्नपनं कारयेच्छम्भोः पूजयेद्विधिपूर्वकम्
दशाहे स्नपनं कुर्याच्छान्तिहोमन्तु कारयेत् ११६
पक्षाहे चोत्सवे हीने मूर्तिहोमन्तु कारयेत्
स्नपनं कारयेच्छम्भोः पूजयित्वा विधानतः ११७
मासे नित्योत्सवे हीने विद्याङ्गैः ब्रंहपञ्चकैः
मासादूर्द्ध्वविहीने तु दिशाहोमन्तु कारयेत् ११८
कृत्वा सम्पूज्यदेवेशं मूलेनैव शतञ्जपेत्
षण्मासाद्वत्सरान्तं वा नीत्योत्सवविहीनकम् ११९
चोरबाधा भवेल्लोके दुर्भिक्षं स्यात्प्रजापते
षडङ्गैर्बीजमुख्यैश्च शिवार्णैश्च दशाक्षरैः १२०
प्रत्येकं त्रिशतं हुत्वा मूलेनैव शतं हुनेत्
तत्सङ्ख्यातैर्जपं कुर्यात्स्नपनं कारयेद्विभोः १२१
अष्टोत्तरशतैः कुम्भैस्सहस्रकलशैर्यजेत्
एकाहे सौख्यहीने तु षोडशस्नपनन्नयेत् १२२
सन्धिद्वयविहीने तु शान्तिहोमञ्च कारयेत्
पञ्चाहे स्नपनं कुर्याच्छान्तिहोमपुरस्सरम् १२३
दशाहे च विहीने तु स्नपनं मूर्तिहोमयुक्
पक्षाहे च विहीने च स्नपनं मूर्तिहोमकम् १२४
एकमासविहीने च पञ्चब्रंहषडङ्गकैः
त्रियम्बकेन मन्त्रेण मूलेनैव तु देशिकः १२५
प्रत्येकं त्रिशतं हुत्वा तत्सौख्यादेर्जपं कुरु
स्नपनन्तु ततः कृत्वा प्रभूतहविषन्ददेत् १२६
[[७६४]]
गेयवंशविहीने तु तालवाद्यविहीनके
सस्यानान्नाशनं प्रोक्तं सन्ध्यैके तु विहीनके १२७
पूजयेद्देवदेवेशं गव्यैरेवाभिषेचयेत्
गन्धद्रव्यविहीने च द्रोणं क्षीराभिषेचनम् १२८
सन्धित्रयविहीने च शान्तिहोमञ्च कारयेत्
अहोरात्रविहीने च शान्तिहोमं समाचरेत् १२९
स्नपनं कारयेच्छम्भोः पूजयेत्तु विशेषतः
सौख्यदीपविहीने च क्षुद्भयं ग्रामवासिनाम् १३०
आरोप्य द्विगुणन्दीपमघोरेण शतञ्जपेत्
गणिकानृत्तकाले तु पतिता चेद्विशेषतः १३१
राजादुर्जयमाप्नोति शान्तिहोमन्ततः कुरु
पूजयेद्देवदेवेशमर्चनोक्तन्तु देशिकः १३२
सौख्यश्लोकविहीने तु बधिरत्वं प्रवर्त्तते
सन्ध्यैका श्लोकहीने तु शिवक्षीराभिषेचनम् १३३
सन्धिद्वयविहीने च कुर्यात् गव्याभिषेचनम्
एकाहे श्लोकहीने च द्रोणक्षीराभिषेचनम् १३४
पञ्चाहे शान्तिहोमञ्च दशाहे स्नपनं कुरु
मासार्द्धे तु विहीने च मधुनास्नापयेच्छिवम् १३५
मासैकेन विहीने तु मूर्तिहोमञ्च कारयेत्
मासादूर्द्ध्वविहीने च कारयेच्छान्तिहोमकम् १३६
स्नपनं कल्पयित्वाथ प्रागुक्तेन समाचरेत्
जलद्रव्यविहीने तु दाराणान्नाशनं भवेत् १३७
अघोरेण शतञ्जप्त्वा तद्द्रव्यं द्विगुणन्ददेत्
पुष्पार्घ्यधूपहीने चाप्यनावृष्टिर्भविष्यति १३८
मूलमन्त्रं शतञ्जप्त्वा तद्द्रव्यं द्विगुणन्ददेत्
धूपार्घ्यपाद्याचमनद्रव्ये चैव विहीनके १३९
[[७६५]]
अक्षिरोगाणि जायन्ते ततस्तत्द्विगुणन्ददेत्
विशेषार्घ्यादिहीने च सर्पेणैव भयं भवेत् १४०
विशेषार्घ्यादिद्रव्येषु हीनेषु क्षुद्भयं भवेत्
अर्घ्यादिपात्रहीनेषु परचक्रात् भयं भवेत् १४१
उक्तलक्षणहीने च नृपाणाञ्च क्षयं भवेत्
खट्गेन द्विशतं हुत्वा द्विगुणन्दापयेद्विभोः १४२
पात्रं सलक्षणं कृत्वा पूर्ववत्स्थापयेत्क्रमात्
हीने निर्वाणदीपन्तु लोकोन्मत्तं समाचरेत् १४३
एकाहे तु विहीनं स्यात् द्विगुणं रोपयेत्ततः
पञ्चाहे शान्तिहोमञ्च दशाहे स्नपनं कुरु १४४
अर्द्धमासे विहीने च स्नपनं शान्तिहोमयुक्
एकमासे विहीने च दुर्भिक्षञ्जायते ध्रुवम् १४५
स्नपनम्मूर्त्तिहोमञ्च कारयेत्तु विशेषतः
मासादूर्द्ध्वविहीने च शान्तिहोमन्तु कारयेत् १४६
पवमानञ्जपित्वाथ मूलेन त्रिशतञ्जपेत्
स्नपनं कारयित्वाथ विधिना पूजयेच्छिवम् १४७
सन्ध्यादीपविहीने तु द्विगुणं रोपयेत्ततः
व्यतिक्रमेण मन्त्राणां तत्सर्वं निष्फलं भवेत् १४८
शान्तिहोमन्ततः कृत्वा मूलमन्त्रं शतञ्जपेत्
निवेद्ये दीपहीने च दुर्भिक्षञ्जायते ध्रुवम् १४९
एकसन्न्या विहीने च तद्दीपं द्विगुणं भवेत्
सन्धिद्वयविहीने च कुर्यात् गव्याभिषेचनम् १५०
सन्धित्रयविहीने च शान्तिहोमञ्च कारयेत्
अहोरात्रविहीने च स्नपनं कारयेत्ततः १५१
पञ्चाहे स्नपनं कुर्यात्कारयेच्छान्तिहोमकम्
दशाहे स्नपनं गव्यं मूर्तिहोमन्तु कारयेत् १५२
[[७६६]]
एकमासविहीने तु दिशाहोमन्तु कारयेत्
स्नपनं कारयेच्छम्भोः पूजयेत्तु विशेषतः १५३
मासादूर्ध्वविहीने तु जलसम्प्रोक्षणं कुरु
पूर्वे च निश्चितं द्रव्यं यावत्कालं विहीनके १५४
एकी कृत्य तु तद्द्रव्यं शिवाय विनिवेदयेत्
सन्ध्यातिक्रमणादेव ग्रामनाशं धनक्षयम् १५५
शान्तिहोमं ततः कृत्वा मूलन्तु द्विशतं जपेत्
नैवेद्योत्थापनेकाले लङ्घने च नरैर्द्विजैः १५६
सस्यानां नाशनं प्रोक्तं निर्माल्यञ्च तदाहृतम्
तद्द्रव्यं वर्जयित्वा तु मूलमन्त्रं शतं जपेत् १५७
पश्चात्पक्वं ब्रवीद्धीमान् शिवाय च निवेदयेत्
शर्कराकेशकीटादिनिखकम्बुतुषादयः १५८
निवेदिते तथान्नेन बधिरत्वं प्रवर्तते
नृपाणां नाशनं शीघ्रं स्नपनं मूर्तिहोमयुक् १५९
मूलेन त्रिशतं जप्त्वा पुनरन्नन्निवेदयेत्
नैवेद्ये च विहीने तु मूकत्वञ्च प्रवर्तते १६०
वर्षहीनं भवेल्लोके पञ्चाशत्कलशैर्यजेत्
मूलेन षट्शतं जप्त्वा प्रभूतहविषन्ददेत् १६१
उपदंशघृता पूपसूपहीनं निवेदिते
तत्ग्रामस्य क्षयं प्रोक्तं षोडशैः कलशैर्यजेत् १६२
अघोरं द्विशतं जप्त्वा सोपदंशं निवेदयेत्
उपचारविहीने च लोके चोन्मत्तमादिशेत् १६३
यष्ट्वा गव्यैश्च स्नपनं मूर्तिहोमं समाचरेत्
प्रागुक्तजलसङ्ख्याया हीने चोरभयं भवेत् १६४
दिशाहोमं ततः कृत्वा मूलं तत् द्विशतं जपेत्
द्विगुणैस्तु जलैर्देवं पूजयेत्तु विधानतः १६५
[[७६७]]
जलद्रोणी विहीने च तद्द्राष्ट्रं जलवर्जितम्
स्नपनं मूर्तिहोमञ्च कृत्वा द्रोणीं सलक्षणाम् १६६
मूलेन द्विशतञ्जप्त्वा पुनश्शुद्धं समाचरेत्
अभिषेकस्य पूर्वोक्तद्रव्यमानविहीनके १६७
प्रवर्तते त्वनावृष्टिस्तस्करैर्भयमादिशेत्
मूर्तिहोमं ततः कृत्वा स्नपनं कारयेत्ततः १६८
पुनर्यथोक्तमादाय द्विगुणं चाभिषेचयेत्
बिम्बस्य मार्जनार्त्थाय वस्त्रहीने तथैव च १६९
तत्तत्सन्धिषु पूर्वोक्तवस्त्रे चैव विहीनके
पूर्वोक्तगन्धपुष्पादि भूषामानविहीनके १७०
अनावृष्टिर्भवत्येवज्वरबाधाप्रवर्तते
दिशाहोमं ततः कृत्वा घोरेण त्रिशतं जपेत् १७१
यथोक्तवत्प्रमाणेन तानि तानि समर्पयेत्
आसनार्चनहीने च तथैवावरणार्चने १७२
आवाहनोद्वासने च भावनाद्ध्यानहीनके
मन्त्रपुष्पविहीने च मन्त्रान्ते च विहीनके १७३
पञ्चशुद्धिविहीने च मन्त्रहीने तथैव च
तत् ग्रामस्य क्षयं प्रोक्तं नृपतिस्त्वन्यथा भवेत् १७४
तद्दोषशमनार्त्थाय स्नपनं मूर्तिहोमकम्
अभिषिच्य च गव्येन द्विगुणञ्चार्चयेद्बुधः १७५
मुद्रादर्शनहीने च होमरत्नादियोजने
प्रच्छन्नपटहीने च घण्टारवविहीनके १७६
प्रवर्तते चाक्षिरोगं पूजानाशन्तथैव च
संहिता होममाकल्प्य शस्त्रन्तु द्विगुणञ्जपेत् १७७
सम्मार्जनप्रोक्षणे हीने शङ्खघोषविहीनके
गवाञ्च नाशनं विद्धि व्योमव्यापिशतञ्जपेत् १७८
[[७६८]]
लिङ्गप्रतिम–र्मूर्ध्नि पुष्पहीने विशेषतः
ज्वरमारी प्रवर्त्तते मूलमन्त्रं शतञ्जपेत् १७९
ईशानेन तु मन्त्रेण पुष्पं मूर्द्धनिदापयेत्
बलिदानविहीने च भयन्तत् ग्रामवासिनाम् १८०
शान्तिहोमन्ततः कृत्वा बलिदानं समाचरेत्
पलिपीठे विहीने च ग्रामनाशं धनक्षयम् १८१
पीठं सलक्षणं कृत्वा बलिं तत्र प्रदापयेत्
परिवारार्चने हीने प्रासादबलिहीनके १८२
द्वारे बलिविहीने तु वृषपीठार्चनादिके
वृषपूजा विहीने च प्रभूते बलिहीनके १८३
विघ्नेशपूजा हीने च सकलानान्तु पूजयेत्
दुर्भिक्षञ्जायते लोके ग्राम–विपवकारकम् १८४
स्नपनं कारयित्वाथ संहिता होममाचरेत्
द्विगुणं यजनं कृत्वा तथैव दापयेत् बलिम् १८५
एकाहबलिहीने च स्नपनं शान्तिहोमकम्
त्रयाहबलिहीने च संहिता होममाचरेत् १८६
पञ्चाहबलिहीने च शस्त्रेणैव शतं हुनेत्
दशाहबलिहीने च गव्यैर्यष्ट्वा शतं हुनेत् १८७
मासार्द्धं बलिहीने च क्षीरेणैवाभिषेचयेत्
स्नपनं कल्पयित्वाथ मूलेन त्रिशतञ्जपेत् १८८
एकमासविहीने तु मधुना स्नापयेद्विभुम्
स्नपनम्मूर्तिहोमञ्च कृत्वा तु द्विशतञ्जपेत् १८९
मासोर्द्ध्वे शान्तिरित्युक्तमष्टोत्तरशतं यजेत्
स्नपनाङ्गविहीने तु सस्यानान्नाशनं भवेत् १९०
तदप्रतिनिधिं ग्राह्य शस्त्रेणैव शतञ्जपेत्
पूजयित्वा विशेषेण द्रव्येणैवाभिषेचनम् १९१
[[७६९]]
साधितैः कलशैर्भिन्नैः पतितैः स्फुटिते —
स्नापयेत्पञ्चगव्यैश्च पूजयित्वा तु पूर्ववत् १९२
तन्मन्त्रेण शतञ्जप्त्वा पद्ममुद्रां प्रदर्शयेत्
पञ्चगव्यविहीने च यजनं द्रव्यहीनके १९३
कर्त्तुश्च नाशनं प्रोक्तं परचक्रात् भयं भवेत्
मूर्तिहोमन्तथा कृत्वा संस्नाप्य कलशोदकैः १९४
जप्त्वा तु द्विशतं पश्चात् गव्याद्यैरभिषेचयेत्
रङ्गवल्लिविहीने तु पुष्पालङ्कारहीनके १९५
वेदद्ध्वनि विहीने च स्तोत्रखेटकहीनके
ग्रामश्रीस्त्वन्यथा ज्ञेया बाधा स्यात् स्फोटकादिभिः १९६
गव्येन स्नाप्य देवेशं मूलार्णन्तशतञ्जपेत्
उपलेपविहीने च धामश्रीस्त्वन्यथा भवेत् १९७
संहिता होममाश्रित्य मूलेनैव शतञ्जपेत्
स्पृष्टे दीक्षान्तरैर्बिम्बे गर्भगेहे प्रविष्टके १९८
परचक्रात् भयं पूजौ राजादुर्जयमाप्नुयात्
पुण्याहं वाचयित्वाथ शान्तिहोमन्तु कारयेत् १९९
पञ्चशुद्धिक्रमं कृत्वा बिल्वपत्रैस्तु घर्षयेत्
नवनैवेद्य हीने च दुर्भिक्षञ्जायते भुवि २००
मूर्तिहोमन्ततः कृत्वा ब्रांहणान् भोययेत्ततः
अर्चनोक्तं समभ्यर्च्य प्रभूतहविषन्ददेत् २०१
पवित्रारोहणे हीने महामारी प्रवर्तते
दिशाहोमं ततः कृत्वा स्नपनं कारयेत्प्रभोः २०२
पवित्रा रोहणेनैव लब्ध्वा मासे तु बुद्धिमान्
कृत्तिकादीपहीने च त्वनावृष्टिर्भविष्यति २०३
दिशाहोमं ततः कृत्वा कारयेत्स्नपनं विभोः
अर्चनोक्तन्तु संयष्ट्वा प्रभूतहविषन्ददेत् २०४
[[७७०]]
लब्धमासेऽग्निनक्षत्रे कृत्तिकादीपमाचरेत्
—–तने यत्रराज्ञो राष्ट्रस्य दुष्कृतिः २०५
—-दापयित्वा तु मूर्तिहोमं समाचरेत्
—– त्रिशतं जप्त्वा शुधोदैरभिषेचयेत् २०६
तन्त्रसङ्करदोषेण राजाराष्ट्रं विनश्यति
सम्प्रोक्षणं ततः कृत्वा पुण्याहं पुनराचरेत् २०७
——–करो यत्र कर्तुर्ग्रामस्य नाशकृत्
दर्विहोमं ततः कृत्वा स्नपनं कारयेत्ततः २०८
पूर्वाचार्येण तत्सर्वं कर्तव्यं विधिपूर्वकम्
वस्त्राङ्गुलीय हेमाद्यैर्गोभूमीधनधान्यकैः २०९
आचार्यं पूजयेत्तत्र क्रियां प्रतिक्रियां प्रति
अनुक्तं यद्भवेत् किञ्चित् शान्तिहोमेन शाम्यति २१०
मन्त्रानुक्तं क्रियाणान्तु हृदयेनैव दापयेत्
अग्न्याधानादिकं सर्वं पूर्वोक्तविधिना कुरु २११
समिधं हृदयेनैव वामेनैव घृतं हुनेत्
चरुं हुनेदघोरेण प्रत्येकं षोडशं क्रमात् २१२
पञ्चब्रंहषडङ्गैश्च विद्याङ्गैश्च दशाक्षरैः
क्षुरिका बीजमुख्यैश्च प्रत्येकं षोडशं हुनेत् २१३
शान्तिहोममिति ख्यातं सर्वदोषनिकृन्तनम्
भवनस्य चतुर्दिक्षु कुण्डं वा स्थण्डिलन्तु वा २१४
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
वकुलं बिल्वमश्वत्थमर्कं पूर्वादिदिक्षु वै २१५
समिधं सद्यमन्त्रेण मूलेनाज्येन होमयेत्
अस्त्रेणैव चरुं हुत्वा सर्षपं कवचेन तु २१६
तिलमीशानमन्त्रेण प्रत्येकं षोडशं क्रमात्
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् २१७
[[७७१]]
पूर्णाहुतिञ्च शिरसा शेषं प्रागुक्तवत्कुरु
दिशाहोममिति ख्यातं सर्वकृत्रिमनाशनम् २१८
हर्म्याग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्तथा
शिवकुम्भं न्यसेन्मद्ध्ये वर्द्धनीं तस्य वामतः २१९
अष्टदिक्षु क्रमादष्टमूर्तिकुम्भांस्तु विन्न्यसेत्
ससूत्रान्सापिधानांश्च सवस्त्रोदकपूरितान् २२०
सकूर्चान्पल्लवोपेतान् हेमरन्नादिगर्भितान्
मातुलङ्गफलोपेतान् हृदयेनैव विन्यसेत् २२१
कुम्भे सदाशिवं पूज्य वर्द्धन्यान्तु मनोन्मनीम्
भवादीनां स्वस्वबीजैर्न्यस्त्वा कुम्भेषु संयजेत् २२२
तस्याग्रे स्थण्डिलं कृत्वा निर्दोषैस्सिकतैस्सितैः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् २२३
समिधं सद्यमन्त्रेण मूलेनाज्यन्तु होमयेत्
चरुमीशानमन्त्रेण प्रत्येकं षोडशं हुनेत् २२४
मूलेनैव तु मन्त्रेण जुहुयाद्देशिकोत्तमः
जुहुयान्मूर्तिमन्त्रेण प्रत्येकन्तु शताहुतिः २२५
पूर्णाहुतिन्तु शिरसा प्रायश्चित्तान्तकं हुनेत्
मूर्तिहोममिति ख्यातं सर्वदोषनिवारणम् २२६
भोगाङ्गे च विहीने तु स्त्रीणां नाशं भविष्यति
भोगालयं प्रकल्प्याथ पूर्ववत्पूजयेत्क्रमात् २२७
मूर्तिहोमं तथा कृत्वा घोरेण द्विशतञ्जपेत्
शय्यागारे तु पर्यङ्कदीपमाला विहीनके २२८
शर्करादुग्धताम्बूलफलपुष्पविहीनके
सूपापूपोपदंशाज्य युक्तेनैवेद्यवर्जिते २२९
दुकूलभूषणे हीने चोपधने तथैव च
प्रजानां नाशनं सद्यो सौख्यहानिर्भवेन्नृणाम् २३०
[[७७२]]
मूर्तिहोमन्तथा कृत्वा गव्येनैवाभिषेचयेत्
ततस्सर्वोपचाराणि कल्पयेद्देशिकोत्तमः २३१
क्षेत्रपालार्चने हीने चोरबाधाभवेन्नृणाम्
स्नपनं कल्पयित्वाथ कृत्वा तु संहिता हुतिम् २३२
परेद्युर्द्विगुणञ्चैव कल्पयेद्देशिकोत्तमः
चण्डेशाराधने हीने सर्वेषाञ्च क्षयं भवेत् २३३
चण्डहोमन्ततः कृत्वा जप्त्वा तु द्विशतं हुनेत्
निर्माल्य पुष्पस्रक् गन्धवस्त्रादौ तु विहीनके २३४
वाहनानां क्षयं प्रोक्तन्तस्यामूलेन होमयेत्
शतञ्जप्त्वा विधानोक्तं द्विगुणन्दापयेत्ततः २३५
मद्ध्यवास्तौ महावास्तौ उपवास्तौ मृते यदि
परित्यज्यशवं शीघ्रमर्चनं कारयेत् बुधः २३६
कालातिक्रमणे प्राप्ते शान्तिहोमन्तु कारयेत्
शिवार्णं द्विशतञ्जप्त्वा विशेषात् द्विशतं कुरु २३७
हर्म्येकादशयष्ट्यन्ते मृयते ब्रह्मवास्तुना
तिरो हितो न दोषोस्ति प–जां कुर्याद्विधानतः २३८
क्षामे चैव महावाते परराजभयादिके
अतिवृष्टौ च सङ्ग्रामे मृतिदोषो न विद्यते २३९
यजनं वाद्यनिश्शब्दं प्रकूर्वीतविचक्षणः
धाम्नोर्द्वादशदण्डान्ते वास्तुमद्ध्ये मृतिर्यदि २४०
परित्यज्यशवं शीघ्रन्नित्यनैमित्तिकञ्चरेत्
ग्रामे प्रेतं बहिः कृत्वा शिवपूजां समाचरेत् २४१
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमप्नुयात्
इहैव धनवान् श्रीमान् पुत्रपौत्रयुतस्सुखी २४२
उत्सवप्रायश्चित्तविधिपटलप्रारम्भः
[[७७३]]
प्रायश्चित्तविधिं वक्ष्ये उत्सवस्य विशेषतः
वृषयागविहीने तु ध्वजारोहणहीनके ॥ १ ॥
ध्वजलक्षणहीने तु दण्डमानविहीनके
दण्डमानविहीने तु ध्वजवेदिविहीनके ॥ २ ॥
दण्डच्छेदे रथच्छेदे रज्जुच्छेदे पतद्ध्वजे
ध्वजघण्टाविहीनायां पतितायां क्षितौ त्वसौ ॥ ३ ॥
भेरीताडनहीने च घोषकाले तथैव च
घोणेच्छदे तु पतिते छिन्ने भेर्याजिनेऽपि च ॥ ४ ॥
यागशालाविहीने तु कुण्डवेदीविहीनके
वेद्यास्थण्डिलहीने तु यागशालाग्निदग्धके ॥ ५ ॥
वितानध्वजहीने च तोरणं स्रुक्स्रुवे तथा
दर्भमालाविहीने च होमद्रव्य विहीनके ॥ ६ ॥
दिव्यायुधविहीने च अष्टमङ्गलहीनके
अङ्कुरार्पणहीने च अस्त्रयागविहीनके ॥ ७ ॥
कलशस्थापने हीने कुम्भबिम्बे च निर्जले
रत्नहेमविहीने तु सूत्रवेष्टविहीनके ॥ ८ ॥
कूर्चापिधानहीने च वस्त्रहीने तथैव च
नैवेद्यादिविहीने च यागदीपविहीनके ॥ ९ ॥
कुण्डेष्वग्निविहीने तु प्राणीता च विहीनके
मन्त्रहीने क्रिया हीने दर्भापरिधिहीनके ॥ १० ॥
बलिद्रव्यविहीने च बलिदानविहीनके
बलिभ्रमणकालेषु बलिलिङ्गविहीनके ॥ ११ ॥
तद्भिन्ने पतिते भग्ने शूलादिपतितेऽपि च
बलिपात्रविहीने च बलितालविहीनके ॥ १२ ॥
बलिदीपविहीने तु कालाति क्रमणेऽपि च
उत्सवे यागहीने च तत्काले कलहेऽपि च ॥ १३ ॥
[[७७४]]
पूजापर्युषितद्रव्यैस्संस्कारे लिङ्गबिम्बयोः
प्रतिमायानकाले तु पतिते चाङ्गहीनके ॥ १४ ॥
दीक्षाहीने तथा शूद्रे प्रतिमास्पर्शनेऽपि च
तैरेव यागशालान्तस्पृष्टेशुना तथैव च ॥ १५ ॥
उत्सवे चैव तत् ग्रामे मृते चैव मनुष्यकाः
परिवेष्टविहीने च नीराजनविहीनके ॥ १६ ॥
प्रवादयोनिदग्धे च युद्धारम्भविहीनके
रक्षासूत्रे विहीने तु कौतुकस्नानहीनके ॥ १७ ॥
चूर्णोत्सवविहीने च तीर्त्थकर्मविहीनके
वेद्यास्थापितकुम्भैश्च अभिषेकविहीनके ॥ १८ ॥
ध्वजावरोहणे हीने शुद्धस्नानविहीनके
दिनाह्निके तथान्यूने उत्सवञ्चान्यकालके ॥ १९ ॥
पीठो द्वासनहीने च चण्डयागविहीनके
आरम्भाद्यन्यतन्त्रेण शिवयागं कृते सति ॥ २० ॥
मन्त्राणां सङ्करञ्चैव हीने त्वाचर्यदक्षिणे
ग्रामकर्तृनृपाणाञ्च लग्नर्क्षवृतकूलके ॥ २१ ॥
एवमादिसमुत्पन्ने निष्कृतिञ्च विधीयते
वृषयागविहीने तु गावो नश्यन्त्यसंशयः ॥ २२ ॥
वृषभस्नपनं कृत्वा गन्धपुष्पादिभिर्यजेत्
निवेदयेत्तु मुद्गान्नं शन्तिहोमन्तु कारयेत् ॥ २३ ॥
वृषयागं ततः कुर्यात्प्रागुक्तविधिना सह
ध्वजारोहणहीने तु ध्वजलक्षणहीनके ॥ २४ ॥
राजादुर्जयमाप्नोति राष्ट्रक्षोभं भविष्यति
शान्तिहोमन्ततः कृत्वा तद्दोषस्यापनुत्तये ॥ २५ ॥
ध्वजं सलक्षणं कृत्वा विधिना रोपयेत्ततः
ध्वजदण्डादिके हीने ध्वजवेदिविहीनके ॥ २६ ॥
[[७७५]]
परचक्रात् भयं भूमौ शिल्पिनं हन्तिदेशिकम्
पुनस्सलक्षणं दण्डं स्थाप्य शान्तिद्वयं जपेत् ॥ २७ ॥
सर्वलक्षणं युक्तां वेदिं सङ्कल्प्य पूजयेत्
ध्वजदण्डन्तु विच्छिन्ने परनृपात् भयं भवेत् ॥ २८ ॥
शान्तिहोमं ततः कृत्वा पुनस्सन्धानमाचरेत्
रज्जुच्छेदे ध्वजच्छिन्ने नष्टे च पतिते तथा ॥ २९ ॥
ध्वजयष्टिविहीने च ध्वजवेत्र विहीनके
प्रवर्तते महामारी पुण्याहं वाचयेत्ततः ॥ ३० ॥
शान्तिहोमं ततः कृत्वा पुनस्सन्धानमाचरेत्
घण्टाहीने च पतिते बालानाञ्च क्षयं भवेत् ॥ ३१ ॥
पुण्याहं वाचयित्वा तु मूलेनैव शतं जपेत्
घण्टां मन्त्रेण सम्प्रोक्ष्य पुनस्सन्धानमाचरेत् ॥ ३२ ॥
भेरी ताडनहीने तु बधिरत्वं प्रवर्तते
स्नपनं कारयेच्छम्भोः भेरीन्तु ताडयेत्ततः ॥ ३३ ॥
घोषकाले तथा घोषे छेदे च पतितेऽपि च
चर्मच्छेदविशेषेण सस्य नाशं विनिर्दिशेत् ॥ ३४ ॥
मतिमन्त्रमनुस्मृत्य हुत्वा जप्त्वा शतन्ततः
नवमन्न्ये परिग्राह्य विधिना ताडयेत्सुधीः ॥ ३५ ॥
यागशाला विहीने तु कुण्डवेदिविहीनके
एतेषां लक्षणैर्युक्तैस्तत् ग्रामस्य क्षयं भवेत् ॥ ३६ ॥
प्रमाणेन पुनः कुर्यात्पुण्याहं वाचयेत्ततः
शान्तिहोमन्ततः कृत्वा तत्तत्कर्मसमापयेत् ॥ ३७ ॥
वेद्यास्थण्डिलहीने च सस्यनाशं न संशयः
पञ्चगव्येन सम्प्रोक्ष्य मूलं मत्रशतञ्जपेत् ॥ ३८ ॥
विधिना स्थण्डिलं कृत्वा तत्रैव स्थापयेद्धटान्
यागशालाग्निना दग्धस्थापितन्तु घटस्तथा ॥ ३९ ॥
[[७७६]]
परचक्रात् भयं भूमौ राजामरणमाप्नुयात्
तान्विसृज्याथ सर्वांश्च पुनस्सन्धानमाचरेत् ॥ ४० ॥
पुनरुत्सवमारभ्य तद्दिनादिविशेषतः
केवलं यागशालाग्निदग्धे च पूर्ववत्कुरु ॥ ४१ ॥
पुण्याहं वाचयित्वाथ शान्तिहोमं समाचरेत्
स्नपनं कारयेच्छम्भोः पूजयेत्तु विशेषतः ॥ ४२ ॥
वितानद्ध्वजहीने च तोरणार्च्चविहीनके
राष्ट्रन्नश्यति कल्याणि महामारी प्रवर्तते ॥ ४३ ॥
पूर्वोक्तविधिना कुर्याच्छान्तिहोमन्तु कारयेत्
स्रुक्स्रुवौ च विहीने च एता वै लक्षणैर्युतम् ॥ ४४ ॥
ज्वरमारी प्रवर्त्तन्ते नित्यं ग्रामविनाशनम्
शान्तिहोमन्ततः कृत्वा कारयेल्लक्षणान्वितम् ॥ ४५ ॥
दर्भमाला विहीने च अस्त्रबाधा करं नृणाम्
मूलमन्त्रशतञ्जप्त्वा दर्भमालान्तु योजयेत् ॥ ४६ ॥
होमद्रव्य विहीने च अनावृष्टिर्न संशयः
अस्त्रेणैव शतं हुत्वा महाव्याहृतिकन्तथा ॥ ४७ ॥
तत् द्रव्यं होमयेद्धीमान् पूर्वोक्तविधिना सह
आयुधाश्च विहीने च तस्करात्तु भयं भवेत् ॥ ४८ ॥
दशाक्षरेण मन्त्रेण होमयेच्छतसङ्ख्यया
कृत्वा सलक्षणेनैव प्रोक्षयेत्तु शिवाम्भसा ॥ ४९ ॥
अष्टमङ्गलहीने च जायाश्चैव तु नाशनम्
शान्तिहोमन्ततः कृत्वा कारयेल्लक्षणान्वितम् ॥ ५० ॥
पञ्चगव्येन सम्प्रोक्ष्य स्नापयेद्विधिपूर्वकम्
अङ्कुरार्पणहीने च पालिकादिविहीनके ॥ ५१ ॥
सर्वैर्वा लक्षणैर्युक्ते सस्य नाशन्न संशयः
शान्तिहोमन्ततः कृत्वा पुण्याहं वाचयेत्ततः ॥ ५२ ॥
[[७७७]]
अङ्कुरार्पणकं कुर्याल्लक्षणैः पालिकादिभिः
अस्त्रयानविहीने च महामारिप्रवर्त्तते ॥ ५३ ॥
मूर्तिहोमन्ततः कृत्वा मूलेनैव शतं हुनेत्
ततोनुच समापाद्य सर्वकर्मसमाचरेत् ॥ ५४ ॥
यागे दीपविहीने च उन्मादञ्जायते ध्रुवम्
शान्तिहोमन्ततः कृत्वा दीपमारोपयेत्ततः ॥ ५५ ॥
दुर्भिक्षञ्जायते कुण्डे वह्निविच्छेदनेऽपि च
भस्माङ्गारन्ततो द्वास्य निधायाग्निस्तुपूर्वकम् ॥ ५६ ॥
समिदाज्येन चरुणा जुहुयान्मूलमन्त्रतः
प्रत्येकन्तु शतं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ५७ ॥
प्रणीता चलिता हीने ज्वरव्याधिस्तु जायते
जुहुयादस्त्रमन्त्रेण शतं वै षोडशाधिकम् ॥ ५८ ॥
मन्त्रहीने क्रियाहीने महोन्मादस्तु जायते
मूर्तिहोमन्ततः कृत्वा मूलेनैव शतं हुनेत् ॥ ५९ ॥
उक्तद्रव्यैश्च मन्त्रैश्च विधिना होममाचरेत्
दर्भाः परिधिहीने च जना दुःखमवाप्नुयात् ॥ ६० ॥
शान्तिहोमं ततः कृत्वा पुनस्सन्धानमाचरेत्
बलिद्रव्यविहीने च पतिते च विशेषतः ॥ ६१ ॥
सस्यानां नाशनञ्चैव गवानां नाशनं भवेत्
द्रव्यन्तु हि विसृज्याथ नवद्रव्यं परिग्रहेत् ॥ ६२ ॥
मूलमन्त्रं शतञ्जप्त्वा ————
बलिदानविहीने च क्षुद्बाधा जायते नृणाम् ॥ ६३ ॥
मूर्त्तिहोमन्ततः कृत्वा प्रभूतहविषा हुनेत्
बलिद्रव्यं समापाद्य बलिदानं समाचरेत् ॥ ६४ ॥
बलिलिङ्गविहीने च भिन्ने च पतितेऽपि च
भग्ने चैव तथा कर्त्तुर्विनाशं भवति ध्रुवम् ॥ ६५ ॥
[[७७८]]
कृत्वा तु शान्तिहोमन्तु मूलेनैव शतं हुनेत्
नवलिङ्गं प्रकुर्वीत पश्चात् बलिं समाचरेत् ॥ ६६ ॥
शूलास्त्रे पतिते चैव भिन्ने नष्टे तथैव च
तत् ग्रामस्य च राष्ट्रस्य शत्रुभिर्भयमादिशेत् ॥ ६७ ॥
पतितेऽभिषेचनं कुर्याच्छान्तिहोमन्तु कारयेत्
अस्त्रमन्त्रेण मतिमान् जुहुयाच्छतसङ्ख्यया ॥ ६८ ॥
शेषस्थाने बलिन्दद्यात् प्रविशेद्यागमण्टपम्
शूलस्य दण्डविच्छिन्ने वर्जयेत्तामयत्नतः ॥ ६९ ॥
अस्त्रमन्न्यं प्रतिग्राह्य यागशेषं समाचरेत्
शूलास्त्रन्तु पुनः कृत्वा स्थापयेद्विधिपूर्वकम् ॥ ७० ॥
अन्याङ्गानि विहीने च पुनस्सन्धानमाचरेत्
तदस्त्राब्जेन लोहेन पूर्ववत्कारयेत्सुधीः ॥ ७१ ॥
प्रतिष्ठा तु प्रकर्तव्या जलाधिवासनं विना
आयुधानि प्रणष्टे तु भिन्ने वा पतितेषु वा ॥ ७२ ॥
प्रवर्तते महामारी गावो नश्यन्त्यसंशयः
बिन्दूर्द्ध्वेन तु मन्त्रेण जपेदष्टशतं सुधीः ॥ ७३ ॥
नष्टे भिन्ने च कर्तव्यं पूर्ववल्लक्षणान्वितम्
बलिपात्रविहीने च क्षीयेते धनधान्यकौ ॥ ७४ ॥
शान्तिहोमन्ततः कृत्वा नवपात्रन्तु निक्षिपेत्
बलितालविहीने च सर्वदेवा प्रियं भवेत् ॥ ७५ ॥
मूर्तिहोमन्ततः कृत्वा नन्दिमन्त्रं शतञ्जपेत्
बलिदीपविहीने च लक्ष्मीर्ग्रामात् गता भवेत् ॥ ७६ ॥
क्षुरिकाबीजमुख्यैश्च प्रत्येकन्तु शतञ्जपेत्
द्विगुणं दीपमारोप्य बलिशेषं समाचरेत् ॥ ७७ ॥
कालातिक्रमणे प्राप्ते बलिदाने च यानके
तत् ग्रामस्य क्षयं प्रोक्तं शान्तिहोमन्तु कारयेत् ॥ ७८ ॥
[[७७९]]
पुण्याहं वाचयित्वा तु बलिदाने नयेत्पुनः
उत्सवे यानहीने च पुनस्सन्धानमाचरेत् ॥ ७९ ॥
मूर्तिहोमन्ततः कृत्वा बिम्बन्तु स्नपनं प्रभोः
पुनर्यानक्रमेणैव कुर्यात् ग्रामप्रदक्षिणम् ॥ ८० ॥
तत्ताले कलहन्तत्र तस्करेण भयं भवेत्
शान्तिहोमन्ततः कृत्वा प्रविशेदालयं प्रति ॥ ८१ ॥
पूजापर्युषि तद्रव्यैस्संस्कारे लिङ्गबिम्बयोः
परचक्रात् भयञ्चैव महामारी प्रवर्तते ॥ ८२ ॥
मूर्तिहोमन्ततः कृत्वा स्नपनं कारयेत्प्रभोः
पुण्याहं वाचयित्वा तु यजेत्पाशुपतं शतम् ॥ ८३ ॥
प्रतिमे यानकाले तु पतिते चाङ्गहीनके
वास्तुराष्ट्राधिपानाञ्च नाशनं भवति ध्रुवम् ॥ ८४ ॥
स्नपनन्तत्र कुर्वीत पुण्याहं वाचयेत्ततः
शान्तिहोमन्ततः कृत्वा पुनर्यानं समाचरेत् ॥ ८५ ॥
शिरोबाहु तथापादौ हीनस्यापि विवर्जयेत्
नखकर्णाङ्गुलीहीने भूषणास्त्रविहीनके ॥ ८६ ॥
पद्मबन्धविहीने तु जटाहीने प्रजापते
पुनस्सन्धानकं कृत्वा तदर्त्थं प्रोक्षणं कुरु ॥ ८७ ॥
दीक्षान्तरे तथा शूद्रैः प्रतिमास्पर्शने यदि
तैरेव यागशालान्तु स्पृष्टेशुना तथैव च ॥ ८८ ॥
तत् ग्रामवासिनां नॄणां स्थानभ्रंशं न संशयः
पञ्चगव्यैश्च सम्प्रोक्ष्य पुण्याहं वाचयेत्ततः ॥ ८९ ॥
स्नपनं कारयेत् बिम्बं शान्तिहोमन्तु कारयेत्
उत्सवे चैव तत् ग्रामे मृते चैव मनुष्यकाः ॥ ९० ॥
राष्ट्रस्य दूषणोत्पत्तिश्शीघ्रन्नीत्वा तु तश्शवम्
मूर्तिहोमन्ततः कृत्वा अस्त्रेणाष्टशतं हुनेत् ॥ ९१ ॥
[[७८०]]
परिवेष्टविहीने च लोकोन्मत्तं समादिशेत्
शिवमन्त्रं शतञ्जप्त्वा व्योमव्यापि तथैव च ॥ ९२ ॥
नीराञ्जनविहीने तु वह्निना तु भयं भवेत्
महेश्वरस्य बीजेन शतं जप्त्वा विशेषतः ॥ ९३ ॥
निराञ्जनन्ततः कुर्यात्पूर्वोक्तविधिना सह
प्रपादयो निदग्धे च क्षुद्भयं ग्रामवासिनाम् ॥ ९४ ॥
तत्राङ्गारं विसृज्याथ पूर्ववत्कारयेत्सुधीः
मूर्तिहोमन्ततः कृत्वा बिम्बन्तु स्नपनं कुरु ॥ ९५ ॥
युद्धारम्भविहीने तु सस्यानान्नाशनं भवेत्
मूर्तिहोमन्ततः कृत्वा युद्धारम्भमथाचरेत् ॥ ९६ ॥
रक्षासूत्रविहीने तु बालानान्नाशनं भवेत्
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेत्सुधीः ॥ ९७ ॥
गन्धोत्सवविहीने तु राजराष्ट्रं विनश्यति
उत्सवं पुनरारभ्य शान्तिहोमन्तु कारयेत् ॥ ९८ ॥
पश्चाद्गन्धोत्सवं कुर्यात्पूर्वे तैलाभिषेचनम्
मूर्तिहोमं ततः कृत्वा स्नपनं कारयेत्प्रभोः ॥ ९९ ॥
अपरे दिवसे चैव पूर्वतीर्त्थमथाचरेत्
न्यूने चैव तथाराष्ट्रग्रामयोर्नाशनं भवेत् १००
प्रागुक्तविधिनाधीमान् पुनरुत्सवमाचरेत्
आदौ व्यवस्थितान्त्याज्य मासभाग्यान्तथोग्ययोः १०१
उत्सवे त्वकृते तस्य ग्रामस्य नाशनं भवेत्
दशाहोमन्तु कर्तव्यं स्नपनं कारयेत्प्रभोः १०२
पूर्वोक्तविधिना चैव पुनरुत्सवमाचरेत्
पीठोक्तासनहीने तु न प्रीतास्सन्ति देवताः १०३
मूलेनैव शतं हुत्वा पश्चादूर्ध्वासनं कुरु
चण्डयागविहीने तु परचक्रात् भयं भवेत् १०४
[[७८१]]
स्नपनं कारयेच्छम्भोश्चण्डयागं समारभेत्
आरब्धादन्यतन्त्रेण शिवयागे कृते सति १०५
तन्त्रहानिर्भवेदाज्यस्तद्यज्ञं पुनराचरेत्
मन्त्रसङ्करदोषेण मारी व्याधिस्तु जायते १०६
समिद्भिश्च पलाशैश्च सर्पिषा चरुणा ततः
तन्मन्त्राष्टशतं हुत्वा तत्सङ्ख्या जपमाचरेत् १०७
आचार्यदक्षिणे हीने कर्ताभर्ता विनश्यति
अत्र यागफलं सर्वं निष्फलं भवति ध्रुवम् १०८
दत्वा तु द्विगुणं पश्चात् देशिकं तृप्तमानसम्
शान्तिहोमं ततः कृत्वा मूलेनैव शतं जपेत् १०९
दत्वा तु द्विगुणं पश्चात् देशिकं तत्र तोषयेत्
ग्रामादीनान्तु लक्षन्तु प्रतिकूले तु सम्भवे ११०
ग्रामकर्तृनृपाणाञ्च मनःक्लेशं भविष्यति
तत्रान्न्यत्स्थापितं बिम्बं तद्दोषस्य निवृत्तये १११
शान्तिहोमं ततः कृत्वा तत्तत्स्थापनमाचरेत्
यागोपकरणं सर्वं न दद्यात् देशिकस्य तु ११२
तद्यागं निष्फलन्तु स्यात्तस्मात्तस्मै प्रदापयेत्
अनुक्तं यत् भवेत्तत्र शान्तिहोमेन शाम्यति ११३
मूर्तिहोमं दिशाहोमं हुत्वा निष्कलयोग्यकम्
यागाग्नौ जुहुयाद्धीमान् प्रागुक्तविधिना सह ११४
सम्प्रोक्षणप्रायश्चित्तविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सम्प्रोक्षणविधिक्रमम्
सर्वशान्तिकरं पुण्यं सर्वरोगविनाशनम् ॥ १ ॥
सर्वधान्यसमृद्धिस्स्यात्सर्वसम्पत्सुखावहम्
स्थापनाङ्गविहीने तु नैवेद्यादिविहीनके ॥ २ ॥
[[७८२]]
नित्योत्सवविहीने तु नित्यपूजा विहीनके
नित्याग्निकार्यहीने तु चुबुकोदकहीनके ॥ ३ ॥
सदादीपविहीने तु सन्ध्यादीपविहीनके
सन्ध्यानृत्तविहीने तु सन्ध्याशङ्खविहीनके ॥ ४ ॥
गीतवाद्यविहीने तु प्रभूतबलिहीनके
चन्द्रचन्दनकस्तूरि अर्घ्यपाद्यविहीनके ॥ ५ ॥
छिन्नवस्त्रादिवेष्ट्यङ्ग गन्धपुष्पविहीनके
अष्टबन्धनहीने तु वर्षपूजा विहीनके ॥ ६ ॥
वत्सरोत्सवहीने तु पवित्रोत्सवहीनके
नवनैवेद्यहीने तु कृत्तिकादीपहीनके ॥ ७ ॥
परिवेष्टविहीने तु मासपूजा विहीनके
पञ्चगव्यविहीने तु नित्यवाहनहीनके ॥ ८ ॥
मासोर्द्ध्वपूजा हीने तु स्विष्टकृत्स्थलकर्मणि
सर्वेष्वेतेषु कालेषु विहीनेषु प्रजापते ॥ ९ ॥
मृत् भाण्डानि विसृज्याथ गोमयालेपनं क्रमात्
पुण्याहं वाचयित्वा तु पर्यग्निकरणन्तथा ॥ १० ॥
पञ्चगव्येन सम्प्रोक्ष्य स्नपनं कल्पयेद्विभोः
दिशाहोमं समाश्रित्य कारयेत्तु विचक्षणः ॥ ११ ॥
समिदाज्य चरुं लाजान् माषशालियवांस्तथा
सर्षपन्तिलमुद्गन्तु गोधूमञ्च यथाक्रमम् ॥ १२ ॥
समिधम्मूलमन्त्रेण घृतं गायत्रिमन्त्रतः
चरुं हृदयमन्त्रेण लाजं वामेन हूयते ॥ १३ ॥
माषन्तु सद्यमन्त्रेण शालिं पुरुषमन्त्रतः
यवं घोरेण मन्त्रेण ईशानेनैव सर्षपम् ॥ १४ ॥
तिलञ्च मूलमन्त्रेण मुद्गन्तु शिखया हुनेत्
गोधूमञ्चास्त्रमन्त्रेण क्षीरं प्रासादमन्त्रतः ॥ १५ ॥
[[७८३]]
सक्तुश्च शिरसा चैव हुनेदष्टाधिकं शतम्
द्रव्याण्येतानि सर्वाणि मूलेनैव तु होमयेत् ॥ १६ ॥
पर्यग्निकरणं कृत्वा पुण्याहं वाचयेत्ततः
स्नपनं कारयेत् शम्भोर्न्नववस्त्रेण वेष्टयेत् ॥ १७ ॥
पञ्चमुखीं समाच्छाद्य सर्वपुष्पैरलङ्कृतम्
पञ्चवर्णहविर्दत्वा बलिदानावसानके ॥ १८ ॥
नित्याग्निना सुसम्पूज्य धूपदीपसमन्वितम्
शान्तिहोमन्ततः कृत्वा सर्वसम्भारसंयुतम् ॥ १९ ॥
प्रतिष्ठायागवत्कुर्यात्सर्वदेवसमावृतम्
शिवास्त्रमूर्तिं सम्पूज्य तीर्त्थान्तं हि समाचरेत् ॥ २० ॥
उमास्कन्देश्वरन्देवमभिषिच्य तु वेष्टयेत्
सर्वमाल्यैरलङ्कृत्वा सर्वगन्धानुलेपनम् ॥ २१ ॥
नैवेद्यन्दापयेत्पश्चादपूपं दापयेत्ततः
वास्तुहोमन्ततः कृत्वा समिदाज्यान्न सर्षपैः ॥ २२ ॥
शङ्खदुन्दुभिनिर्घोषैः स्तोत्रमङ्गलवाचकैः
ग्रामप्रदक्षिणं कुर्यादुमास्कन्देन्दुशेखरान् ॥ २३ ॥
हेमवान्धान्यवान् श्रीमान्सोऽन्ते रुद्रपदं लभेत्
शान्तिहोमविधिप्रारम्भः
अथातस्सम्प्रवक्ष्यामि शान्तिहोमविधिक्रमम्
सर्वदोषविनाशार्त्थं सर्वसम्पत्सुखावहम् ॥ १ ॥
भवनस्याग्रतः कुर्यात् मण्टपञ्चतुरश्रकम्
भूमिशुद्धिं पुरा कृत्वा गोमयेनोपलेपयेत् ॥ २ ॥
प्रोक्षयेच्छिवमन्त्रेण शालिपिष्टैर्विचित्रयेत्
तन्मद्ध्ये स्थण्डिलं कुर्यात् शुद्धतोयेन पांसुना ॥ ३ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
[[७८४]]
पलाशसमिधं सद्यो जातमन्त्रेण हूयते ॥ ४ ॥
आज्यं हुत्वा तु वामेन चरुं वै घोरमन्त्रतः
पुरुषेण हुनेल्लाजं श्रीपत्रं शिखया हुनेत् ॥ ५ ॥
सहस्रं वा तदर्द्धं वा तदर्द्धार्द्धमथापि वा
अष्टोत्तरशतं वापि प्रत्येकं जुहुयात्क्रमात् ॥ ६ ॥
द्रव्यान्ते व्याहृतिं हुत्वा यदस्येति ततो हुनेत्
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ७ ॥
पूर्णाहुतिं ततो दत्वा शिवमन्त्रेण देशिकः
सद्योजातेन मन्त्रेण पावकन्तु विसर्जयेत् ॥ ८ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
शान्तिहोममिति ख्यातं सर्वदोषनिकृन्तनम् ॥ ९ ॥
दिशाहोमविधिप्रारम्भः
अथ वक्ष्ये विशेषेण दिशाहोमविधिक्रमम्
सर्वदोषहरं पुण्यं सर्वोपद्रवनाशनम् ॥ १ ॥
मन्दिरस्य चतुर्दिक्षु मण्टपं कारयेत्ततः
प्रोक्षयेत्पुरुषेणैव गोमयेनोपलेपयेत् ॥ २ ॥
पुण्याहं वाचयेत्तत्र पिष्टचूर्णैर्विचित्रयेत्
प्रोक्षयेच्छिवतोयेन स्थण्डिलं वालुकैः कुरु ॥ ३ ॥
आदावन्ते च कर्तव्यमग्निकार्योक्तमार्गतः
अश्वत्थं पूर्वदिग्भागे याम्ये वोदुम्बरं हुनेत् ॥ ४ ॥
वटहोमन्तु वारुण्यां ब्रंहशाखा तु चोत्तरे
समिदाज्य चरून्लाजान् सर्षपञ्च यवन्तिलम् ॥ ५ ॥
वैणवं माषमुद्गञ्च श्रीपत्रं कदलीफलम्
समिधं सद्यमन्त्रेण वामे नाज्यञ्च हूयते ॥ ६ ॥
अघोरेण चरुं हुत्वा लाजं हुत्वा नरेण तु
[[७८५]]
सर्षपं बहुरूपेण हृदयेन यवं हुनेत् ॥ ७ ॥
तिलं हुत्वा तु शिरसा वैणवं शिखया हुनेत्
माषं कवचमन्त्रेण मुद्गन्नेत्रेण होमयेत् ॥ ८ ॥
श्रीपत्रमस्त्रमन्त्रेण मूलेन कदलीफलम्
शतमर्द्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ ९ ॥
द्रव्यान्ते व्याहृतिं हुत्वा यदस्येति ततो हुनेत्
जयादिरभ्याधानञ्च राष्ट्रभृच्च ग्रमाद्धुनेत् ॥ १० ॥
पूर्णाहुतिं ततो दद्यात्सद्योजातेन देशिकः
प्रायश्चित्तादिकं सर्वं जुहुयात् घोरमन्त्रतः ॥ ११ ॥
तत्पुरुषेण मन्त्रेण पावकन्तु विसर्जयेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ १२ ॥
दिशाहोममिति ख्यातं सर्वकृत्रिमनाशनम् ॥ १३ ॥
मूर्तिहोमविधिप्रारम्भः
अथ वक्ष्ये विशेषेण मूर्तिहोमविधिक्रमम्
सर्वदोषनिवृत्यर्त्थं सर्वसिद्धिप्रदायकम् ॥ १ ॥
सदनस्याग्रतः कुर्यात् मण्टपञ्चतुरश्रकम्
तन्मद्ध्ये स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ २ ॥
मद्ध्ये सरोरुहं लिख्य दर्भैः पुष्पैः परिस्तरैः
प्रोक्षयेत् शिवतोयेन स्थण्डिलन्तु यजेद्धृदा ॥ ३ ॥
शिवकुम्भं न्यसेन्मद्ध्ये वर्द्धनीं तस्य वामके
ससूत्रौ सापिधानौ च सकूर्चौ वारिपूरितौ ॥ ४ ॥
रत्नहेमादिसंयुक्तौ नालिकेरफलान्वितौ
पल्लवेन समायुक्तौ वस्त्रयुग्मेन वेष्टितौ ॥ ५ ॥
सदाशिवं यजेत्कुम्भे वर्द्धन्यान्तु मनोन्मनीम्
पूजयेद्गन्धपुष्पाध्यैर्नैवेद्यान्तं क्रमेण तु ॥ ६ ॥
[[७८६]]
परितोष्टघटान्न्यस्त्वा ससूत्रान्सापिधानकान्
सकूर्चान्पल्लवोपेतान् वस्त्रयुग्मेन वेष्टितान् ॥ ७ ॥
हेमशूलसमायुक्तान् स्थापयेत्स्थापकोत्तमः
पूर्वादिषु क्रमेणैव विद्येशान्सम्प्रपूजयेत् ॥ ८ ॥
तत्पूर्वे स्थण्डिलं कुर्यान्निर्दोषैर्वालुकैस्सितैः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ९ ॥
समिदाज्य चरून्लाजान्सर्षपञ्च यवन्तिलम्
श्रीपत्रं वैणवं शालिं शर्कराकदलीफलम् ॥ १० ॥
गोधूमञ्चणकञ्चैव दधिक्षीरं क्रमाद्धुनेत्
समिधं सद्यमन्त्रेण चरुं वामेन हूयते ॥ ११ ॥
अघोरेण हुनेल्लाजं सर्षपं पुरुषेण तु
ईशानेन यवं हुत्वा हृदयेन तिलं हुनेत् ॥ १२ ॥
श्रीपत्रं शिरसा हुत्वा वैणवं शिखया हुनेत्
शालिं वैकवचेनैव शर्करान्नयनेन तु ॥ १३ ॥
खड्गेन कदलीं हुत्वा गोधूमञ्चास्त्रमन्त्रतः
चणकं बीजमुख्येन प्रासादेन हुनेद्दधि ॥ १४ ॥
दुग्धन्तु मूलमन्त्रेण मूलतोऽन्यानि होमयेत्
प्रत्येकं व्याहृतिं हुत्वा प्रायश्चित्तार्त्थकं हुनेत् ॥ १५ ॥
अयुतं वा तदर्द्धं वा तदर्द्धार्द्धमथापि वा
सहस्रं वा तदर्द्धं वाप्यष्टोत्तरशतन्तु वा ॥ १६ ॥
तस्यार्द्धं वा तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात्
विद्येशानान्तु बीजेन प्रत्येकं षोडशं हुनेत् ॥ १७ ॥
त्रियम्बकेन मन्त्रेण जुहुयाद्वै पृथक्पृथक्
अघोरास्त्रेण मन्त्रेण तत्सङ्ख्याहुतिमाचरेत् ॥ १८ ॥
जयादीन् जुहुयान्मन्त्री पूर्णान्तु शिरसा हुनेत्
वह्निबीजमनुस्मृत्य —– विसर्जयेत् ॥ १९ ॥
[[७८७]]
कुम्भस्थान्सर्वदेवांश्च पूजयेत्तु पृथक्पृथक्
उक्तालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ २० ॥
कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम्
गर्भगेहं प्रविश्याथ स्नापयेत्तु सदाशिवम् ॥ २१ ॥
वर्द्धनीमभिषिच्याथ विद्येश्वरघटैस्समम्
अर्चनोक्तं समभ्यर्च्य प्रभूतहविषन्ददेत् ॥ २२ ॥
धूपदीपौ हृदा दत्वा ताम्बूलन्तु निवेदयेत्
प्रार्त्थयित्वा ततो देवमष्टपुष्पं प्रदापयेत् ॥ २३ ॥
मूर्तिहोमं समाख्यातं सर्वदोषनिकृन्तनम् ॥ २४ ॥
अद्भुतशान्तिविधिप्रारम्भः
वक्ष्ये अभुतशान्तिस्तु राजराष्ट्रहिताय च
अद्भुतं द्विविधं प्रोक्तं सामान्यञ्च महाद्भुतम् ॥ १ ॥
सामान्यं दीर्घफलदं सद्य एव महाद्भुतम्
तत्तत्प्रतिक्रिया सम्यक् कर्त्तव्या दोषनाशिनी ॥ २ ॥
अकर्तव्ये तु या सद्यस्सर्वदोषावहन्नृणाम्
ब्राह्मणानान्नृपाणाञ्च विशेषाद्दोषदम्महत् ॥ ३ ॥
तस्मात्प्रतिक्रिया सद्यो नृपणैवावलम्बिकम्
भास्करस्योदये रात्रावमावास्येन्दुदर्शने ॥ ४ ॥
भूमिकम्पे नदीक्षोभे कूपक्षोभे तटाकके
प्रतिमारोदने चैव ततश्शोणितवर्षके ॥ ५ ॥
पाषाणपांसुवर्षे च तथैव मधुवर्षके
क्षीरासृक् वर्षसम्भूते वृक्षाच्छोणितवर्षके ॥ ६ ॥
पतिते पादुकान्तं ये देवालयमकारणात्
वृक्षात्स्थानान्तरप्राप्तौ वृक्षेऽन्यफलसम्भवे ॥ ७ ॥
तदन्यपुष्पसम्भूते रसगन्धान्यसम्भवे
[[७८८]]
लिङ्गकेत्युष्णसम्भूते प्रतिमे तु तथैव च ॥ ८ ॥
अण्डजा स्वेदजाशैव चतुष्पादा नरास्तदा
स्वजात्यन्यप्रसूते च प्रासादभ्रमणे तथा ॥ ९ ॥
श्वेतवायससम्भूते पर्वद्वये च युद्धके
आर्द्रवृक्षे स्वयन्दग्धे प्रतिमा कम्पने तथा ॥ १० ॥
भिन्ने शस्य तु तद्धर्म्ये लिङ्गप्रतिमयोस्तथा
प्रतिमा स्वेदसम्भूते लिङ्गस्वेदोद्भवेऽपि च ॥ ११ ॥
प्रतिमोन्मीलने भ्रष्टे करिणी मदसंयुते
अनग्नावुत्थिते धूमे लिङ्गे वर्णान्तरे सति ॥ १२ ॥
अङ्गादिकसमुत्पन्ने चतुष्पात्सु तथैव च
भेरी घोषे स्वयं भूते प्रोक्ताश्चेत्तु महाद्भुताः ॥ १३ ॥
दिने तु प्रतिसूर्यस्य चन्द्रस्य प्रतिदर्शने
रात्राविन्द्रधनुर्दिष्टे त्वह्निनक्षत्रदर्शने ॥ १४ ॥
ग्रहनक्षत्रपाते च सप्तधा शनिसङ्कुले
नैरन्तरे च सप्ताहे परिवेषेऽर्कचन्द्रयोः ॥ १५ ॥
महावातप्रकोपे च दिशान्दासमुद्भवे
लिङ्गेषु पूजितं पुष्पं प्राप्ते वर्णान्तरे सति ॥ १६ ॥
अकस्मात्पतिते पुष्पे —- सिते सति
अतीवशलभोत्पन्ने उन्मत्तोपहते सति ॥ १७ ॥
शुक्लमूषिकसम्भूते विषसर्वादिकोद्भवे
प्रासादेऽथ सभास्थाने गोपुरे मण्टपेऽपि च ॥ १८ ॥
परिवारालये चैव मधुनीडे समुद्भवे
अतिवृष्टावनावृष्टौ युद्धेऽभ्योगे नृपस्य तु ॥ १९ ॥
पतिते कारणाद्धामवृक्षके तत्समीपतः
राज्ञाम्प्रधानमहिषी प्रधाने च गजे मृते ॥ २० ॥
ऋतुस्त्रीवायसोलूकजम्बुगृद्ध्रञ्च पिङ्गली
[[७८९]]
नृपवेश्मप्रविष्टे च प्रविष्टे च सुरालये ॥ २१ ॥
देवालयोपरिष्टात्तु नृपस्य भवनोपरि
श्वारोहे रुदते तत्र तत्रजातिक्रयास्तथा ॥ २२ ॥
लिङ्गे च प्रतिमे चैव खद्योतारोहणे सति
केचिद्व्योमे तु केतुभ्यां नानारूपेण दर्शिते ॥ २३ ॥
लिङ्गमूले तु निबिडे जन्त्वा रोहणकेऽपि च
व्यतिरिक्तक्रियाकार्ये सामान्यास्त्वद्भुतास्मृताः ॥ २४ ॥
तेषान्दोषनिवृत्यर्त्थं प्रवक्ष्यामीह प्रक्रियाम्
रात्रौ भानु प्रदृष्टे च प्रविष्टे च नृपाद्भयम् ॥ २५ ॥
दिशाहोमन्ततः कृत्वा महास्नपनमुत्तमम्
कृत्वा सम्पूज्य देवेशं प्रभूतहविषन्ददेत् ॥ २६ ॥
ब्रांहणान्भोजयेत्तत्र प्रतिसर्वांश्च भोजयेत्
एवमेवन्तु सप्ताहं दिनं प्रतिदिनं प्रति ॥ २७ ॥
चन्द्रोदयेऽप्यमावास्यां गोनाशं सस्यनाशनम्
पूर्ववत्कारयेत्सर्वं तद्दोषशमनाय च ॥ २८ ॥
सम्भवे भूमिकम्पे च राजराष्ट्रस्य दोषकृत्
क्षीरप्रस्थसहश्रैश्च मधुसर्पिसहस्रकैः ॥ २९ ॥
संस्नाप्य च शिवं सम्यक् महाव्योमेतिमन्त्रतः
पलाशसमिधा चैव शान्तिहोमञ्च कारयेत् ॥ ३० ॥
ब्राह्मणान्भोजयेन्नित्यमेकविंशद्दिनान्तकम्
नदीक्षोभे तथा कूपतटाकक्षोभके तथा ॥ ३१ ॥
दुर्भिक्षं जायते लोके महामारी तथैव च
नदी तीरे मण्टपं तु नवहस्तप्रमाणतः ॥ ३२ ॥
मण्टपे मण्टपं सम्यक् तन्मद्ध्ये स्थण्डिलं कुरु
पञ्चाग्निं कल्पयेत्तस्मिन् अग्निकार्योक्तमार्गतः ॥ ३३ ॥
व्याहृत्या समिधं हुत्वा चास्त्रमन्त्रेण देशिकः
[[७९०]]
हृदयेन घृतं हुत्वा चरुं पाशुपतेन च ॥ ३४ ॥
शतमर्द्धं तदर्द्धं वा प्रत्येकं जुहुयात्क्रमात्
मन्त्राहुतिञ्च कुर्वीत व्याहृतिञ्च हुनेत्क्रमात् ॥ ३५ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
शिवं सम्पूज्य विधिवत् ब्रांहणान् जोभयेत्ततः ॥ ३६ ॥
एवं कुर्यात्तु पञ्चाहमन्ते चोत्सवमाचरेत्
प्रतिमा रोदने चैव गोनाशं धान्यनाशनम् ॥ ३७ ॥
तन्मण्डलाधिपो राजा ग्रामं राष्ट्रं विनश्यति
कृत्वा तु प्रतिमा शुद्धिं सम्प्रोक्षणमथाचरेत् ॥ ३८ ॥
पक्षं पक्षद्वयं वार्कसमिद्भिश्शान्तिहोमकम्
स्नपनं कारयेन्नित्यं दिशाहोमसमन्वितम् ॥ ३९ ॥
ब्रांहणान् भोजयेन्नित्यं दिननाधांश्च पूजयेत्
ततश्शोणितवर्षे तु प्राणिनां नाशनं महत् ॥ ४० ॥
प्रासादमण्टपादीनि तोयेन क्षालयेत्ततः
आलयन्तु समन्ताच्च गोमयेनोपलेपयेत् ॥ ४१ ॥
मध्वृष्टौ क्षीरवृष्टौ विप्रक्षत्रियदोषकृत्
तत्तत्प्रस्थसहस्रैश्च स्नापयेद्देशिकोत्तमः ॥ ४२ ॥
पूजयेत्तु विशेषेण प्रभूतहविषन्ददेत्
अशोकसमिधश्चैव शान्तिहोमञ्च कारयेत् ॥ ४३ ॥
एवं कुर्यात्तु सप्ताहं पश्चात् ब्राह्मणभोजनम्
द्रुमात् शोणिसमुद्भूते परचक्रात् वयं भवेत् ॥ ४४ ॥
वृक्षमूले दिशाहोमं कारयेद्देशिकोत्तमः
ब्रांहणान्भोजयेत्तत्र वास्तुदेवान्प्रपूजयेत् ॥ ४५ ॥
पूजयेत्तु शिवं पश्चात्कुर्याच्च स्नपनम्महत्
पूजयेत्तु विशेषेण प्रभूते हविषन्ददेत् ॥ ४६ ॥
पतिते पादुकान्तं ये देवालयमकारणात्
[[७९१]]
स्त्रीणाञ्चैव तु बालानां क्षत्रियाणान्तु नाशनम् ॥ ४७ ॥
प्रासादं पूर्ववत्कृत्वा जीर्णबिम्बान्समुद्धरेत्
पुनः बिम्बं समापाद्य पूर्ववत्स्थापयेत् गुरुः ॥ ४८ ॥
स्थापनर्क्षात्समारभ्य सप्तविंशद्दिनान्तकम्
यथा गत्यन्तथा गव्यैरभिषेकं समाचरेत् ॥ ४९ ॥
देवतास्थापनं प्राग्वत्पूजयेत्तु विशेषतः
गव्याभिषेचनं कृत्वा ब्राह्मणान्भोजयेत्ततः ॥ ५० ॥
उत्सवं कारयेद्धीमान् शिवकुम्भन्तदन्तके
तद्राष्ट्रे देवतानाञ्च स्नपनं हविषम्महत् ॥ ५१ ॥
कारयेद्विधिवद्राजा भक्तियुक् दोषशान्तये
द्रुमस्थानान्तरप्राप्तौ वृक्षे चान्यफलोद्भवे ॥ ५२ ॥
तदन्यकुसुमोत्पन्नरसगन्धान्यसम्भवे
भक्तानाञ्चैव सर्वेषान्दुःखन्तद्राष्ट्रवाहिनाम् ॥ ५३ ॥
तज्जातितरुसंस्थाप्य पूर्वस्थाने विशेषतः
शान्तिहोमन्तु तत्रैव मधूरसमिधा तथा ॥ ५४ ॥
शिवं सम्पूज्य विधिवत्सप्ताहं स्नपनं कुरु
क्षीराभिषेचनं कृत्वा वास्तुदेवान्सुपूजयेत् ॥ ५५ ॥
तदेतत्फलानि सर्वाणि पुष्पैस्सर्वैर्यजेच्छिवम्
सर्वगन्धसमायुक्तं पूजयेत्तु विशेषतः ॥ ५६ ॥
लिङ्गे चैवोष्णसम्भूते प्रतिमे तु तथैव च
मर्त्यानाञ्चैव सर्वेषान्नानारोगसमुद्भवः ॥ ५७ ॥
गोनाशञ्चैव दुर्भिक्षन्तद्राष्ट्रे जायते ध्रुवम्
क्षीरप्रस्थसहस्रैश्च मधुसर्पिसहस्रकैः ॥ ५८ ॥
नालिके रोदकेनैव स्नापयेत्तु शिवं बुधः
स्नपनन्तत्र कर्त्तव्यं महाव्योमेतिमन्त्रतः ॥ ५९ ॥
पूजयेत्तु विशेषेण चन्दनोशीरकुङ्कुमैः
[[७९२]]
कुष्ठैर्लवङ्गकर्पूरैरालोड्यालेपयेच्छिवम् ॥ ६० ॥
महाहविः प्रदातव्यन्दिशाहोमञ्च कारयेत्
एवं कुर्यात्तु सप्ताहं शीतकुम्भं तदन्तके ॥ ६१ ॥
अण्डजास्वेदजाश्चैव चतुष्पादा नरास्तथा
स्वजात्यन्यप्रसूते च नृपतेर्मरणन्ध्रुवम् ॥ ६२ ॥
गोभूमिकाञ्च नादीनि दापयेत्तु प्रयत्नतः
स्नपनं कारयेदर्कसमिधा शान्तिहोमकम् ॥ ६३ ॥
एवं कुर्यात्तु सप्ताहमन्ते चोत्सवमाचरेत्
प्रासादभ्रमणोत्पन्ने राष्ट्रस्योपप्लवं भवेत् ॥ ६४ ॥
प्रत्येकं प्रस्थसाहस्रैर्गव्यैः प्रासादकेन तु
पञ्चब्रह्मषडङ्गैश्च स्नापयेत्परमेश्वरम् ॥ ६५ ॥
प्रासादं प्रोक्षयेद्धीमान्पूर्वोक्तविधिना सह
स्नपनन्तत्र कुर्वीत ब्राह्मणान्भोजयेत्सुधीः ॥ ६६ ॥
सितकाकसमुद्भूते राष्ट्रक्षोभं भवेत्सदा
स्नपनन्तत्र कुर्वीत ब्राह्मणान्भोजयेत्ततः ॥ ६७ ॥
——— पूजयेत्तु विशेषतः
वैकङ्कतेन समिधा शान्तिहोमं समाचरेत् ॥ ६८ ॥
विशेषात्पूजनं कुर्यात्तदन्ते चोत्सवं कुरु
आर्द्रवृक्षे स्वयन्दग्धे बालानान्नाशनं भवेत् ॥ ६९ ॥
अनिन्दा तु भयञ्चैव तद्राष्ट्रे भवति ध्रुवम्
ग्रामस्यैव चतुर्दिक्षु होमं कुर्याद्विशेषतः ॥ ७० ॥
समिदाज्य चरून्लाजं सर्षपं होमयेत्ततः
तद्वृक्षसमिधा चैव पञ्चब्रह्मक्रमाद्धुनेत् ॥ ७१ ॥
शतमर्द्धन्तदर्द्धं वा प्रत्येकं जुहुयात्क्रमात्
पञ्चब्रह्मषडङ्गैश्च प्रासादेनैव मन्त्रतः ॥ ७२ ॥
प्रत्येकन्तु सहस्रं वा तदर्द्धञ्जुहुयात्क्रमात्
[[७९३]]
मन्त्राहुतिन्ततः कृत्वा जयादिजुहुयात्क्रमात् ॥ ७३ ॥
कृत्वा तु स्नपनं पश्चाद्विशेषेणैव पूजयेत्
अौदुम्बरेण समिधा शान्तिहोमञ्च कारयेत् ॥ ७४ ॥
प्रतिमा कम्पने शीघ्रं राजामरणमाप्नुयात्
कृत्वा तत्प्रतिमा शुद्धिं गव्येनैवाभिषेचयेत् ॥ ७५ ॥
स्नपनं कारयेद्देवमर्च्चनोक्तं यजेत् गुरुः
दिशाहोमन्ततः कृत्वा पुण्याहं वाचयेदथ ॥ ७६ ॥
एवं कुर्याच्च सप्ताहं तदन्ते चोत्सवं कुरु
भिन्ने शस्य तु तद्धर्म्ये लिङ्गप्रतिमयोस्तथा ॥ ७७ ॥
परचक्रात् भयं भूमौ महामारी प्रवर्त्तते
बालस्थानन्ततः कृत्वा प्रासादं पूर्ववत्कुरु ॥ ७८ ॥
प्रासादप्रोक्षणं कृत्वा पूर्वोक्तविधिना सह
प्रत्यङ्गे वाङ्गहीनेन सा सा भरणहीनके ॥ ७९ ॥
पुनस्सन्धानकं कृत्वा सम्प्रोक्षणमथाचरेत्
दिशाहोमन्ततः कृत्वा महास्नपनमाचरेत् ॥ ८० ॥
पञ्चमृत्पञ्चगव्यैश्च चाभिषेकं समाचरेत्
क्षीरप्रस्थसहस्रैश्च मधुसर्प्पिसहस्रकैः ॥ ८१ ॥
स्नापयेत्परमेशानं महाव्योमेति मन्त्रतः
स्नपनं कारयित्वाथ ब्राह्मणान्भोजयेत्ततः ॥ ८२ ॥
समिधाखादिरेणैव शान्तिहोमं समाचरेत्
एवं कृत्वा तु सप्ताहमन्ते चोत्सवमाचरेत् ॥ ८३ ॥
प्रतिमोन्मीलनञ्चैव राष्ट्रग्रामस्य नाशनम्
पक्षं पक्षद्वयावार्कसमिधाशान्तिहोमकम् ॥ ८४ ॥
स्नपनं कारयेन्नित्यं दिशाहोमसमन्वितम्
ब्राह्मणान्भोजयेत्तत्र दीनानाधांश्च भोजयेत् ॥ ८५ ॥
करिणीमदसंयुक्ते महावात्रप्रकोपने
[[७९४]]
वाहनानां क्षयञ्चैव स्त्रीजनानां क्षयं भवेत् ॥ ८६ ॥
शिवं सम्पूज्य विधिवत्स्नपनं कुरु नित्यशः
शिवाङ्गैश्चैव विद्याङ्गैश्शिवमन्त्रैश्च होमयेत् ॥ ८७ ॥
एवं सप्तदिनं नीत्वा महाहविर्निवेदयेत्
अनग्नावुत्थिते धूमे वाहनानां क्षयं भवेत् ॥ ८८ ॥
परचक्रात् भयं तत्र भूमौ सम्भवति ध्रुवम्
तत्प्रदेशं खनित्वा तु पञ्चमृद्भिस्सुपूरयेत् ॥ ८९ ॥
व्याघातं समिधाञ्चैव शान्तिहोमञ्च कारयेत्
ब्रांहणान्भोजयेत्तत्र दीनानाधांश्च पूजयेत् ॥ ९० ॥
क्षीरप्रस्थसहस्रैश्च स्नापयेत्परमेश्वरम्
तदन्ते स्नपनं कुर्यात् शीतकुम्भं तदन्तके ॥ ९१ ॥
लिङ्गे वर्णान्तरप्राप्ते जातिदूषणमादिशेत्
एलालवङ्गकर्पूरं श्रीपूगादिफलं मुरैः ॥ ९२ ॥
पेषयित्वा यथामन्त्री लिङ्गमालेपयेत्ततः
स्नपनं कारयेदन्ते सप्ताहं शान्तिहोमकम् ॥ ९३ ॥
अशोकसमिधा हुत्वा त्र्यम्बकेन तु मन्त्रतः
पक्षं पक्षद्वयं वाथ एवमेवं समाचरेत् ॥ ९४ ॥
एवं महाद्भुतं प्रोक्तं सामान्याद्भुतकं श्रुणु
अथ वक्ष्ये विशेषेण सामान्याद्भुतदर्शनम् ॥ ९५ ॥
आदित्योदयकाले तु प्रतिसूर्यस्य दर्शने
परचक्रात् भयं भूमौ ज्वरग्रस्तानरास्तथा ॥ ९६ ॥
अश्वत्थसमिधानेन शान्तिहोमञ्च कारयेत्
तदन्ते स्नपनं कुर्यात्पूजयेत्तु विशेषतः ॥ ९७ ॥
दत्वा प्रभूतहविषमेवं सप्ताहमाचरेत्
यथाचन्द्रोदये काले प्रतिचन्द्रस्य दर्शने ॥ ९८ ॥
दुर्भिक्षञ्जायते लोके महामारी प्रवर्तने
[[७९५]]
प्रत्यर्कदर्शनस्योक्तमार्गेणैव समाचरेत् ॥ ९९ ॥
रात्राविन्द्रधनुर्दृष्टे वह्निनक्षत्रदर्शने
ग्रहनक्षत्रपाते च अनावृष्टिर्न संशयः १००
ज्वरग्रस्तानरास्सर्वे वाहनानां क्षयं भवेत्
पूजयित्वा शिवं तत्र कुर्यात्स्नपनकं ततः १०१
शान्तिहोमं ततः कृत्वा अश्वत्थसमिधा ततः
एवं कृत्वा तु सप्ताहं शीतकुम्भं ततः कुरु १०२
सप्तधा शनिसम्भूते नैरन्तर्यक्रमेण तु
अतितृष्णा नराणाञ्च रोगं सम्भवति ध्रुवम् १०३
एवसाने घृतक्षीरे प्रस्थानान्तु सहस्रकैः
स्नापयेत्परमेशानं पूजयेत्तु विशेषतः १०४
तदन्ते स्नपनं कुर्यात्प्रभूतहविषन्ददेत्
भास्करं वापि सोमं वा सप्ताहे परिवेष्टिते १०५
तन्मण्डलाधिपो राजा युद्धे मरणमाप्नुयात्
भूदानञ्चैव गोदानं हेमं रजतदानकम् १०६
कृत्वा प्रस्थसहस्रेण क्षीरेणैव महेश्वरम्
स्नापयेत्तु विशेषेण तदन्ते स्नपनं कुरु १०७
दिशाहोमं ततः कृत्वा एवं सप्ताहमाचरेत्
लिङ्गे सुपूजिते पुष्पे प्राप्ते वर्णान्तरे सति १०८
वस्त्रानुपानहन्तद्वत् ग्रामे दूषणमादिशेत्
शिवं सम्पूज्य विधिवत्प्रभूतहविषन्ददेत् १०९
अतीवशलभोत्पाते उन्मत्ते वाहने तथा
शुकानां मूषिकानाञ्च सर्षसर्पिषिके भवेत् ११०
प्राणीनां नाशसम्भूते मनावृष्टिर्न संशयः
प्रासादाग्रं ततः कुर्यात् मण्टपञ्चतुरश्रकम् १११
दशद्वादशहस्तं वा दर्पणोदरसन्निभम्
[[७९६]]
स्तम्भैष्षोडशभिर्युक्तं सर्वालङ्कारसंयुतम् ११२
हस्तद्वयप्रमाणेन वृत्तकुण्डन्तु मद्ध्यमे
मेखला त्रयसंयुक्तमेकैकन्तु षडङ्गुलम् ११३
नाभियोनिसमायुक्तं कारयेद्देशिकोत्तमः
प्रासादे च सभास्थाने गोपुरे मण्टपे ततः ११४
परिवारालये चैव मधुनीडे समुद्भवे
ग्रामस्य नाशनञ्चैव नृपतेर्मरणं ध्रुवम् ११५
व्यपोह्य मधुनीडन्तु प्रोक्षयेत् शुद्धवारिणा
शिवं सम्पूज्य विधिवद्दिशाहोमञ्च कारयेत् ११६
मध्वाज्य पयसा धीमान्स्नापयेद्देवमादरात्
समिद्भिर्निम्बसम्भूतैश्शान्तिहोमञ्च कारयेत् ११७
तदन्ते स्नपनं कुर्यात् एवं सप्ताहमाचरेत्
उत्सवं कारयेदन्ते पञ्चाहं वा त्र्यहन्तु वा ११८
अनावृष्टिसमुत्पन्ने गोनाशं सस्य नाशनम्
समिधा खादिरेणैव शान्तिहोमञ्च कारयेत् ११९
क्षीराभिषेचनं कृत्वा तदन्ते स्नपनं भवेत्
कुर्यादेवन्तु सप्ताहं शीतकुम्भं ततः कुरु १२०
अतिवृष्टिसमुद्भूते दुर्भिक्षं भवति ध्रुवम्
मधुप्रस्थसहस्रैश्च घृतप्रस्थसहस्रकैः १२१
स्थापयेत्परमेशानं तदन्ते स्नपनं महत्
आलोढ्य रजनीं पश्चात्कर्पूरेण विमिश्रितम् १२२
षडङ्गुलप्रमाणेन वेष्टयेल्लिङ्गपीठिकाम्
कनिष्ठाङ्गुलिनाहं वै कर्पूरेण विवर्तितम् १२३
गोघृतेन समायुक्तं वेदाङ्गुलिप्रमाणतः
सहस्रं वा तदर्द्धं वा दीपान्यारोपयेत्क्रमात् १२४
मुद्गभिन्नसमायुक्तं प्रभूतहविषन्ददेत्
[[७९७]]
शान्तिहोमं ततः कृत्वा पलाशसमिधा तथा १२५
विशेषात्पूजनं कुर्यादेवं च त्र्यहमाचरेत्
युद्धोद्योगे नृपस्यैव स्वगृहं वा द्रुमन्तु वा १२६
पतिते कारणात् भूमौ प्रधानमहिषीवरा
प्रधानाश्वं गजं वापि मरणं यत्र सम्भवः १२७
नृपतेर्मरणञ्चास्त्रसिद्धिर्भवति तद्ध्रुवम्
तत्प्रयाणन्निवार्यात्र दानं कृत्वा विशेषतः १२८
पूजयित्वा महादेवं प्रकुर्यात्स्नपनं महत्
महाहविन्ततः कृत्वा वास्तुदेवान्प्रपूजयेत् १२९
देवानामालये वाथ नृपस्यैव गृहे तथा
विद्याभियोगशालायां सभास्थाने च चत्वरे १३०
मठे तटाकतीरे च रत्थ्याङ्कूपस्य तीरके
प्रतिक्रिया च कर्तव्या रक्तकन्यासमुद्भवे १३१
देवानामालये जाते राजामरणमाप्नुयात्
सञ्जाते राजभवनेनद्राष्ट्रस्यैव नाशनम् १३२
विद्याभियोगशालायां रक्तकन्यासमुद्भवे
तदा मुञ्चति तत् ग्रामं वाग्देवता प्रजापते १३३
सभास्थाने समुत्पन्ने ग्रामनाशं न संशयः
चत्वरे च समुत्पन्ने प्राणिनां नाशनं भवेत् १३४
मठे चैव समुत्पन्ने ग्रामदूषणमादिशेत्
तटाकतीरे सञ्जाते तदा मुञ्चति पद्मतः १३५
रत्थ्या समुद्भवे स्त्रीणां बालानां नाशनं भवेत्
कूपतीरे तु सञ्जाते दुःखार्ताः ग्रामवासिनः १३६
तत्प्रदेशं खनित्वा तु पूरयेच्छुद्धवालुकैः
पुण्याहं वाचयित्वा तु ब्राह्मणान्तत्र भोजयेत् १३७
पञ्चगव्येन सम्प्रोक्ष्य पवमानमुदीरयन्
[[७९८]]
शान्तिहोमन्ततः कृत्वा पलाशसमिधा ततः १३८
तदन्ते स्नपनं कुर्यादेवं सप्ताहमाचरेत्
गोमायूपिङ्गलीगृध्रलूकाश्चैवाथ वायसः १३९
आलयान्तः प्रविष्टे च नृपवेश्मान्तरेऽथ वा
बालानां स्त्रीगणानाञ्च नाशनञ्च समादिशेत् १४०
शीतकुम्भं ततः कृत्वा शान्तिहोमञ्च कारयेत्
ब्राह्मणान्भोजयित्वा तु तदन्ते स्नपनं कुरु १४१
देवालयोपरिष्टात्तु नृपस्य भवनोपरि
श्वारोहे तत्र रुदिते राजामरणमाप्नुयात् १४२
तं हत्वात्र विसृज्याथ पुण्याहं वाचयेद्बुधः
अश्वत्थसमिधा चैव शान्तिहोमञ्च कारयेत् १४३
ब्रांहणान्भोजयेत्तत्र कुर्यात्तु स्नपनं महत्
तदन्ते चोत्सवं कुर्यात् वास्तुदेवान्प्रपूजयेत् १४४
लिङ्गे च प्रतिमे चैव खद्योतारोहणे सति
नॄणाञ्चैव तु सर्वेषां रोगवृद्धिर्धर्ुवं भवेत् १४५
तं प्रहत्वाथ सद्योऽत्र तद्देवान्स्नापयेत्ततः
पूर्वाया समिधा चैव शान्तिहोमञ्च कारयेत् १४६
स्नपनन्तु ततः कुर्यात् महाहविर्निवेदयेत्
लोके पताककेतुभ्यां पतने गूढचारिणि १४७
नानारूपाणि चाश्रित्य पतते केचिदत्र तु
शलभस्योक्तमार्गेण प्रायश्चित्तं समारभेत् १४८
लिङ्गमूलादिनिबिडे जन्त्वारोहणके सति
राष्ट्रक्षोभन्तु दुर्भिक्षं जायते नात्र संशयः १४९
पूजयेद्देवदेवेशमष्टबन्धन्तु कारयेत्
शान्तिहोमन्ततः कृत्वा समिधा खादिरेण तु १५०
शीतकुम्भं ततः कृत्वा प्रभूतहविषन्ददेत्
[[७९९]]
व्यतरिक्तक्रिया कार्या शान्तिहोमेन शाम्यति १५१
आदिशैवेन कर्तव्या न चान्यैश्च विशेषतः
अन्यैश्चैव कृता चेत्तु निष्फलत्वं भवेत्तदा १५२
आचार्यं पूजयेत्तत्र क्रियां प्रतिक्रियां प्रति
वस्त्राङ्गुलीयकैश्चैव गोभूमिधनधान्यकैः १५३
अधमादशनिष्का स्याद्विगुणा मद्ध्यमा भवेत्
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा १५४
यागोपयोगद्रव्याणि देशिकाय प्रदापयेत् १५५
इति अद्भुतशान्तिविधिपटलः
इति प्रायश्चित्तविधिश्चतुश्चत्वारिंशदुत्तरशततमः