नीराञ्जनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण नीराञ्जनविधिक्रमम्
सर्वकृत्त्रिमनाशार्त्थं सर्वलोकहितावहम् ॥ १ ॥
नित्यं नैमित्तिकञ्चैतत् द्विविधन्तदुदाहृतम्
रात्रौ लिङ्गाय नृत्तान्ते कर्त्तव्यं नृत्तमुच्यते ॥ २ ॥
अन्ये च मङ्गले कार्ये चोत्सवं परिवेष्टके
रात्रौ बिम्बाय कर्त्तव्यं नैमित्तिकमिति स्मृतम् ॥ ३ ॥
प्रासादस्याग्रतः कुर्यान्मण्टपञ्चतुरश्रकम्
सम्प्रोक्ष्य हृदयेनैव पात्रन्तत्रैव विन्यसेत् ॥ ४ ॥
पूर्वोक्तलक्षणोपेतं नीराजनाय पात्रकम्
सम्प्रोक्ष्य पुरुषेणैव दीपमारोपयेत्ततः ॥ ५ ॥
रन्ध्राधारे शराधारे चैकाधारे तथैव च
कपिलाज्येन दीपन्तु च्छिन्नवर्णसमायुतम् ॥ ६ ॥
[[७५३]]
रोपयेद्धृदयेनैव अग्निबीजेन बुद्धिमान्
दर्शयेत्पद्ममुद्राञ्च शूलमुद्रान्तथैव च ॥ ७ ॥
दीपपात्रं समुद्धृत्य प्रविशेत् गर्भगेहकम्
देवेशं गन्धपुष्पाद्यैः पूजयित्वा विशेषतः ॥ ८ ॥
लिङ्गस्य मूर्ध्निदीपैश्च त्रिधासम्भ्राम्य वर्मणा
दर्शयेल्लिङ्गमुद्राञ्च बीजमुद्रान्तथैव च ॥ ९ ॥
नित्यमेवं समाख्यातं नैमित्तिकमथ श्रुणु
प्रासादाग्रे तु कर्त्तव्यं मण्टपञ्चतुरश्रकम् ॥ १० ॥
पात्राणि शुद्धतोयैश्च सम्प्रोक्ष्य हृदयेन तु
विन्यसेन्मण्टपे मद्ध्ये नीराञ्जनाय पात्रकम् ॥ ११ ॥
गन्धपात्रन्तथाग्नौ तु निर्ऋते त्वर्घ्यपात्रकम्
वायव्ये पुष्पपात्रन्तु ईशाने भस्मपात्रकम् ॥ १२ ॥
दीपञ्चारोपयेत्पश्चात् अग्निबीजेन पूजयेत्
रुद्रस्य गणिकाभिर्वा ब्राह्मणैर्वा विशेषतः ॥ १३ ॥
तापयित्वा तु पात्राणि सर्वातोद्य समायुतम्
स्वस्तिसूक्तसमायुक्तन्तेषाम्मङ्गलवाचकैः ॥ १४ ॥
हर्म्य प्रदक्षिणं कृत्वा प्रविश्यास्थानमण्टपम्
विज्ञाप्य देवदेवाय देवस्याग्रे विशेषतः ॥ १५ ॥
स्थापयेद्दीपपात्रादि पूजयेन्मण्डपोपरि
पाद्यन्दत्वा तु सद्येन हृदाचाचमनन्ददेत् ॥ १६ ॥
गन्धन्दद्यात्तु शिरसा चाप्यमीशेन दापयेत्
पुष्पन्तु शिखया दद्याद्धूपन्नेत्रेण दापयेत् ॥ १७ ॥
अस्त्रमुद्राञ्च शूलाख्यां पद्ममुद्रां प्रदर्शयेत्
पुनराचमनन्दत्वा दिक् बन्धञ्चास्त्रमन्त्रतः ॥ १८ ॥
पात्रेण दीपमादाय देवस्य तु शिरोपरि
परिगृह्य त्रिधामन्त्री शिखामन्त्रमनुस्मरन् ॥ १९ ॥
[[७५४]]
तदन्ते दापयेत् भस्म नेत्रमन्त्रं समुच्चरन्
दर्पणन्दर्शयेत्पश्चात्प्रणम्य विधिपूर्वकम् ॥ २० ॥
ताम्बूलन्दापयेत्तस्मै मुखवाससमन्वितम्
पीठाग्रे वास्थलाग्रे वा दीपञ्चैव विवर्जयेत् ॥ २१ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ २२ ॥
इति नीराञ्जनविधिपटलस्त्रिचत्वारिंशदुत्तरशततमः