रथसङ्ग्रहणविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि रथसङ्ग्रहणं परम्
सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥ १ ॥
जयदं भूपतेश्चैव सर्वेषां रक्षणार्त्थकम्
अङ्गप्रत्यङ्गसंयुक्तं स्यन्दनं प्रेक्ष्य देशिकः ॥ २ ॥
गत्यागतिन्ततो ज्ञात्वा स्थिरत्वञ्चाथ शिल्पिना
[[७४८]]
तदङ्गानि पुनश्शोद्ध्य स्थपतिः स्थापका ज्ञया ॥ ३ ॥
रथस्थितन्तु तद्रव्यं निवेदयेद्गुरवे ततः
यात्रा योग्यमिदं शम्भोः कृत्वा संस्कारमारभेत् ॥ ४ ॥
पाङ्गानि तस्य चाङ्गानि शोधयेदम्भसा पुनः
मूलेन शिवतोयैश्च स्यन्दनं प्रोक्ष्य संस्पृशेत् ॥ ५ ॥
रथसंस्कारसंयुक्तं सर्वकामफलप्रदम्
अथ देवं समावाह्य रथस्याङ्गेषु योगतः ॥ ६ ॥
चक्रचण्डद्वयोर्माया चक्रेषु शशिभास्करौ
आधारशक्तिराख्याता वाराख्ये दण्डका द्वये ॥ ७ ॥
वृषरूपधरो विष्णुर्वद्ध्यदण्डाधिदेवता
परितः पट्टिकाशाले शतरुद्राः प्रकीर्तिताः ॥ ८ ॥
गात्रेषु गात्रबन्धेषु धर्ममाख्येतकामिकाम्
गात्रात् गात्रान्तरे वायुश्शैत्यादिगुणसंयुतम् ॥ ९ ॥
रथप्रासादिका चोर्द्ध्वस्थूपिकाया यदाशिवः
स्कन्दो वै दक्षिणामूर्तिर्विष्णुर्ब्रह्मा तथैव च ॥ १० ॥
पूर्वादिषु चतुर्दिक्षु न्यस्तव्यास्तत्र यत्नतः
चतुर्वेदमयाश्वेषु वरुणाग्निस्थितानिलः ॥ ११ ॥
ज्ञातव्यापि क्रमेणैव तन्मुखे जठरेङ्घ्रिके
युगेनाग्रे नियोक्तव्या वेदात्मा धर्महेतवः ॥ १२ ॥
ब्रह्मासारथ्य रूपेण अग्रे चैवाश्वतत्भवेत्
अतः प्रोक्तं समाश्रित्य लोकपाला व्यवस्थिताः ॥ १३ ॥
अग्रे च पार्श्वयोश्चैव जया च विजया तथा
एवं सङ्कल्प्य देवांश्च रथपूर्वां क्रमाद्यजेत् ॥ १४ ॥
स्यन्दनं गन्धमालाभिश्चित्रमार्गेण भूषितम्
देवेशं प्रार्त्थयेत्पूज्य रथस्यारोहणं प्रति ॥ १५ ॥
उत्सवे स्थापने चैव चायने विषुवे तथा
[[७४९]]
दिनच्छिद्रेषु सङ्क्रान्तौ त्वमावास्यामथापि वा ॥ १६ ॥
राज्ञो जन्मदिने वाथ रथमारोपयेत्प्रभुम्
रथरोहणपूर्वे तु रात्रौ कौतुकबन्धनम् ॥ १७ ॥
सौवर्णं रजतं वापि सूत्रं कार्प्पासकन्तु वा
शिवाग्रे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः ॥ १८ ॥
तन्मद्ध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम्
तस्योर्द्ध्वे स्थालिकौ न्यस्त्वा तण्डुलेनैव पूरयेत् ॥ १९ ॥
तन्मद्ध्ये विन्यसेत् सूत्रं यजेत्तत्रैव वासुकिम्
परिचारकमाहूय सोष्णीषञ्चोत्तरीयकम् ॥ २० ॥
वस्त्राभरणसंयुक्तं गन्धमाल्यैरलङ्कृतम्
स्थालिकां विन्यसेत्तस्य मूर्द्धन्न्यस्त्रेण देशिकः ॥ २१ ॥
नानालङ्कारसंयुक्तन्नानादीपसमायुतम्
सर्वातोद्य समायुक्तं नृत्तगेय समाकुलम् ॥ २२ ॥
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
सुमुहूर्त्ते सुलग्ने च कौतुकं बन्धयेद्धृदा ॥ २३ ॥
पूजयेद्देवदेवेशं ताम्बूलं तु निवेदयेत्
ततः प्रभाते विमले त्वभिषेकं समाचरेत् ॥ २४ ॥
धौतवस्त्रेति मन्त्रेण नववस्त्रं प्रदापयेत्
उत्तरीयं हृदा दत्वा प्रागुक्तविधिना यजेत् ॥ २५ ॥
पञ्चाग्निं तत्र कुर्वीत पञ्चमूर्त्यधिदैवतम्
स्थण्डिलं वालुकैः कुर्यात् एकाग्निं वा शिवाधिपम् ॥ २६ ॥
कृत्वाग्निमुखसंस्कारमग्निकार्योक्तमार्गतः
समिदाज्य चरुं लाजं तिलं गौलञ्च वस्त्रकम् ॥ २७ ॥
समिधाधि च मन्त्रेण आज्यं मूलेन होमयेत्
चरुं हृदयमन्त्रेण लाजं वामेन होमयेत् ॥ २८ ॥
वर्मणातिलमन्त्रेण गौलन्नेत्रेण वस्त्रकम्
[[७५०]]
द्रव्याणि जुहुयादत्र एकैकं पञ्चविंशतिः ॥ २९ ॥
वस्त्रमेकं हुनेद्धीमान् द्रव्यान्ते व्याहृतिं हुनेत्
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् ॥ ३० ॥
जयादिरभ्याधानञ्च राष्टभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा हुत्वाग्निन्तु विसर्जयेत् ॥ ३१ ॥
आचार्यं पूजयित्वा तु वस्त्रहेमाङ्गुलीयकैः
मूर्तिपान्पूजयेद्धीमान्पूर्वोक्तविधिना सह ॥ ३२ ॥
धेनुकां शातकुम्भञ्च कांस्य पात्रञ्च वस्त्रकम्
नीलञ्चैव विशेषेण देशिकाय प्रदापयेत् ॥ ३३ ॥
तद्दानं शिवदानं स्यात् कर्त्तुरिष्टं प्रदापयेत्
योगिनाद्ध्यानसंयुक्तं शिवज्ञानार्त्थवेदिनाम् ॥ ३४ ॥
वस्त्रञ्च काञ्चनोपेतन्दापयेच्छिवसन्निधौ
विघ्नेशं विघ्नराजाय गन्धपुष्पादिभिर्यजेत् ॥ ३५ ॥
भक्ष्याणि विविधानीह भोज्यानि विविधानि च
पात्रेषु विधिना पूर्य गणानाञ्चेति मन्त्रतः ॥ ३६ ॥
गणेशस्य निवेद्याथ अविघ्नं प्रार्त्थयेत्ततः
प्रयत्नेन गणेशाख्यां शिरसाग्राह्य देशिकः ॥ ३७ ॥
भूषयेद्देवदेवेशं नानाभरणसंयुतम्
नानावस्त्रसमायुक्तं परितः क्षुरिकायुतम् ॥ ३८ ॥
नानापुष्पसमायुक्तन्नानागन्धसमायुतम्
पूजयेत्तु विशेषेण पायसान्नन्ददेत्ततः ॥ ३९ ॥
रौप्यं कटाहमानीय शिवाग्रे स्थण्डिले न्यसेत्
चन्दनागरुकर्प्पूरं श्लक्ष्णपिष्टं सकुङ्कुमम् ॥ ४० ॥
कटाहे वरुणे योज्यमत्वोखैकन्तवद्यथा
मल्लिका फलपुष्पाणि जातिपुन्नागचम्पकैः ॥ ४१ ॥
पदे निक्षिप्य सम्पूज्य कामबीजेन मन्त्रवित्
[[७५१]]
आर्द्रपङ्कं ददेत्कर्त्तुर्देशिकश्शङ्कराज्ञया ॥ ४२ ॥
आर्द्रपङ्कञ्जनौ घस्य दापयेत्परितस्तदा
सुमुहूर्त्ते सुलग्ने तु स्वस्तिसूक्तं समुच्चरन् ॥ ४३ ॥
रथस्थानं शनैर्नीत्वा तस्मिन्नारोपयेत्प्रभुम्
तुङ्गं वापि पुपाश्चापि रत्ये सन्नरताहकम् ॥ ४४ ॥
सर्वालङ्कारसंयुक्तं कारयेत्तु यथा विधि
स्यन्दनस्य समन्तात्तु सौवर्णं भूष्य यत्नतः ॥ ४५ ॥
आचार्यो रत्नदामैश्च पुष्पमालैः प्रलम्बयेत्
रथमद्ध्ये पशुपतिं लोकरक्षार्त्थकं यजेत् ॥ ४६ ॥
तरङ्गेण समावेष्ट्य नैवेद्यञ्च ततः कुरु
नैवेद्य कर्मसम्पूर्णे पटन्तत्रापनीय च ॥ ४७ ॥
ऊर्द्ध्वकं पुष्पमोक्षं स्यात् गन्धवारिविमिश्रितम्
देशिकेन प्रयुक्तञ्च द्यौकसान्सुप्रियान्भवेत् ॥ ४८ ॥
नभश्चरणमापीत्वा विकिरेत्पुष्परत्नकम्
भूतानाञ्चैव तुष्ट्यर्त्थं हैमरत्नानि निक्षिपेत् ॥ ४९ ॥
अन्योन्य विभवेनैव आगत्यात्रैव सादरात्
देवं सर्वाङ्गमालिप्य आर्द्रपङ्कं हृदा बुधः ॥ ५० ॥
ताम्बूलन्दापयेत्पश्चात् सकर्प्पूरं विशेषतः
मन्त्रीयन्ते यजेत्तत्र तत्प्रमादार्त्थकाङ्क्षया ॥ ५१ ॥
दिवं प्रयान्त्य सन्देहं प्रमादात्परमेष्ठिनम्
षट् तत्वदर्शनञ्चैव समयाचारपालकम् ॥ ५२ ॥
आचार्यं वस्त्रहेमाद्यैः पूजयित्वा तु भक्तितः
उपादानार्हकूटे तु रथमारोपितन्नयेत् ॥ ५३ ॥
सर्वातोद्य समायुक्तं गेयनृत्तादिभिर्युतम्
नानादीपसमायुक्तं दर्शयेच्छिवसन्निधौ ॥ ५४ ॥
ग्रामादिषु विशेषेण रथयात्रां शिवस्य तु
[[७५२]]
इह भोगानवाप्नोति तत्प्रसादाच्छिवस्य तु ॥ ५५ ॥
एकविंशत्कुलोपेतं शिवलोके वसेच्छिवम्
मुच्यते सर्वर्पापेभ्यो रथसेवा परोजनः ॥ ५६ ॥
स्यन्दनारोहणं ह्येवं स्यन्दनप्रोक्षणं श्रुणु
रथसम्पन्नकाले तु सम्प्रोक्षणमथाचरेत् ॥ ५७ ॥
सुमुहूर्त्ते सुलग्ने तु नक्षत्र करणान्विते
तक्षकं वस्त्रहेमाद्यैः पूजयित्वा विसर्जयेत् ॥ ५८ ॥
पञ्चगव्यैश्च सम्प्रोक्ष्य पवमानमुदीरयन्
पुण्याहं वाचयित्वा तु शान्तिहोमन्तु कारयेत् ॥ ५९ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
भूषयेत्स्यन्दनं पश्चात् रथारोहणमारभेत् ॥ ६० ॥
इति रथसङ्ग्रहणविधिः द्विचत्वारिंशदुत्तरशततमः