अतः परं प्रवक्ष्यामि सप्तविंशति उत्सवम्
उत्तमं मद्ध्यमञ्चैव अधमञ्च त्रिधा भवेत् ॥ १ ॥
[[७४६]]
उत्तमन्नवकेकुर्वै मद्ध्यमं पञ्चकेतुकम्
त्रयकेत्वधमं ब्रह्मन् उत्सवे तु त्रिधामतः ॥ २ ॥
अथोत्सवक्रियास्सर्वाः कत्थ्यन्ते क्रमशोऽधुना
विघ्नेश्वरस्य पूजाञ्च मूलदेवस्य पूजनम् ॥ ३ ॥
वास्तुशान्तिन्ततः कृत्वा मृत्सङ्ग्रहमतः परम्
द्ध्वजारोहणपूर्वेद्युः द्ध्वजाङ्कुरन्तु कारयेत् ॥ ४ ॥
वृषाधिवासनं पश्चात् दण्डस्थापनकन्ततः
अपरेद्युर्दिने प्रान्तः वृषयागं समाप्य च ॥ ५ ॥
पटं प्रदक्षिणी कृत्य पटं सूत्रे निबन्धयेत्
वृषकुम्भन्तु संयोज्य मद्ध्याह्ने द्ध्वजमारभेत् ॥ ६ ॥
आरोहतीर्त्थन्तत्काले स्नानकर्मसमाचरेत्
सर्वेषु यागपूर्वेषु यागाङ्कुरन्तु कारयेत् ॥ ७ ॥
यागपूजान्ततः कृत्वा होमकर्मसमाचरेत्
ततस्सूत्राधिवासञ्च सूत्रधामप्रदक्षिणम् ॥ ८ ॥
इन्दुशेखरमूत्तर्यादि ततः कौतुकबन्धनम्
ततो देवं समुद्धृत्य वाद्यगीतसमन्वितम् ॥ ९ ॥
द्ध्वजस्थानन्तु सम्प्राप्य भेरीताडनकन्ततः
अस्त्रराजन्तु सम्पूज्य देवतावाहनन्नयेत् ॥ १० ॥
आशीर्वादन्ततः कृत्वा ब्रह्मघोषसमन्वितम्
अस्त्रेण वाद्य घोषेण सार्द्धं ग्रामप्रदक्षिणम् ॥ ११ ॥
सन्धिदेवान् समावाह्य बलिन्तत्र प्रदापयेत्
द्वादशं गणयागन्तु पञ्चाहमस्त्र इष्टिकम् ॥ १२ ॥
शिवयागो नवाहं स्यात् यागत्रयमिहोच्यते
आरोहाद्दिनमारभ्य त्रिदशप्रातरान्तकम् ॥ १३ ॥
गणयागमिति प्रोक्तम् अस्त्रयागमतः परम्
तद्रात्र्याश्च समारभ्य प्रातरष्टदशाहकम् ॥ १४ ॥
[[७४७]]
अस्त्रयागमिति प्रोक्तं महायागमतः परम्
तद्रात्र्याश्च समारभ्य सप्तविंशद्दिनान्तकम् ॥ १५ ॥
महायागदिनं प्रोक्तं दिनसङ्ख्या प्रकीर्तिताः
यागदीक्षां गणेशस्य नीराजनमतः परम् ॥ १६ ॥
स्कन्दयागं ततो दद्यात् भक्तयागं तदन्तके
यागकुम्भान्गणेशस्य अभिषेकं समाचरेत् ॥ १७ ॥
अस्त्रयागं ततः कल्प्य चन्द्रशेखरवीक्षणम्
अस्त्रदेवे विशेषेण अस्त्रकुम्भाभिषेचयेत् ॥ १८ ॥
अष्टादश दिने रात्रौ द्ध्वजानष्टौ समाचरेत्
महायागे विशेषेण तीर्त्थाङ्कुरं तु कारयेत् ॥ १९ ॥
यागार्च्चनं ततः कृत्वा वह्निकार्यमतः परम्
सोमास्कन्दादिदेवानां ततः कौतुकबन्धनम् ॥ २० ॥
चूर्णोत्सवं महातीर्त्थं पूर्णाहुतिमनन्तरम्
यागकुम्भाभिषेकञ्च अवरोहान्ततः परम् ॥ २१ ॥
लोकपालविसर्गञ्च मौनोत्सवन्तदन्तके
शक्त्युत्सवन्ततः कुर्यात् उडुपारोहणन्ततः ॥ २२ ॥
चण्डयागन्ततः पश्चात् दक्षिणादानमन्तके
एकोनषष्टिकं कर्मक्रियास्सर्वास्समाचरेत् ॥ २३ ॥
इति महोत्सवपटल एकचत्वारिंशदुत्तरशततमः