महोत्सवविधिपटलप्रारम्भः
उत्सवस्य विधिं वक्ष्ये सर्वविद्धिप्रदं शुभम्
सव इत्युच्यते सृष्टिस्तदुत्स्याच्छब्दभाषितम् ॥ १ ॥
उद्भूतसृष्टिकारत्वात् उत्सवं कथितो मया
उत्सवं षड्विधं ज्ञेयं तेषां भेदं निबोधत ॥ २ ॥
पैतृकं द्वादशाहन्तु नवाहं सौख्यमुच्यते
सप्ताहं श्रीकरं प्रोक्तं पञ्चाहं पार्त्थिवं स्मृतम् ॥ ३ ॥
सात्विकन्त्यहं प्रोक्तमेकाहं शैवमुच्यते
उत्सवं कारयेद्धीमान् पुष्यर्क्षान्तं हि पुष्यके ॥ ४ ॥
माखमासे मखान्तं वा षष्ठ्यन्तं वा प्रजायते
उत्तरान्तन्तु फल्गुन्न्यां चित्तान्तञ्चैत्रमासके ॥ ५ ॥
विशाखान्तं हि विशाखे ज्येष्ठके मूलभान्तकम्
तन्मासे चैव कर्त्तव्यं कृष्णाष्टम्यान्तु उत्सवम् ॥ ६ ॥
[[७२०]]
उत्तराषाढमाषाढे श्रावणे वैष्णवान्तकम्
पूर्वाषाढं हि तन्मासे चाश्वयुङ्मासिचाश्विनीम् ॥ ७ ॥
कृत्तिकान्तं हि कार्त्तिक्यामार्द्रान्तं मार्गशीर्षके
सर्वमासेषु कर्तव्यमार्द्रान्तमुत्सवं परम् ॥ ८ ॥
सौरमासं प्रशस्तं हि चान्द्रमासो प्रशस्तकम्
प्रतिष्ठाभागमारभ्य यदृक्षञ्चोत्सवान्तकम् ॥ ९ ॥
प्रतिष्ठोत्सवमेतद्धि तद्वा प्रत्यब्दमाचरेत्
नृपाणाञ्जन्मभान्तं वा मरणर्क्षान्तमेव वा ॥ १० ॥
आरम्भं त्रिविधन्तेषां केतुरोहणपूर्वकम्
भेरी ताडनपूर्वं स्यादङ्कुरार्पणपूर्वकम् ॥ ११ ॥
पूर्वन्तु ध्वजमारोप्य भेरीन्तु ताडयेन्क्रमात्
ततोङ्कुरार्पणञ्चैव केतुरोहणपूर्वकम् ॥ १२ ॥
भेरीमादौ समुत्ताड्य द्ध्वजारोहणमारभेत्
अङ्कुराण्यर्पयेत्पश्चात् भेरीताडनपूर्वकम् ॥ १३ ॥
पूर्वंेकुरार्पणं कुर्यात् पश्चात् भेरीन्तु ताडयेत्
द्ध्वजमारोपयेत्पश्चात्कुर्वेवं प्रथमे निशि ॥ १४ ॥
पार्त्थिवे सात्विके शैवे वर्जयेत्केतुरोहणम्
तद्दिनत्रितये वापि द्वितीये चोत्सवादिके ॥ १५ ॥
ध्वजमारोपयित्वा तु तीर्त्थान्तं श्रावयेत्सुधीः
ताये चोत्सवमारभ्य प्रातरे वावभृथं कुरु ॥ १६ ॥
रात्रिशाधमिति प्रोक्तं दिवाः प्रातः प्रकीर्तिताः
उत्सवं द्विविधं ज्ञेयं पुष्कलं विजयन्त्विति ॥ १७ ॥
अन्न्योत्सवन्दिनन्तेषां पूर्वरात्रौ समारभेत्
अश्विनीकौशिकोनाडीमनुशैवस्मृतिस्तथा ॥ १८ ॥
चतुर्विंशत्क्रमेणैव बलिसङ्ख्याः प्रकीर्तिताः
शैवादि चैत्रकान्तानां पुष्कलस्य विधीयते ॥ १९ ॥
[[७२१]]
निर्द्दिष्टदिवसाद्रात्रिमारभ्योत्सवमाचरेत्
व्योमवेदाष्टकादित्याः कलापाविंशतिः क्रमात् ॥ २० ॥
शैवादि पैतृकान्तानां दिवसानां क्रमेण तु
बलिसङ्ख्या इति प्रोक्ता विजयस्य प्रकीर्तिताः ॥ २१ ॥
शैवोत्सवे तु यत्सर्वं प्रातःकाले समारभेत्
अधिवासे वृषां केतुरोहणं पूर्वरात्रके ॥ २२ ॥
सम्पूज्य देवदेवेशं ज्ञापयेदुत्सवं कुरु
वृषभं पूजयेत्तत्र गन्धपुष्पादिभिः क्रमात् ॥ २३ ॥
मुद्गान्नन्दापयेत्तस्मै तस्याग्रे स्थण्डिलं कुरु
शालिभिस्तण्डुलैर्दर्भैस्तन्मद्ध्ये नलिनं लिखेत् ॥ २४ ॥
नवकुम्भान् समादाय क्षालयेच्छुद्धवारिणा
ससूत्रान्सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ २५ ॥
सकूर्चान्पल्लवोपेतान् स्थापयेत्स्थण्डिलोपरि
मद्ध्यमे वृषकुम्भन्तु अभितोष्टघटान्न्यसेत् ॥ २६ ॥
वृषभे सुमगन्धाद्यैः पूजयेत्तु विशेषतः
इन्द्रादीशानपर्यन्तान् लोकपालान्समन्त्रकान् ॥ २७ ॥
गन्धपुष्पादिभिः पूज्य अस्त्रमुद्रां प्रदर्शयेत्
श्लक्ष्णं शुक्लन्तथा सूक्ष्मरन्ध्राष्टकरणानि च ॥ २८ ॥
उत्तमादीनि वस्त्राणि भूतभागैकविस्तृतम्
तारार्द्धं शिखरं ज्ञेयं पुच्छं तारसमं भवेत् ॥ २९ ॥
पक्षवेत्रसमायुक्तं पुच्छद्वयसमायुतम्
तत्पटं पञ्चथाभज्य मद्ध्यभागे वृषं लिखेत् ॥ ३० ॥
वृषभः श्वेतवर्णस्तु रक्तास्सर्वंेकुरास्मृताः
सितकृष्णमयीचाक्षि हेमाभौ श्रृङ्गवर्णकौ ॥ ३१ ॥
कर्णे तु रत्नवर्णाभौ वालं पीतेन शोभितम्
घण्टामाला सुवर्णाभा स्थिता वा शयितन्तु वा ॥ ३२ ॥
[[७२२]]
चित्रञ्च चामरौ चैव ऊर्द्ध्वभागे लिखेद्बुधः
मद्ध्यभागा दधो भागे चाब्जपीठं समालिखेत् ॥ ३३ ॥
दीपाधारे लिखेद्दीपं युक्तौ तौ पार्श्वयोरपि
सम्प्रोक्ष्य हृदयेनैव गन्धपुष्पादिभिर्यजेत् ॥ ३४ ॥
स्थण्डिलं कारयेत्पश्चात् वृषकुम्भाग्रके ततः
तत् घतं हृदयेनैव स्थण्डिलस्योपरिन्न्यसेत् ॥ ३५ ॥
वृषगायत्रिमन्त्रेण यजेत् गन्धादिभिस्तथा
अग्नेरायतनं कुर्यात् वालुकैश्च तिलैस्तथा ॥ ३६ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
पलाशसमिधं सद्यमन्त्रेणैव तु होमयेत् ॥ ३७ ॥
हुत्वाज्यं वृषमूलेन चरन्तं हृदयेन तु
प्रत्येकं शतर्मर्द्धं वा हुत्वा स्विष्टान्तमाचरेत् ॥ ३८ ॥
अपरे दिवसे धीमान्द्ध्वजरोहणमारभेत्
पूर्वाह्ने वाथ मद्ध्याह्ने रात्रौ वा सुमुहूर्त्तके ॥ ३९ ॥
पीठगोपुरयोर्मद्ध्ये वीठाग्रे वा विषाग्रके
महामर्याधिमद्ध्ये वा द्ध्वजस्थानं विधीयते ॥ ४० ॥
वन्दनं चम्पकञ्चैव क्रमुकं वैष्णवन्तथा
बिल्वञ्च देवदारुञ्च आसनं खदिरन्तथा ॥ ४१ ॥
वक्रं भिन्नञ्च सुषिरं कृमिकोटरसंयुतम्
वर्जयेत्तान्प्रयत्नेरग्राहयेल्लक्षणान्वितम् ॥ ४२ ॥
स्थूप्यन्तं वा गलान्तं वा वक्षस्थलसमन्तु वा
त्रिकालस्य समं वापि गोपुरस्य समन्तु वा ॥ ४३ ॥
तत् ग्रीवस्यान्तकं वापि दण्डायामं विधीयते
ऋक्षाङ्गुलन्तु नाहं स्यात् दण्डमूलमथोत्तमम् ॥ ४४ ॥
अन्न्यसन्तु कलाङ्गुल्यं विंशत्यङ्गुलमद्ध्यमम्
तन्नाहमष्टधा कृत्वा एकभागन्तु हीनकम् ॥ ४५ ॥
[[७२३]]
तद्दण्डाग्रस्य नाहन्तु अनुकूल्यं कुरु क्रमात्
स्कन्दत्रयन्तु दण्डाग्रे त्रिप्रादेशमथान्तकम् ॥ ४६ ॥
कलाङ्गुलसमायामं रुद्राङ्गुलन्तु विस्तृतम्
अग्न्यङ्गुलघनं प्रोक्तं स्कन्दं वै दर्विका कृतिः ॥ ४७ ॥
द्वयं सुषिरसंयुक्तमर्द्धचित्रपथे कृतम्
मुनिषट् भूतमात्रं स्यात् वेणुदण्डस्य नाहकम् ॥ ४८ ॥
रन्ध्रप्रादेशमात्रन्तु द्ध्वजयष्ट्यास्तु दैर्घ्यकम्
स्कन्दत्रयाणामग्रे तु सुषिरन्तन्निवेदयेत् ॥ ४९ ॥
योजयेद्ध्वजयष्ट्यूर्द्ध्वे स्कन्दमेकन्निवेशयेत्
अनामिकाङ्गुलायामं तदर्द्धञ्चैव विस्तृतम् ॥ ५० ॥
सुषिरद्वयाञ्चितञ्चैव स्कन्दवत्कारयेद्बुधः
सुषिरे योजयेद्रज्जुं द्विगुणं मूलमाश्रितम् ॥ ५१ ॥
आयसं वलयं वापि बन्धयेद्देशिकोत्तमः
अनिष्ठाङ्गुलिपरीणाहं समन्तात् कारयेद्बुधः ॥ ५२ ॥
परिचारकान् समाहूय सोष्णीषञ्चोत्तरीयकम्
द्ध्वजं संवाहयित्वा तु नानाद्ध्वजसमायुतम् ॥ ५३ ॥
नानावाद्य समायुक्तं पिञ्च्छचामरसंयुतम्
ततो भक्तजनैस्सार्द्धं कुर्यात् ग्रामप्रदक्षिणम् ॥ ५४ ॥
प्रविशेदालयं पश्चात् द्ध्वजस्थानं समाश्रयेत्
दण्डशुद्धिन्ततः कुर्यात्प्रोक्षयेद्धृदयेन तु ॥ ५५ ॥
प्रदक्षिणक्रमेणैव दर्भमालान्तु विन्न्यसेत्
वृषभं षण्मुखं वायुं मूलमद्ध्ये तदग्रके ॥ ५६ ॥
गन्धपुष्पादिभिश्चैव तत्तत् बीजमनुस्मरन्
चतुस्तालप्रमाणेन खातयेत्प्रथिवीन्ततः ॥ ५७ ॥
शातकुम्भमयेनैव कच्छपन्तत्र निक्षिपेत्
पूजयेद्धृदयेनैव गन्धपुष्पादिभिर्बुधः ॥ ५८ ॥
[[७२४]]
हर्म्यस्यापि मुखास्तत्र कर्माणि स्थाप्य दण्डकम्
सुस्निग्धं कारयित्वा तु तन्मूले वेदिकां कुरु ॥ ५९ ॥
हस्तद्वयन्तु विस्तारमुत्सेधन्तु तदर्द्धकम्
त्रिमेखलासमायुक्तमेकैकं पर्वताङ्गुलम् ॥ ६० ॥
तत्समञ्चैव विस्तारं वेद्यूर्द्ध्वेब्जन्तु कारयेत्
अथवान्यप्रकारेण वेदिकालक्षणं श्रुणु ॥ ६१ ॥
हस्तमात्रप्रविस्तारन्तत्समञ्चोच्छ्रयं भवेत्
षडङ्गुलोच्छ्रयमानेन अब्जन्तत्रैव कल्पयेत् ॥ ६२ ॥
गोमयालेपनं कृत्वा कुर्याच्छिल्पिविसर्जनम्
पुण्याहं वाचयित्वा तु प्रोक्षयेत्पञ्चगव्यकैः ॥ ६३ ॥
सङ्ग्रह्य सापितान्कुम्भान् वृषदिक्फलकामिकान्
वृषमन्त्रं न्यसेद्धीमान् पटमद्ध्ये वृषा कृति ॥ ६४ ॥
शुद्धतोयेन सम्प्रोक्ष्य गन्धपुष्पादिभिर्यजेत्
सर्वातोद्य समायुक्तं मङ्गलां कुरु शोभितम् ॥ ६५ ॥
पूज्य संहितयायुक्तन्नानादीपैरलङ्कृतम्
गीतद्ध्वनिसमायुक्तन्नृत्तं कुर्याच्चतुर्दिशः ॥ ६६ ॥
आरोपयेत्ततो मन्त्री वृषगायत्रिणाद्ध्वजम्
दण्डसैव्य क्रमेणैव मूले रज्जुं समन्नयेत् ॥ ६७ ॥
दिक्पालाधिपकुम्भैश्च दण्डमूलेऽभिषेचयेत्
वृषभं पूजयेन्मूले गन्धपुष्पादिभिर्हृदा ॥ ६८ ॥
नैवेद्यन्दापयेदाज्यं गुलदद्ध्युपदंशकैः
वृषगायत्रिमन्त्रेण दापयेद्देशिकोत्तमः ॥ ६९ ॥
तत् भुक्त्वा चात्रया भज्य लभेत्पुत्रान्नसंशयः
एवं कृत्वा ततो रात्रौ भेरी ताडनमारभेत् ॥ ७० ॥
द्ध्वकाग्रे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः
तण्डुलैश्च तिलैर्दर्भैर्न्निर्मितं पद्मलाञ्छितम् ॥ ७१ ॥
[[७२५]]
तस्योपरिन्यसेद्भेरीन्नववस्त्रेण वेष्टयेत्
रुद्रं सम्पूज्य विधिवत् विष्णुं वामे तु पूजयेत् ॥ ७२ ॥
तस्योर्द्ध्वे स्थण्डिलं कुर्यादष्टपत्रं सकर्णिकम्
शूलास्त्रं हि यजेत्तत्र गन्धपुष्पादिभिः क्रमात् ॥ ७३ ॥
देशिकस्ताडयेद्भेरीं प्राङ्मुेखो वाप्युदङ्मुखः
त्रयम्बकेन मन्त्रेण पूर्वघोणेन ताडयेत् ॥ ७४ ॥
इदं विष्ण्वादिमन्त्रेण ततो भेरीन्तु ताडयेत्
ब्रह्मजज्ञानमन्त्रेण तृतीयन्ताडयेत्क्रमात् ॥ ५५ ॥
आहूयवाद्यकं पश्चात्पुष्पं हस्ते च दापयेत्
पुष्पन्निक्षेपयेद्भेर्या नमस्कृत्वा तु वाद्यकम् ॥ ५६ ॥
भेरीमुद्धृत्य घोणेन वादयेत्ताडयन्क्रमात्
पश्चादाहूय देवांश्च देशिकं शिष्य एव वा ॥ ५७ ॥
सर्वातोद्य समायुक्तं पिञ्छचामरसंयुतम्
नृत्तगेय समायुक्तं स्तोत्रमङ्गलवाचकैः ॥ ५८ ॥
अन्नलिङ्गसमायुक्तं त्रिंशूलेन समायुतम्
ग्रामप्रदक्षिणं कुर्यात् सन्धिदेवान्समाह्वयेत् ॥ ५९ ॥
ब्रह्माद्यैशानपर्यन्तमिन्द्राद्यैशानमेव वा
गन्धपुष्पादिभिश्चैव पूजयेद्देशिकोत्तमः ॥ ६० ॥
शुद्धोदनं गुलान्नं वा बलिन्दद्याद्विशेषतः
स्तुत्वा दिक्पालमन्त्रैश्च उत्सवं श्रावयेत्ततः ॥ ६१ ॥
एवं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
द्ध्वजाङ्कुरार्पणं पूर्वं द्वितीये चोत्सवाङ्कुरम् ॥ ६२ ॥
तीर्त्थाङ्कुरं तृतीयन्तु त्रिविधश्चोत्सवाङ्कुरम्
सर्वेषु गायपूर्वेषु कारयेद्विधिना सह ॥ ६३ ॥
द्ध्वजारोहणपूर्वं स्यादेवमङ्कुरमुच्यते
भेर्याङ्कुरार्पणं पूर्वं द्वितीये चोत्सवाङ्कुरम् ॥ ६४ ॥
[[७२६]]
तीर्त्थाङ्कुरं तृतीयन्तु त्रिविधन्नाङ्कुरार्पणम्
अथवान्यप्रकारेण नेष्टमङ्कुरमङ्कुरम् ॥ ६५ ॥
अनङ्कुरन्तु यत्कर्म तत्कर्मन्निष्फलं भवेत्
तस्मात्सर्वप्रयत्नेन साङ्कुरार्पणमारभेत् ॥ ६६ ॥
सर्वेषु गायपूर्वेषु कारयेद्विधिना सह
ऐन्द्रे वा दक्षिणे वापि पश्चिमे चोत्तरेऽपि वा ॥ ६७ ॥
ऐशान्ये पावके वाथ कारयेद्यागमण्टपम्
रुद्ररन्ध्रैर्विधिर्वाथ सहस्तञ्चतुतारकम् ॥ ८८ ॥
युगाग्रन्तु कलास्त्रैश्च श्रुतिद्वारसमायुतम्
तालमात्रन्तु तालोच्चं दर्पणोदरसन्निभम् ॥ ८९ ॥
तन्मद्ध्ये वेदिकां कुर्यात् गृहभागैकभागतः
रत्निमात्रसमुत्सेधम्मुष्टिमात्रमथापि वा ॥ ९० ॥
कुण्डानि परितः कुर्याद्दिशासु विदिशासु च
चतुरश्राणि वृत्तानि दिशासु विदिशासु च ॥ ९१ ॥
ईशानशक्रयोर्मद्ध्ये वृत्तं प्राधानकं कुरु
हस्तमात्रप्रविस्तारं प्रागुक्तलक्षणं कुरु ॥ ९२ ॥
पञ्चाग्न्यावाथ कुर्वीत चतुर्दिक्षु तथापि वा
पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा ॥ ९३ ॥
कारयेच्चतुरश्रन्तु ऐकाग्नेस्तु विधीयते
गोमयालेपनं कृत्वा पर्यग्निकरणं कुरु ॥ ९४ ॥
युगतोरणसंयुक्तं दर्भमालासमायुतम्
अष्टदिक् ध्वजसंयुक्तं वितानोपरिशोभितम् ॥ ९५ ॥
पुष्पदामैरलङ्कृत्य मुक्तादामैः प्रलम्बयेत्
प्रोक्षयेत्पञ्चगव्यैश्च पुनः पुण्याहमाचरेत् ॥ ९६ ॥
द्वारपूजादिकं सर्वं पूर्वोक्तविधिनाचरेत्
यागस्य दिवसात्पूर्वरात्रौ कुर्वधिवासनम् ॥ ९७ ॥
[[७२७]]
शिवाग्रे स्थण्डिलं कृत्वा साष्टपत्रं सकर्णिकम्
स्थलिकां तण्डुलैः पूर्य कर्णिकोर्ध्वे तु विन्यसेत् ॥ ९८ ॥
सौवर्णमूर्णसूत्रं वा क्षौमकार्पासकन्तु वा
तत्सूत्रं भस्मसंयुक्तं तण्डुलोपरिविन्न्यसेत् ॥ ९९ ॥
गन्धपुष्पादिभिः पूज्य अघोरेणैव दर्शनम्
भवानी सहितं शान्तं प्रतिमाञ्चोत्सवाय च १००
पूजयेद्गन्धपुष्पाद्यैस्तदीशानेन मन्त्रतः
पुण्याहं वाचयित्वा तु शान्तिसूक्तसमन्वितम् १०१
त्रियम्बकेन मन्त्रेण कौतुकं बन्धयेद्धृदा
तथास्त्राणि च शूलानि कौतुकं बन्धयेत्क्रमात् १०२
अघोरास्त्रेण मन्त्रेण भस्मन्दत्वा पृथक्पृथक्
नित्योत्सवं ततः कुर्यादन्नलिङ्गसमन्वितम् १०३
प्रदक्षिणत्रयं कृत्वा पश्चात् ग्रामप्रदक्षिणम्
प्रविशेदालयं पश्चात् हर्म्यप्रदक्षिणं कुरु १०४
प्रविश्य गर्भगेहन्तु शेषं पूर्ववदाचरेत्
अपरे तु दिने रात्रौ चास्त्रयागं समाचरेत् १०५
प्रागुक्तलक्षणोपेतस्त्वादिशैवोऽथ मूर्तिपैः
विधिनास्नानकं कृत्वा देशिकः शिष्यसंयुतः १०६
यागशालां प्रविश्याथ सकलीकरणं कुरु
स्थण्डिलं वेदिकोर्ध्वे तु चाष्टद्रोणैश्च शालिभिः १०७
तण्डुलैश्शोभितं कृत्वा तस्योर्ध्वे नलिनं लिखेत्
दर्भैश्चैव परिस्तीर्य पुष्पैर्लाजैश्च शोभितम् १०८
गन्धाद्यैरर्चयेत्तत्र हृदयेन तु देशिकः
ससूत्रान्सापिधानांश्च द्रोणोदकप्रपूरितान् १०९
सवस्त्रान् नवकुम्भांश्च वर्द्धनीं तण्डुलोपरि
मद्ध्यमे शिवकुम्भन्तु वर्द्धनीं तस्य वामके ११०
[[७२८]]
परितश्चाष्टकुम्भांश्च विन्यसेत्तु क्रमात्सुधीः
प्रत्येकं वस्त्रयुग्मैश्च वेष्टयेद्धृदयेन तु १११
शिवाख्यं पञ्चरत्नञ्च वर्द्धनीं काञ्चनीं क्षिपेत्
ध्यायेत्सदाशिवं रूपं शिवकुम्भस्य मद्ध्यमे ११२
शिवमन्त्रन्न्यसेत्तत्र यजेद्गन्धादिभिर्हृदा
ध्यात्वा सम्पूजयेन्मद्ध्ये वर्द्धन्यान्तु मनोन्मनीम् ११३
अभितश्चाष्टकुम्भेषु लोकपालान्स्वमन्त्रकैः
गन्धपुष्पादिभिश्चैव पूज्य चास्त्रान् प्रदर्शयेत् ११४
अस्त्राणि विन्यसेद्धीमात् पद्मबाह्ये क्रमेण तु
अस्त्रादिशूलपर्यन्तमिन्द्रादीशानमन्त्रकम् ११५
गन्धपुष्पादिभिः पूज्य अस्त्रबीजेन बुद्धिमान्
ऐशाने यागशालायां स्थण्डिलं शालिभिः कुरु ११६
तन्मद्ध्येऽब्जं लिखेद्धीमान् त्रिशूलन्तत्र विन्न्यसेत्
नववस्त्रेण संवेष्ट्य गन्धपुष्पादिभिर्यजेत् ११७
मङ्गलाष्टकरूपाणि वेदिबाह्ये तु पूजयेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ११८
समिदाज्य चरून् लाजान्माषशालियवास्तथा
तिलसर्षपदुग्धानि गुलखण्डोदशस्तथा ११९
सद्यादीशानपर्यन्तं मन्त्रैश्चैव क्रमाद्धुनेत्
शतमर्द्धं तदर्द्धं वा प्रत्येकं जुहुयात्क्रमात् १२०
अश्वत्थोदुम्बरप्लक्षवटं पूर्वादि दिक्षु वै
शमीखदिरबिल्वार्कविदिक्षु क्रमशस्तथा १२१
प्रधानस्य पलाशन्तु द्रव्यान्ते व्याहृतिं हुनेत्
घृतम्मूलेन मन्त्रेण हुनेदष्टशतं सुधीः १२२
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पश्चान्मन्त्रेण शिरसा स्रुचिपूर्णाहुतिं हुनेत् १२३
[[७२९]]
नैवेद्यन्दापयेद्धीमान् होमान्ते यागमूर्तिनाम्
सायं प्रातर्बलिन्दद्याद्धोमान्ते विधिना पुरा १२४
द्रोणं वापि तदर्द्धं वा बल्यर्त्थन्तण्डुलं पचेत्
कटाहं स्थालिकं वापि पात्रं प्रक्षाल्यनिक्षिपेत् १२५
तत्पात्रे निक्षिपेदन्नमन्नद्रव्य समायुतम्
पात्रतण्डुलकं पक्वमन्नलिङ्गाय बुद्धिमान् १२६
बलिपात्रं समादाय प्रोक्षयेदस्त्रमन्त्रतः
तेन चान्नेन लिङ्गं तु कारयेल्लक्षणान्वितम् १२७
द्वादशाङ्गुलमायामन्नाहं तु द्विगुणं भवेत्
अग्रे पक्षाङ्गुलं तारमापूर्य कुशलस्तथा १२८
तल्लिङ्गस्थं ततो द्ध्यात्वा रौद्रं पाशुपतं यजेत्
परिचारान् समाहूय सुस्नातान् शुक्लवस्त्रकान् १२९
सोष्णीषञ्चोत्तरीयञ्च पवित्रपाणिकश्शुचिः
शूलास्त्रञ्चान्नलिङ्गञ्च बलिपात्रन्तथायुधान् १३०
गन्धपुष्पादिभिश्चैव धूपदीपसमायुतम्
यन्त्रोपरिनयेद्वाथ वाचयित्वा गलैरपि १३१
कितानच्छत्र संयुक्तं पिञ्छचामरसंयुतम्
तालकाहलसङ्घैश्च वाद्यैर्द्ध्वजैश्च संयुतम् १३२
द्ध्वजादि बलिपीठान्तं बलिन्दद्याद्विशेषतः
हस्तमात्रप्रविस्तारमुत्सेधं द्वादशाङ्गुलम् १३३
मेखलात्रयसंयुक्तं प्रत्येकञ्चतुरङ्गुलम्
उत्सेधन्तत्समञ्ज्ञेयन्तन्मद्ध्ये कर्णिकां कुरु १३४
कारयेत् बलिपीठन्तु प्रतिसन्ध्यं यथा क्रमम्
दारुणायन्त्रपीठं वा लेपनं वापि कारयेत् १३५
प्रथमं विघ्नराजं स्यात् पैशाचं स्यात् द्वितीयकम्
तृतीयं ब्रह्मरात्रिः स्यात् गन्धर्वायाश्चतुर्त्थकम् १३६
[[७३०]]
पञ्चमं भूतरात्रिः स्यात् षष्ठमं गुहरात्रकम्
सप्तमम् ऋषिरात्रं स्यादष्टमन्नागरात्रकम् १३७
नवमञ्चन्द्ररात्रं स्यात् दशमं विष्णुरात्रकम्
राक्षसं रुद्ररात्रन्तु द्वादशं शिवरात्रकम् १३८
दिनाधिदेवतास्त्वेवं पैतृकस्योत्सवस्य तु
गन्धर्वदिवसादिः स्यात्सौख्यस्येवं विधीयते १३९
श्रीकरं गुहरात्रादि नागरात्रादि पार्त्थिवम्
सात्विकं विष्णुरात्रादि शिवमेकं शिवं स्मृतम् १४०
एतेषान्देवतानान्तु बलिभोज्य क्रमं श्रुणु
उत्सवादौ समारभ्य सायं प्रातः क्रमेण तु १४१
रात्रयश्च सुविज्ञेयं पुष्कलस्यैवमाचरेत्
उत्सवादा तु साधायत् रात्रमेवं प्रकीर्तितम् १४२
अन्तराणाञ्च देवानामहोरात्रन्तु रात्रिकम्
विजयस्यैव क्रमेणैव कल्पयेद्देशिकोत्तमः १४३
मुद्गान्नं ल”ुकं सर्पिः कदली गुलसंयुतम्
प्रथमेहनिदातव्यं विघ्नमन्त्रमनुस्मरन् १४४
रक्तान्नं मांससंयुक्तं कृसरा पूपसंयुतम्
सघृतं मत्स्यसंयुक्तं जपाकुसुमसंयुतम् १४५
द्वितीये हनिदातव्यं पैशाचं मन्त्रमुच्चरन्
पायसान्नञ्च सघृतं पद्मपुष्पसमायुतम् १४६
तृतीये हनिदातव्यं ब्रह्ममन्त्रमनुस्मरन्
कृसरान्नञ्च सक्तुश्च सघृतं ल”ुकैर्युतम् १४७
चतुर्त्थे हनिदातव्यं गन्धर्वं मन्त्रमुच्चरन्
इन्द्रवल्लिहरिद्रान्नं सघृतं लाजसंयुतम् १४८
पञ्चमे हनिदातव्यं स्कन्दमन्त्रमनुस्मरन्
कुशाग्रे घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् १४९
[[७३१]]
सप्तमे हनिदातव्यम् ऋषीणां मन्त्रमुच्चरन्
क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमायुतम् १५०
अष्टमे हनिदातव्यन्नागमन्त्रमनुस्मरन्
दद्ध्यन्नञ्च गुलोपेतं मातुलुङ्गफलैर्युतम् १५१
नवमे हनिदातव्यमैन्द्रमन्त्रमनुस्मरन्
गुलोदनं घृतोपेतं कदलीफलसंयुतम् १५२
दशमे हनिदातव्यं विष्णुमन्त्रमनुस्मरन्
रक्तान्नं माससंयुक्तं सापूपन्तिलचूर्णयुक् १५३
एकादशाहे दातव्यं राक्षसं मन्त्रमुच्चरन्
शाल्यन्नं दधिसंयुक्तं गुलखण्डफलैर्युतम् १५४
द्वादशाहे तु दातव्यं शैवं मन्त्रमनुस्मरन्
कपित्थफलमात्रेण बलिरेवं प्रकीर्तितम् १५५
द्रव्याणामप्यलाभे तु दद्ध्यन्नञ्च बलिं क्षिपेत्
ब्रंहाद्यैशानपर्यन्तमिन्द्रादीशानमेव वा १५६
तत्तत्स्थानेषु सर्वेषु विघ्नराजादिमन्त्रकैः
अर्चयित्वा तु पूर्वोक्तमिन्द्रस्यैव बलिं क्षिपेत् १५७
प्रणवादि चतुर्त्थ्यन्तं स्वनामपदमद्ध्यमम्
स्वाहान्ते बलिनिर्देशं सर्वेभ्य इति योजयेत् १५८
सर्वदेवालयाग्रेषु बलिन्दद्याद्विशेषतः
एवं बलिक्रमं कुर्यात् बलिपीठे बलिं क्षिपेत् १५९
यागशालां प्रविश्याथ अस्त्रादीन् स्थापयेत्क्रमात्
लिङ्गमूर्तिं विसृज्यान्न लिङ्गञ्चैव क्षिपेज्जले १६०
अतिवृष्टौ महावाते परराजविधौ तथा
ग्रामादिदेवानाहूय ध्वजमूले विशेषतः १६१
तत्रैवबलिदानं स्यात् कुर्यात्ग्रामबलिं विना
ग्रामप्रदक्षिणं कृत्वा बल्यन्तञ्चैव कौतुकम् १६२
[[७३२]]
सम्मार्जनविधिं कृत्वा प्रोक्षयेच्छुद्धवारिभिः
कदलीक्रमुकैश्चैव सफलैः पूर्वकुम्भकैः १६३
मुक्तादामैश्च दीपैश्च भवनं प्रतिभूषयेत्
ध्वजैश्च विविधैश्चैव पताकाभिस्तथैव च १६४
नानादीपैस्समायुक्तं व्रजेयुस्तद्भटाः पुरा
तदन्ते वारणारूढास्तदन्ते वाजिवाहनाः १६५
वाजियन्त्रस्तदन्ते तु डोलायन्त्रास्तदन्तके
दीपयन्त्रस्तदन्तेषु नृत्तयन्त्रास्तदन्तके १६६
नानातोद्यसमायुक्तं नृत्तगेयसमाकुलम्
छत्रैः पिञ्च्छैश्च विविधैः चामरव्यजनैर्युतम् १६७
रथे वारङ्गके वापि शिबिकां रोप्य बिम्बकान्
नानावस्त्रसमायुक्तान् नानापुष्पोपशोभितान् १६८
पुष्पप्रभासमायुक्तान्सर्वालङ्कारसंयुतान्
कौतुकं शक्तियुक्सौधमन्ते गच्छेत् शनैः क्रमात् १६९
प्रतिमाष्टादशानान्तु एकं वापि द्वयन्तु वा
त्रयं वाप्यथवा सर्वं यथा वित्तानुसारतः १७०
महाशैवास्तदन्ते तु तदन्ते भूसुरास्तथा
सर्वेषां पृष्ठन्तो गच्छेत्तथा चण्डेश्वरं ततः १७१
सर्वालङ्कारसंयुक्तं चण्डयागां तमुच्यते
चातुर्वर्णोद्भवाभक्ता व्रजेयश्चक्रमेण तु १७२
ये तत्रैवानुगच्छन्ति भक्तियुक्तामहाजनाः
प्राप्नुवन्त्यश्वमेधस्य फलमेवन्न संशयः १७३
कृत्वा प्रदक्षिणं ह्येवं प्रविश्यास्थानमण्टपम्
देशिकस्सर्वभागे तु स्वासने वामके नृपः १७४
तयोः पृष्ठप्रदेशे तु शिष्यभृत्याश्च संस्थिताः
महाशैव द्विजाश्चैव सव्यभागे तु संस्थिताः १७५
[[७३३]]
देवस्याग्रे विशेषेण नृत्तं कुर्यात् सगेयकम्
सर्वालङ्कारसंयुक्तं कारयेत्तु विशेषतः १७६
पटं तत्रापनीयाथ शङ्खघोषसमायुतम्
तत्काले चात्मतत्वञ्च पूजयेत्प्रतिमन्त्रतः १७७
नीराञ्जनन्ततः कुर्यात्तद्रात्रौ परिवेष्टके
ततो नैवेद्यकं पश्चात्ताम्बूलं दापयेद्बुधः १७८
सायम्प्रातः क्रमेणैव बल्यन्ते तु दिनं प्रति
उमया सहितं चन्द्रशेखरं प्रथमे हनि १७९
सुखासनञ्च हर्यर्द्धं द्वितीये दिवसे ततः
तृतीये चार्द्धनारी च गङ्गाधरन्तथैव च १८०
कल्याणसुन्दरञ्चैव वृषारूढञ्चतुर्त्थके
चण्डेश्वरानुग्रहञ्च उमासंवादमूर्तिनम् १८१
नन्दिकेशसमारूढं पञ्चमे दिवसे विदुः
उन्मत्तं भैरवाकारं वृषयन्त्रपुरान्तकम् १८२
षष्ठमे दिवसे विद्धि उत्सवं तत्र कारयेत्
कलाभ्यां कालहारिञ्च गजोद्भिश्चार्द्धकं हरम् १८३
सप्तमे दिवसे ब्रंहविशेषञ्चोत्सवं कुरु
अष्टमे वा नवाहे वा शम्भोत्सवमथाचरेत् १८४
भुजङ्गत्रासमारूढपङ्कजं ललितन्तु वा
भुजङ्गभैरवं वाथ भुजङ्गवलयन्तु वा १८५
भुजङ्गकुञ्चितं नृत्तं पञ्चभेदमिहोच्यते
पूर्ववत्कौतुकं बध्वा देशिकेन विचक्षणः १८६
अपरे दिवसे धीमान्देवदेवीमलङ्कृतम्
सुमुहूर्ते सुलग्ने तु गन्धमालेपनं द्विजम् १८७
पूजयेद्गन्धपुष्पाद्यैर्मुद्गान्नं दापयेद्बुधः
मुखवासञ्च ताम्बूलं दापयेद्धृदयेन तु १८८
[[७३४]]
रथे वा शिबिकायां वा रोपयेत्तु विशेषतः
विमानप्रदक्षिणं कुर्यात्सभास्थाने प्रदक्षिणम् १८९
दिवाकाले चरेदेवमास्थाने सम्प्रवेशयेत्
स्नपनं कारयेत्पश्चान्महाहविर्निवेदयेत् १९०
नृत्तगेयैश्च वाद्यैश्च स्तुत्यैस्तोत्रैश्च पूजयेत्
रथमारोपयेद्रात्रौ कुर्यात्ग्रामप्रदक्षिणम् १९१
पुनः स्थापनं कर्तव्यं स्नापनं कारयेत् द्विज
प्रभूतहविषन्दत्वा स्थापयेद्देशिकोत्तमः १९२
तीर्त्थाहात् पूर्वदिवसे मृगयात्रां समारभेत्
किरातार्जुनरूपं वा त्रिपुरान्तकमेव वा १९३
किरातरूपवत्सर्वान् विशेषान्वेषधारयेत्
केचिद्वायुसमारूढाः केचिद्वा युधवाहनाः १९४
केचित्खड्गधराश्चैव केचिच्चापधरास्तथा
केचित्कुन्दधराश्चैव केचित्पाशधरास्तथा १९५
महाजनसमायुक्ताः केचिद्युद्धोन्मुखानराः
गजञ्चैव मृगञ्चैव वराहं वा कपिं पुनः १९६
मयूरकुक्कुटादीनि पक्षिणो विविधान् ग्रहेत्
दिवाकाले प्रकर्तव्यं निशिकौतुकबन्धनम् १९७
सौवर्णमुत्तमं सूत्रं तारेण मद्ध्यमं भवेत्
कार्पासन्तु कनिष्ठन्तु रक्षासूत्रं विधीयते १९८
तण्डुलैस्थालिकां पूर्य विन्यसेत्कौतुकं हृदा
गन्धपुष्पादिभिश्चैव पूजयेत्तान् स्मृतान्सुधीः १९९
शूलञ्च प्रतिमाञ्चैव अस्त्राणि यागमूर्तिनाम्
कौतुकं बन्धयेद्धीमान् हृदयेन विशेषतः २००
स्वस्तिसूक्तसमायुक्तं पुण्याहं वाचयेत्ततः
भस्मन्दत्वा हृदा तेषां कुर्यात्तीर्त्थाधिवासनम् २०१
[[७३५]]
मण्टपस्य तु मद्ध्ये तु स्थण्डिलं शालिभिः कुरु
ससूत्रान्सापिधानांश्च सकूर्चान्वस्त्रवेष्टितान् २०२
सोदकान्पल्लवोपेतान् कलशान्वसुसङ्ख्यकान्
स्थण्डिलोपरिविन्यस्त्वा पूजयेदधिदेवतान् २०३
मद्ध्ये मनोन्मनीं पूज्य ऐन्द्राशाद्युत्तरान्तकम्
गङ्गादिसप्ततीर्त्थानि ऐशे दुर्गाञ्च विन्न्यसेत् २०४
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम्
साधनैः कलशैर्युक्तं शूलेनैव समायुतम् २०५
ग्रामप्रदक्षिणं कृत्वा तीर्त्थस्थानं समालिखेत्
अम्भोधौ वा तटाके वा नद्यां वा वापिके तथा २०६
तीरे समतलं कृत्वा प्रपां कृत्वातिसुन्दराम्
तन्मद्ध्ये स्थण्डिलं कृत्वा कलशान्स्थाप्यपूर्ववत् २०७
तस्यैव पश्चिमे भागे शूलन्तु स्थण्डिलोपरि
संस्थाप्य कलशांश्चैव गन्धपुष्पादिभिर्यजेत् २०८
बीजानि सप्ततीर्त्थानामर्णापाद्यप्सुविन्यसेत्
आहूय सर्वदेवांश्च शूलं वै स्थापयेत्ततः २०९
प्रविशेदालयं पश्चात् देवतीर्त्थाधिवासनम्
अपरे दिवसे चैव चूर्णोत्सवं समाचरेत् २१०
आस्थानमण्टपाग्रे वा प्रासादस्याग्रकेऽपि वा
गोमयालेपनं कृत्वा स्थण्डिलद्वितयं कुरु २११
कुशपुष्पैः परिस्तीर्य स्थण्डिलं चार्चयेद्धृदा
सर्वातोद्य समायुक्तं मङ्गलाङ्कुरशोभितम् २१२
प्राक्स्थण्डिलं न्यसेद्विद्वान्लूखलं मुसलं तथा
दूर्वाया सह देव्याश्च वस्त्रेणाच्छाद्यलूखलम् २१३
मुसलं लूखलञ्चैव प्रोक्षयेत्तु शिवाम्भसा
तस्य पश्चिमभागे तु शूलं तत्स्थण्डिलोपरि २१४
[[७३६]]
विन्न्यस्य हृदयेनैव गन्धादिभिरथार्चयेत्
घृतं शिरोर्पणं कुर्याद्धेमदूर्वाङ्कुराक्षतैः २१५
शूलञ्च मुसलञ्चैव लूखलञ्च विशेषतः
द्रोणं वापि तदर्द्धं वा सुशुष्करजनीन्तथा २१६
निक्षिप्य लूखले तत्र चूर्णयेन्मुसलेन तु
व्योमव्यापि समुच्चार्य ततो भक्तजनैस्सह २१७
तच्चूर्णं हृदयेनैव निक्षिपेल्लिङ्गमूर्द्धनि
गन्धपुष्पादिभिः पूज्य पद्ममुद्रां प्रदर्शयेत् २१८
भवानी सहितं देवं यष्ट्वा चूर्णञ्च दापयेत्
तैलेनैव त्रिशूलन्तु कृत्वात्वभ्यञ्जनन्ततः २१९
चूर्णन्तु दापयेत्पश्चादाचार्याय प्रदापयेत्
तत्पश्चाद्दापयेद्राज्ञो भक्तानान्दापयेत्ततः २२०
पात्रे चूर्णन्तु सङ्गृह्य त्रिशूलेन समायुतम्
चूर्णं ग्रामजनानान्तु दत्वा शीघ्रं प्रदक्षिणम् २२१
प्रविश्य भवनं पश्चात् तीर्त्थस्नानं समाचरेत्
सर्वातोद्य समायुक्तं गीतनृत्तसमायुतम् २२२
सर्वालङ्कारसंयुक्तं शूलेन कौतुकेन तु
गच्छेत् भक्तजनैस्सार्द्धं तीर्त्थस्नानं समाचरेत् २२३
स्थाप्य बिम्बं प्रपामद्ध्ये चाष्टद्रोणैश्च शालिभिः
स्थण्डिलद्वितयं कुर्यात् दर्भैः पुष्पैः परिस्तरेत् २२४
सङ्गृह्य रन्ध्रकलशान् सूत्रेणैव तु वेष्टयेत्
तीर्त्थोदकैश्च सम्पूज्य स्थापयेत्स्थण्डिलोपरि २२५
कूर्चानि विन्यसेत्पश्चात् विधानैश्च विधाय च
सदाशिवं यजेन्मद्ध्ये विद्येशानभितो यजेत् २२६
दर्शयेत्सुरभीमुद्रां नमस्काराख्यमेव वा
अष्टादशगणांश्चैव त्रयस्त्रिंशच्च देवताः २२७
[[७३७]]
आहूयलोकपालांश्च शिष्यस्तु प्रतिमानसम्
त्यक्त्वा कौतुकसूत्रन्तु शूलन्तु कलशोदकैः २२८
संस्थाप्य तु तथातीर्त्थ जलस्नानं समाचरेत्
त्रिशूलेन सहस्नानं मर्त्याः कुर्वन्तु येऽत्र तु २२९
सर्वपापात्प्रमुच्यन्ते निर्मुक्तारूपपन्नगात्
उद्वास्य सप्ततीर्त्थानि प्रविशेदालयं प्रति २३०
वेदध्वनिसमायुक्तं स्वस्तिवाचकसंयुतम्
नृत्तगेयादिसन्त्यज्य अन्न्यत्सर्वं समाचरेत् २३१
प्रागुक्तविधिना धीमान् कुर्यादग्निविसर्जनम्
कृत्वा तीर्त्थं दिवाकाले रात्रौ केत्ववरोहणम् २३२
त्रिरात्रौ भूतरात्रे वा धातुरात्रे प्रजापते
कृत्वात्वारोहणं पश्चात् वृषभे वृक्षविन्यसेत् २३३
वृषभं स्नपनं पश्चात् गन्धपुष्पादिभिर्यजेत्
रत्नानां दधिसंयुक्तं माषयुक्तं घृतप्लुतम् २३४
त्रिशूलेन समायुक्तं चान्नलिङ्गसमायुतम्
ततो ग्रामबलिन्दद्यात् मद्ध्यरात्रे विशेषतः २३५
बलिकाले घोष्यवाद्यं नान्यत्र दीपहीनकम्
मौनं प्रतिधरास्सर्वे सन्धिदेवान्विसर्जयेत् २३६
एवं प्रदक्षिणं कृत्वा बलिपीठे बलिं क्षिपेत्
प्रविश्यालयं यथास्थाने शूलास्त्रं विन्यसेत्ततः २३७
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
दक्षिणान्दापयेत्तस्मै गोभूमिकाञ्चनैस्सह २३८
पञ्चनिष्काधमा प्रोक्ता द्विगुणामद्ध्यमा भवेत्
त्रिगुणञ्चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा २३९
उत्सवं सकलानान्तु एवमेवं समाचरेत्
किञ्चिदस्मिन् विशेषोऽस्ति बिम्बाग्रे स्थापयेत् द्ध्वजम् २४०
[[७३८]]
उत्सवञ्च तेन कुर्यात् बिम्बान्वाथ प्रजापते
भवान्यासहिते चैवं बिम्बे चैवोत्सवः कुरु २४१
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात्
इहैव धनवान्श्रीमान् सोन्ते सायुज्यमाप्नुयात् २४२
अष्टादशदिनोत्सवविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण अष्टादशदिनोत्सवम्
तीर्थमादौ विनिश्चित्य पूर्वोक्तविधिना सह ॥ १ ॥
नवाहत्रितये वापि सप्ताहत्रितयेऽपि वा
द्विगुणे नवदिने वापि द्ध्वजारोहणमारभेत् ॥ २ ॥
कङ्कुरार्पणपूर्वञ्च भेरी ताडनपूर्वकम्
ध्वजारोहणपूर्वञ्च त्रिविधं तदुदाहृतम् ॥ ३ ॥
अङ्कुरार्पणपूर्वञ्च सर्वसम्पत्समृद्धिदम्
भेरीताडनपूर्वं स्यात् देवानां तु प्रियावहम् ॥ ४ ॥
ध्वजारोहणपूर्वञ्चेत् सर्वप्राणिसुखावहम्
ब्रांहणादित्रयाणाञ्च शूद्रो वाङ्कुरपूर्वकम् ॥ ५ ॥
नगरे ध्वजपूर्वं वा मङ्गले भेरिपूर्वकम्
वर्तनेङ्कुरपूर्वं वा तद्वत्ब्रंहन्प्रकीर्तितम् ॥ ६ ॥
उत्सवेषु च सर्वेषु अष्टादशक्रमं श्रुणु
आयुष्करं यशस्करं श्रीसौभाग्य विवर्द्धनम् ॥ ७ ॥
पुत्रपौत्रविवृद्धिञ्च सर्वकामफलप्रदम्
राज्ञां विजयवृद्धिञ्च सर्वकामफलप्रदम् ॥ ८ ॥
राज्ञां विजयवृद्धिञ्च सर्वलोकसुखावहम्
अथोत्सवक्रियास्सर्वाः कत्थन्ते क्रमशोऽधुना ॥ ९ ॥
विघ्नेश्वरस्य पूजाञ्च मूलदेवस्य पूजनम्
वास्तुहोमं ततः कृत्वा मृत्सङ्ग्रहमतः परम् ॥ १० ॥
[[७३९]]
वृषाङ्कुरं ततः कृत्वा वृषयागं समाप्य च
सोमयारिं समुत्थाप्य वाद्यगीतसमन्वितम् ॥ ११ ॥
विघ्नेशञ्चास्त्रराजञ्च स्कन्दञ्चण्डसमन्वितम्
ध्वजस्थानन्तु सम्प्राप्य भेरीताडनकन्ततः ॥ १२ ॥
प्रधानध्वजमारोप्य देवतावाहनन्नयेत्
आशीर्वादं ततः कृत्वा ब्रह्मघोषसमन्वितम् ॥ १३ ॥
आस्थानमण्टपे देवं संस्थाप्य तदनन्तरम्
सर्वेषु
यागपूर्वेषु यागाङ्कुरन्तु कारयेत् ॥ १४ ॥
गणयागन्तु सम्पूज्य होमकर्मसमन्वितम्
रक्षाबन्धं ततः कृत्वा धूपदीपसमन्वितम् ॥ १५ ॥
ततो देवान्समुत्थाप्य अन्नलिङ्गसमन्वितम्
सन्धिदेवान्समावाह्य बलिन्तत्र प्रदापयेत् ॥ १६ ॥
यागदीक्षां गणेशस्य नीराजनमतः परम्
स्कन्दयागन्ततो दद्यात् भक्तयागं तदन्तकम् ॥ १७ ॥
यागकुम्भान् गणेशस्य अभिषेकं समाचरेत्
अस्त्रयागं ततः कल्प्य अस्त्रकुम्भाभिषेचनम् ॥ १८ ॥
नवाहस्य दिने प्रातः वृषाधिवासनं कुरु
वृषदेवान् समावाह्य दिक्पटान्सम्प्रपूजयेत् ॥ १९ ॥
ध्वजस्तम्भांश्चतुर्दिक्षु विन्यस्य सुरसत्तमाः
नरादिदेवमावाह्य चतुर्दिक्षु प्रपूजयेत् ॥ २० ॥
सोमस्कन्दादिमूर्तीनां विशेषयजनन्ततः
तद्रात्रौ ध्वजमारोप्य पूर्वादिक्रमशस्तथा ॥ २१ ॥
महायागे विशेषेण तीर्त्थाङ्कुरन्तु कारयेत्
यागार्चनन्ततः कृत्वा वह्निकार्यमतः परम् ॥ २२ ॥
यात्रार्त्थं स्नपनं पश्चात् विशेषयजनं ततः
तैलाभ्यङ्गं विशेषेण नटेशोत्सवमाचरेत् ॥ २३ ॥
[[७४०]]
मृगयात्रां ततश्चैव तीर्त्थाधिवासनं ततः
तीर्त्थाह्नः पूर्वरात्रौ च पुनः कौतुकबन्धनम् ॥ २४ ॥
चूर्णोत्सवमहातीर्त्थं पूर्णाहुतिमनन्तरम्
यागकुम्भाभिषेकञ्च अवरोहं ततः परम् ॥ २५ ॥
लोकपालविसर्जञ्च मौनोत्सवं तदन्तके
शक्त्युत्सवं ततः कुर्यादुडुपारोपणं ततः ॥ २६ ॥
चण्डयागं ततः कुर्याद्दक्षिणादारमन्तके
उत्सवस्य क्रमं ह्येवं यागदीक्षाक्रमं श्रुणु ॥ २७ ॥
प्रथमं गणयागं तु द्वितीयमस्त्रमिष्टिकम्
महायागं तृतीयं तु यागं त्रिविधमुच्यते ॥ २८ ॥
षट् दिनं गणयागे तु स्कन्दभक्तदिनत्रयम्
अस्त्रयागं तृतीये च नवाहञ्चेति कीर्तितम् ॥ २९ ॥
प्रधानध्वजमारोप्य नवद्विगुणमाचरेत्
प्रथमां रात्रिमारभ्यं नवाहप्रहरान्तकम् ॥ ३० ॥
कालञ्च षोडशप्रोक्तं वह्नियागमथ श्रुणु
गणयागोक्तकालस्स्यात् सप्ताहप्रातरान्तकम् ॥ ३१ ॥
स्कन्दभक्ताश्चमूर्तीनां गणयागे तु दीक्षिताः
षट्कालं गणयागं तु स्कन्दयागं त्रिकालकम् ॥ ३२ ॥
सम्बन्धे सुन्दरश्चैव पित्रन्नामत्रयस्तथा
भक्तयागं त्रिकालञ्च द्वादशं परिकीर्तितम् ॥ ३३ ॥
यागं समाप्य तत्काले गणेशायाभिषेचयेत्
सप्ताहं सायमारभ्य नवाहं प्रातरान्तकम् ॥ ३४ ॥
चतुष्कालमिदं प्रोक्तमस्त्रयागं प्रकीर्तितम्
यागकुम्भेऽस्त्रमावाह्य यागदीक्षेन्दुशेखरः ॥ ३५ ॥
यागं समाप्य यागान्ते अस्त्रराजाभिषेचयेत्
यागकाले विशेषेण तत्तन्मूर्तिं समाचरेत् ॥ ३६ ॥
[[७४१]]
इन्दुशेखरयुक्तो वा न युक्तो यागमाचरेत्
आदिमद्ध्यावसाने तु भक्तोत्सवविधिक्रमम् ॥ ३७ ॥
तस्योर्द्ध्वे तु महायागः पूर्वोक्तविधिना सह
नवाहरात्रिमारभ्य दशाष्टप्रातरन्तकम् ॥ ३८ ॥
यागमष्टादशप्रोक्ताः नटेशस्य द्विकालकम्
सोमास्कन्देश्वरं प्रोक्तं शेषयागं प्रजापते ॥ ३९ ॥
यागत्रयक्रमं वक्ष्ये श्रुणुष्वकमलोद्भव
ऐन्द्रे वा दक्षिणे वापि चैशाने पावके तथा ॥ ४० ॥
पश्चिमे चोत्तरे वापि कारयेद्यागमण्टपम्
रुद्ररन्ध्रमुनिर्वाथ रसहस्तञ्च तारकम् ॥ ४१ ॥
युगाश्रं वा कलाहस्तं श्रुतिद्वारसमन्वितम्
चतुस्तालमथोच्चन्तु दर्पणोदरसन्निभम् ॥ ४२ ॥
तन्मद्ध्ये वेदिकां कुर्यात् गृहभागैकभागतः
अरत्निमात्रमुत्सेधं मुष्टिमात्रमथापि वा ॥ ४३ ॥
परितो वेदिकामूले उपवेदीं प्रकल्पयेत्
युगाङ्गुलप्रविस्तारं तदर्द्धं चोछ्रयं भवेत् ॥ ४४ ॥
कुण्डानि परितः कुर्यात् दिशासु विदिशासु च
दिशासु चतुरश्राणि वृत्तानि विदिशासु वै ॥ ४५ ॥
ईशानशक्रयोर्मद्ध्ये वृत्तं कुर्यात्प्रधानकम्
हस्तमात्रप्रविस्तारं प्रागुक्तैर्लक्षणैः कुरु ॥ ४६ ॥
पञ्चाग्निन्त्वथ कुर्वीत चतुर्दिक्ष्वीशकेऽपि च
पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा ॥ ४७ ॥
कारयेच्चतुरश्रन्तु एकाहस्तु विधीयते
गोमयालेपनं कृत्वा पर्यग्निकरणं कुरु ॥ ४८ ॥
युगतोरणसंयुक्तमष्टमङ्गलसंयुतम्
दशायुधसमायुक्तं दर्भमाला समायुतम् ॥ ४९ ॥
[[७४२]]
अष्टद्ध्वजसमायुक्तं वितानैः परिशोभितम्
अलङ्कृतं पुष्पमुक्तादामभिस्सर्वतश्शुभम् ॥ ५० ॥
स्थण्डिलं वेदिकोर्द्ध्वे तु अष्टद्रोणैश्च शालिभिः
तण्डुलैश्च तिलैर्लाजैस्तदूर्द्ध्वे नलिनं लिखेत् ॥ ५१ ॥
दर्भैः पुष्पैः परिस्तीर्य पुण्याहं प्रोक्षयेत् गुरुः
ससूत्रान् पल्लवोपेतान्सवस्त्रान्सापिधानकान् ॥ ५२ ॥
सकूर्चान् रत्नसंयुक्तान् ग्राहयेद्विधिवद्धटान्
पूर्वञ्च गणयागं स्यात् वेद्यूर्द्ध्वे विघ्ननायकम् ॥ ५३ ॥
वल्लभान्तस्य वामे तु परितोष्टघटान्न्यसेत्
वरदं पूर्वदेशे तु वीरमाग्नेयगोचरे ॥ ५४ ॥
विघ्नेशन्दक्षिणे पार्श्वे नैर्ऋत्यान्तु गजाननम्
भक्तप्रियन्तु वारुण्यां गजण्ठन्तथानिले ॥ ५५ ॥
विनायकन्तु सौम्यायां लम्बोष्ठमीशगोचरे
तत्तत्स्वनाममन्त्रेण अर्चयेत्तु यथाक्रमम् ॥ ५६ ॥
द्वारादियागपूजान्तं पूजयेद्विधिवत्क्रमात्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ५७ ॥
पञ्चकुण्डन्ततो हुत्वा एककुण्डमथापि वा
समिदाज्य चरून्लाजान् अपूपान्ल”ुकन्तथा ॥ ५८ ॥
पनसाम्रकदल्यादि नालीकेरेक्षुखण्डकान्
विघ्नेशम्मूलमुच्चार्य होमयेद्विधिना गुरुः ॥ ५९ ॥
त्रिशतं द्विशतं वापि यथा शक्त्या घृतं हुनेत्
शतमर्द्धन्तदर्द्धं वा प्रतिद्रव्यं हुनेत्क्रमात् ॥ ६० ॥
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिमथाचरेत्
होमान्ते तु बलिन्दत्वा बल्यन्ते चोत्सवं क्रमात् ॥ ६१ ॥
गणयागमिति प्रोक्तम् अस्त्र इष्टिमथ श्रुणु
अस्त्रयागेऽस्त्रमूर्त्तिञ्च गम्भनीं वामतो न्यसेत् ॥ ६२ ॥
[[७४३]]
परितोऽष्टघटानष्टौ भवादींश्च प्रपूजयेत्
पूर्वोक्तेन विधानेन अस्त्रयागं समाचरेत् ॥ ६३ ॥
महायागे विशेषेण वेदिमद्ध्ये शिवं यजेत्
वर्द्धनीं तस्य वामे तु विद्येशान्परितो न्यसेत् ॥ ६४ ॥
शक्त्यादिशक्तिपर्यन्तं पूजयेत्परमेश्वरम्
नैवेद्यं धूपदीपञ्च तोषयेत्परमेश्वरम् ॥ ६५ ॥
यागपूजादिकं सर्वं पूर्वोक्तेन विधानतः
अग्निकार्यमधः कृत्वा नवकुण्डन्तु होमयेत् ॥ ६६ ॥
समिद्रव्यादिकं सर्वं दिशाहोममथाचरेत्
यत्रनित्योत्सवो नास्ति तत्र नास्ति महोत्सवः ॥ ६७ ॥
अर्चनं विधिना कुर्यात्सायम्प्रातर्दिने दिने
होमान्ते तु बलिन्दद्यात् बल्यन्ते चोत्सवं बुधः ॥ ६८ ॥
बलिबेरसमायुक्तमन्नलिङ्गसमन्वितम्
अस्त्रदेवसमायुक्तं बलिद्रव्यसमन्वितम् ॥ ६९ ॥
नित्योत्सवबलिन्दत्वा पश्चात् ग्रामबलिं क्षिपेत्
ध्वजादिबलिपीठान्तम् उत्सवे बलिमाचरेत् ॥ ७० ॥
इन्द्रादिबलिपूर्वन्तु दिनदेवान् ततः परम्
वामनं शङ्खपालञ्च वीरेशञ्चोग्ररूपकम् ॥ ७१ ॥
विजयञ्चैव विकटं गणयागे प्रकीर्तिताः
राक्षसञ्चैन्द्रनागञ्च चास्त्रयागे समीरिताः ॥ ७२ ॥
मुद्गान्नं घृतसंयुक्तं नालिकेरफलङ्गुलम्
अब्जपुष्पसमायुक्तं जपाकुसुमचन्दनम् ॥ ७३ ॥
गणयागास्त्रयागान्तं नवसङ्ख्या दिनाधिपान्
तत्तत्स्वनाममन्त्रेण बलिं कुर्याद्विशेषतः ॥ ७४ ॥
तदूर्ध्वं शिवयागे तु नवाहोक्तदिनाधिपान्
पूर्वोक्तेन विधानेन विधिवत् बलिमाचरेत् ॥ ७५ ॥
[[७४४]]
बलिदानमिदं प्रोक्तं यागवीक्षणमाचरेत्
उत्सवे शम्भुदीक्षायां सकृद्दर्शनमात्रतः ॥ ७६ ॥
सर्वाभीष्टप्रदं नॄणां यागे पूर्णाहुतिं हुनेत्
यागदीक्षाक्रमं प्रोक्तं यागात् ग्रामप्रदक्षिणम् ॥ ७७ ॥
प्रथमे शिबिकाञ्चैव द्वितीये कल्पपादपम्
भूतरूपं तृतीयन्तु चतुर्त्थे गजवाहनम् ॥ ७८ ॥
पञ्चमे वृषभं प्रोक्तं कैलासञ्चैव षष्ठके
सप्तमे रथमारोप्य अष्टमे तुरगं भवेत् ॥ ७९ ॥
नवमे तु विमानञ्च दशमे तीर्त्थमाचरेत्
षट् दिने परसन्ध्ये तु यानन्तु भाव्यकारणम् ॥ ८० ॥
श्रुणु ब्रह्मन्ब्रंहपुरे विप्रपुत्रः प्रकीर्तितः
उमाम्बुजस्तनक्षीरं प्रदद्यादादरात्ततः ॥ ८१ ॥
तस्य लीलान्तु सम्भाव्य सुप्रीतापरमेश्वरी
नाशनं क्षमणानानान्तु स्तम्भाग्रे चैव भावयेत् ॥ ८२ ॥
इत्येवं भावयेद्यानं क्षमणान्तकविग्रहम्
तस्यावदाचरेत्सर्वं भावयेदुत्सवे सुधीः ॥ ८३ ॥
सप्ताहे तु विशेषेण भिक्षाटनकथाञ्चरेत्
भिक्षुमूर्तिमलङ्कृत्य आसनोपरिविन्यसेत् ॥ ८४ ॥
दासीदासाद्यकं सर्वं भिक्षुवेषं समाचरेत्
विप्रश्रेष्ठाश्रमे ग्रामे शिवभक्ताश्रमे तथा ॥ ८५ ॥
आनन्दबाष्पनृत्ताभिः भिक्षासङ्ग्रहमाचरेत्
अष्टमस्यापराह्णे तु ह्यर्जुनस्तपशोधनम् ॥ ८६ ॥
यागक्रियादिचिच्छेकाद्यारोहणमश्ववाहने
मृगयात्राक्रमं शम्भोः युद्धारम्भन्तु भावयेत् ॥ ८७ ॥
अभ्यङ्गोचितवारेषु तैलाभ्यङ्गं विशेषतः
सप्ताहे च नवाहे च नटेशोत्सवमाचरेत् ॥ ८८ ॥
[[७४५]]
तीर्त्थाह्नः पूर्वदिवसे महातीर्त्थन्तु सङ्ग्रहेत्
पूर्वरात्रौ तु विधिवत् पुनः कौतुकबन्धनम् ॥ ८९ ॥
तीर्त्थसङ्ग्रहदिवसादपरस्य दिने बुधः
बलिदानं पुराकृत्वा पश्चाच्चूर्णोत्सवं भवेत् ॥ ९० ॥
सर्वेस्पृर्शनशुद्ध्यर्त्थं सर्वतीर्त्थरियावहम्
शिवतीर्त्थाद्ददेत्सौख्यं तीर्त्थस्नानं समाचरेत् ॥ ९१ ॥
पूर्णाहुतिं ततो हुत्वा दक्षिणादानमन्तके
शिवयज्ञस्य पूर्णार्त्थं लोकानां स्थितिकारणम् ॥ ९२ ॥
इन्द्रादियागमूर्तीनां पुनस्समीपसिद्धिदम्
शिवयज्ञात्प्रसन्नार्त्थं घटस्नानं समाचरेत् ॥ ९३ ॥
दुष्टनिग्रहसिद्ध्यर्त्थं शिष्टानां परिपालनम्
उत्सवस्य तु पूर्णान्ते रात्रावाववरोहणम् ॥ ९४ ॥
ब्रंहादिलोकपालानां हविर्भागं व्रतान्तके
तत्तत्स्वनामभूतानां मौनोत्सवन्तु कारयेत् ॥ ९५ ॥
शक्त्युत्सवमतः कृत्वा दडुपारोहणं ततः
चण्डोत्सवं तदन्ते तु आचार्योत्सवमाचरेत् ॥ ९६ ॥
कृते महाध्वजारोहे तत्कोटिगुणितं फलम्
यदेतत्क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् ॥ ९७ ॥
नाकालमृत्युस्तत्रास्तिनालक्ष्मीः पापकृच्चन
लोभसर्गभयं तत्र नोपरोगो न विभ्रमम् ॥ ९८ ॥
विपरीतञ्च दुर्भिक्षं रोगञ्चैवमहातपाः
काले वर्षतिपर्जन्यः स्वभीष्टं लभते जनाः ॥ ९९ ॥