नित्योत्सवविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण नित्योत्सवविधिक्रमम्
सर्वशान्तिकरं पुण्यं सर्वलोकहितावहम् ॥ १ ॥
नित्योत्सवाय बिम्बन्तु कारयेल्लक्षणान्वितम्
सौवर्णमुत्तमं प्रोक्तम्मद्ध्यमं रजतं भवेत् ॥ २ ॥
अधमन्ताम्रमित्युक्तं कल्पयेत्कल्पवित्तमः
द्वारषोडशया कृत्वा पक्षांशमधमं भवेत् ॥ ३ ॥
मद्ध्यमन्तु द्वयं सार्द्धं गुणांशञ्चोत्तमं भवेत्
लिङ्गनाहविकारांशादग्न्यंशमधमं भवेत् ॥ ४ ॥
वेदांशमधमं ज्ञेयं भूतांशं चोत्तमं भवेत्
धातुरन्धक–र्द्राख्याश्च्राङ्गुलाश्चाधमादयः ॥ ५ ॥
दशतालोत्तमेनैव एभिर्मानैश्च कारयेत्
चतुर्भुजं त्रिणेत्रञ्च शिखाकोटि समुज्वलम् ॥ ६ ॥
सर्वलक्षणवृत्तं वा मेखलात्रय संयुतम्
अग्निमात्रसुविस्तारन्तन्मानं बिलमुच्यते ॥ ७ ॥
पश्चिमे दक्षिणे वापि योनिरश्वत्थ पत्रवत्
कुण्डेन्दुस्थापयेदग्निमविच्छिन्नन्तु कारयेत् ॥ ८ ॥
[[७१७]]
यावन्मूलोपचारन्तु तावदग्निं सुपूजयेत्
त्रिकालं वैककालं वा द्विकालं वा यजेत् गुरुः ॥ ९ ॥
मार्ज्जनं प्रोक्षणन्तत्र गोमयेनैव लेपयेत्
अघोरेणैव मन्त्रेण शोधयेत्तु विशेषतः ॥ १० ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैरर्घ्यैश्च पूजयेत्
परिस्तरेद्ध्मदर्भाभिः परिषेकमथाचरेत् ॥ ११ ॥
आज्यसंस्करणान्तन्तु पश्चादाघारमेव तु
प्रवेशने बहुत्वात्तु पश्चादिध्माहुतिर्भवेत् ॥ १२ ॥
चरून् हुत्वा तदन्ते तु व्याहृतिञ्चैव हूयते
ब्रह्माङ्गानि ततो हुत्वा स्विष्टान्तं हि च कारयेत् ॥ १३ ॥
प्रणीताधारसमिधा ब्रह्मकूर्च्चे विनाचरेत्
प्रतिपक्षं कुर्याद्धीमान्स्थालीपाकन्तदात्मिकम् ॥ १४ ॥
समिदाज्य चरूंश्चैव अष्टाविंशतिसङ्ख्यया
होमयेत्तु विशेषेण स्थानभागं समाचरेत् ॥ १५ ॥
एकभागं निवेद्यं स्यात् भागैकेन हुतं भवेत्
शेषभागन्तु शल्यर्त्थं शेषमाचार्यभोजनम् ॥ १६ ॥
आवाहनन्ततो देवं वामदेवेन स्थापनम्
अघोरेण तु सान्निद्ध्यं पुरुषेण तु पूजयेत् ॥ १७ ॥
दर्शयेदस्त्रमुद्राञ्च नमस्काराख्यकान्तथा
तदग्रे प्राशमानाय पूजयेदिन्दुशेखरम् ॥ १८ ॥
परिचारौ समाहूय सोष्णीषञ्चोत्तरीयकम्
सर्वलक्षणसम्पन्नौ सर्वाभरणभूषितौ ॥ १९ ॥
पवित्रपाणिनौ सर्वगन्धमाल्यैरलङ्कृतौ
तले मूर्ध्निन्यसेल्लिङ्गं प्रतिमाञ्च विशेषतः ॥ २० ॥
वितानं छत्र संयुक्तं पिञ्छचामरसंयुतम्
सर्वातोद्य समायुक्तं गीतनृत्तसमाकुलम् ॥ २१ ॥
[[७१८]]
नानादीपसमायुक्तं नानाभक्तजनैर्युतम्
पूर्वाह्णे ब्रह्मणः प्रीतिर्मद्ध्यान्हे शिवमूर्त्तिनाम् ॥ २२ ॥
विष्णोः प्रीतिकरं रात्रौ त्रिः कृत्वा तु प्रदक्षिणम्
तयोरौद्रन्तु पुरतस्तदन्ते शान्तमेव च ॥ २३ ॥
प्रथमं प्रदक्षिणं कुर्यान्मङ्गणीतालसंयुतम्
परिवाराणां द्वितीये तु प्रदक्षिणमथाचरेत् ॥ २४ ॥
वृषस्य वृषतालन्तु आग्ने मद्धावणन्तथा
मातॄणां भृङ्गितालं वै विघ्नेशस्य तु ढक्करी ॥ २५ ॥
षण्मुखस्योद्धट्टनं गीतञ्ज्येष्ठायां बलितालकम्
तटाप्रहायुदुर्गायामीशाने स्याद्धटं भवेत् ॥ २६ ॥
गोपुरे वाद्यनिश्शब्दं शङ्खघोषसमन्वितम्
ततः पुरस्थितं पीठं त्रिष्कृत्वा तु प्रदक्षिणम् ॥ २७ ॥
शबरी बलिपीठस्य प्रविश्याभ्यन्तरन्ततः
इन्द्रस्य समतालन्तु आग्नेवद्धारणं भवेत् ॥ २८ ॥
यमस्य भृङ्गिणी तालन्निर्ऋतेर्मल्लतालकम्
वारुणे नवतालन्तु वायव्यां पुन्नितालकम् ॥ २९ ॥
सोमस्य कोटकं प्रोक्तमैशान्न्याण्णङ्किरीन्तथा
त्रीणि प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ॥ ३० ॥
प्रमादात्पतितं यत्तु अघोरेण शतं हुनेत्
नवलिङ्गं प्रकर्तव्यं पूर्वोक्तविधिना सह ॥ ३१ ॥
प्रदक्षिणन्ततः कृत्वा प्रविशेदालयं प्रति
द्वारदेशं समानीय पादप्रक्षालनं कुरु ॥ ३२ ॥
पादुकं वृषदैवत्यं पूजयेत् वृषमन्त्रतः
पाद्यादीनां समभ्यर्च्च्य लिङ्गञ्च प्रतिमान्ततः ॥ ३३ ॥
प्रविशेदालयं पश्चात् विन्यसेत्पूर्वदेशिके
लिङ्गे देवं समादाय मूलबिम्बे तु विन्यसेत् ॥ ३४ ॥
[[७१९]]
ततोपहारं चण्डाय चण्डमन्त्रेण दापयेत्
एवं शान्तिसमाख्यातं शैविकञ्च विधिं श्रुणु ॥ ३५ ॥
केवलं चास्त्रराजानं लिङ्गस्थं पूजयेत् रुरुः
पूर्वोक्तविधिनानेन कुर्यान्नित्योत्सवन्ततः ॥ ३६ ॥
एतत् शैविकमित्युक्तं लोकशान्तिमतः परम्
वर्षे शैवमहापाते स्थानकं वाद्यमाचरेत् ॥ ३७ ॥
लिङ्गप्रदक्षिणं कुर्यान्नित्योत्सवविशेषतः
पाशुपतेन चास्त्रेण घृतेनाष्टशतं हुनेत् ॥ ३८ ॥
तदन्ते सौख्यकं कुर्यात् गीतवाद्य समाकुलम्
बलिवाद्यन्ततः कृत्वा भूतानागाश्च राक्षसाः ॥ ३९ ॥
ग्रामबाह्यन्ततो गत्वा धनधान्यसमृद्धिदम् ॥ ४० ॥
इति नित्योत्सवविधिपटलश्चत्वारिंशदुत्तरशततमः