रक्षाबन्धनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि रक्षाबन्धनमारभेत्
निर्दिष्टपूर्वरात्रौ वा क्रियापूर्वेऽथवा सुधीः ॥ १ ॥
तत्रोक्तदेवताग्रे तु शालायां वाधिवासयेत्
तिलतण्डुलमिश्रेण तन्मद्ध्ये नलिनं लिखेत् ॥ २ ॥
कुम्भमेकं न्यसेन्मद्ध्ये कूर्चपल्लवसंयुतम्
तद्देवं स्थापयेत्कुम्भे धूपदीपसमन्वितम् ॥ ३ ॥
कुम्भस्य दक्षिणे पार्श्वे प्रत्येकं स्थण्डिलं कुरु
तदूर्ध्वे यन्त्रिकां क्षिप्त्वा तदूर्ध्वे पात्रसंयुतम् ॥ ४ ॥
तण्डुलन्नालिकेरञ्च ताम्बूलं भस्मसंयुतम्
कौतुकं शातकेनैव रजतेनैव तन्तुना ॥ ५ ॥
कारयेत्तु प्रमाणेन षोडशाङ्गुलमानतः
[[७१५]]
लिङ्गनाहसमं सूत्रं पीठनालसमन्वितम् ॥ ६ ॥
बिम्बं वा देशिकं वापि प्रकोष्ठपरिणाहकम्
स्वल्पाधिकप्रमाणाढ्यं नागराजफणान्वितम् ॥ ७ ॥
तत्पुच्छसंयुतं सूत्रं पट्टाकारसमन्तु वा
संशोद्ध्य वारिणाश्वेतचन्दनेनोपलिप्य च ॥ ८ ॥
सुपुष्पेण समायुक्तं तण्डुलोपरिविन्न्यसेत्
पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु ॥ ९ ॥
तण्डुले पूजयेच्छक्तिं यन्त्रिकायां त्रितत्वकम्
भमाधारे तु मायाख्यं भसिते लकुलीश्वरम् ॥ १० ॥
अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात्
अधिवासनकुम्भाग्रे होमकर्मसमाचरेत् ॥ ११ ॥
स्वतन्त्रदेवमावाह्य वह्निमद्ध्ये समर्चयेत्
तस्य देवस्य मूलेन समिदाज्य वरुं हुनेत् ॥ १२ ॥
स्वाहान्तं संहिता मन्त्रं सम्पातं सूत्रके हुनेत्
पात्रमाच्छाद्य पट्टाद्यैर्मालान्तदुपरिन्यसेत् ॥ १३ ॥
परिचारकमाहृत्य उष्णीषोन्तर्यकैस्सह
अग्निस्थन्देवमुत्थाप्य घटे संयोजयेत्क्रमात् ॥ १४ ॥
कौतुकादीन्विशेषेण वाहयित्वा शिरोपरि
सर्वालङ्कारसंयुक्तं सर्वातोद्य समन्वितम् ॥ १५ ॥
ग्रामप्रदक्षिणं वाथ प्रासादस्य प्रदक्षिणम्
देवेशमर्चयेत्तत्र घटान्बेरे सुयोजयेत् ॥ १६ ॥
तज्जलेन तु सम्प्रोक्ष्य नैवेद्यं धूपदीपकम्
देवानां दक्षिणे हस्ते देवीनां वामहस्तके ॥ १७ ॥
पूजकस्य करौ पूर्य तण्डुलं फलसंयुतम्
लिङ्गे वा बेरहस्ते वा सूत्रं दत्वाथ सधारयेत् ॥ १८ ॥
बृहत्सामेति मन्त्रेण भस्मस्पृष्टा तु कौतुकम्
[[७१६]]
त्रिभिरावृतकन्नीत्वा दापयेत्तु मुखे मुखे ॥ १९ ॥
शिवलिङ्गस्य मूले तु पीठनाले तु वेष्टनम्
आचार्यन्दक्षिणे हस्ते रक्षासूत्रन्तु धारयेत् ॥ २० ॥
नैवेद्यं धूपदीपौ च जनेभ्यो भस्म दापयेत्
इत्येवमुत्तमं प्रोक्तं मद्ध्यमं होमवर्जितम् ॥ २१ ॥
होमकुम्भं विना यत्र सूत्रधारन्तु कन्न्यसम्
तत्कर्ममन्त्रसिद्ध्यर्त्थं रक्षाबन्धनमाचरेत् ॥ २२ ॥
इति रक्षाबन्धनविधिपटल एकोनचत्वारिंशत् शततमः