१३७ सम्प्रोक्षणविधिपटलः

सम्प्रोक्षणविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि शिवसम्प्रोक्षणं शुभम्
आवर्त्तञ्चेद्यनावर्त्तं पुनरावर्त्तकं स्मृतम् ॥ १ ॥

अन्तरितं हि विज्ञेयं प्रोक्षणं तु चतुर्विधम्
आद्यम्बालग्रहाद्देवं मूलस्थाने प्रतिष्ठितम् ॥ २ ॥

तदावर्त्तमिति ज्ञेयमनावर्त्तमथ श्रुणु
प्रायश्चित्तार्त्थकं यत्र प्रोक्षणं तु विधीयते ॥ ३ ॥

अनावर्त्तमिति ज्ञेयं पुनरावर्त्तकं श्रुणु
प्रासादे पतिते भिन्ने लिङ्गे च चलिते तथा ॥ ४ ॥

मूलालयात् समादाय स्थाप्यं बालग्रहे ततः
तस्मान्मूलप्रवेशं यत्पुनरावर्त्तकं स्मृतम् ॥ ५ ॥

वर्णस्फोटनविच्छिन्ने प्रत्यङ्गो पाङ्गहीनके
वस्त्राभरणहीने तु पीठाम्बुजविहीनके ॥ ६ ॥

स्थलकर्मविहीने च प्रोक्षणञ्चान्तरीतकम्
आवर्त्तस्यायनं पक्ष ऋक्षवारादिकान्क्रमात् ॥ ७ ॥

[[६९६]]

लिङ्गसंस्थापने प्रोक्तमार्गेणैव समाचरेत्
आवर्त्तस्यैवमाख्यातमनावर्त्तमथ श्रुणु ॥ ८ ॥

न तिथिर्न्न च नक्षत्रो न कालोऽपि तथैव च
कालापेक्षा विना कुर्यादनावर्तमिति स्मृतम् ॥ ९ ॥

पुनरावर्त्तकस्यैव मासपक्षर्क्षकादिभिः
पुनरावर्त्तकं कुर्यात्तथान्तरितकं स्मृतम् ॥ १० ॥

यत्र होमयुतं कर्मत्वन्न्येषां तु विहीनकम्
ततोन्तरितकं यस्तु तत्पूर्वमेवं प्रजापते ॥ ११ ॥

आसप्तदिवसात्पूर्वं क्रियते च घटस्थितम्
तदूर्द्ध्वे बालालयं गत्वा तस्मात्मूलप्रशेनम् ॥ १२ ॥

प्रासादाग्रे तु कर्त्तव्यं दक्षिणे चोत्तरेऽपि वा
विंशती हस्तविस्तारमुत्तमं मण्टपं भवेत् ॥ १३ ॥

द्वादशस्तम्भसंयुक्तं मण्टपं त्वधमं भवेत्
दिशश्च विदिशश्चैव निश्छिद्रं व्योमसम्भवम् ॥ १४ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्
वितानोपरिसञ्छिन्नमष्टदिक् ध्वजसंयुतम् ॥ १५ ॥

दीपैः पुष्पैः फलैस्सार्द्धमङ्कुरैरष्टमङ्गलैः
स्तम्भान्निवेष्टयेत्तत्र प्रतिपादं हि वस्त्रकैः ॥ १६ ॥

मण्टपन्तु त्रिधा कृत्वा मद्ध्यभागे तु वेदिकाम्
अरत्निमात्रमुत्सेधं दर्पणोदरसन्निभम् ॥ १७ ॥

वेद्यां मूलेन परितश्चोपवेदिं प्रकल्पयेत्
युगाङ्गुलसमुत्सेधं द्वियङ्गुलञ्च विस्तृतम् ॥ १८ ॥

कुण्डानि परितः कुर्यात् मानुषे तु पदे क्रमात्
नवाग्निं वाथ पञ्चाग्निमेकाग्निञ्चैव देशिकः ॥ १९ ॥

दिशासु चतुरश्राणि विदिशासु कुशेशयम्
ईशानचक्रयोर्मद्ध्ये वृत्तं प्राधानिकं कुरु ॥ २० ॥

[[६९७]]

पञ्चाग्न्यायतनञ्चेत्तु अब्जकुण्डानि वर्जयेत्
मण्टपस्योत्तरे भागे स्नानश्वभ्रं प्रकल्पयेत् ॥ २१ ॥

उद्वास्य शिल्पनं पश्चात् गोमयेनोपलेपयेत्
पुण्याहं वाचयित्वा तु ब्राह्मणान् भोजयेत्ततः ॥ २२ ॥

पश्चादुच्छिष्टमुद्वास्य पुनः पुण्याहमाचरेत्
द्विहस्तमानपर्यन्तं वेदिका विस्तरेण तु ॥ २३ ॥

तुङ्गतालसमं कुर्यात् दर्पणोदरसन्निभम्
समर्यकपदे सम्यक् वास्तुहोमन्तु कारयेत् ॥ २४ ॥

पर्यग्निकरणं कुर्यात् मण्टपन्तेन वह्निना
पूर्वोक्तलक्षणेनैव संयुक्तो देशिकोत्तमः ॥ २५ ॥

कृत्वा तु विधिना स्नानं शुक्लगन्धानुलेपनः
शुक्लवस्त्रधरोष्णीषश्शुक्लमाल्यैरलङ्कृतः ॥ २६ ॥

उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः
सकलीकरणं कृत्वा पुनर्द्धाराणि वान्यसेत् ॥ २७ ॥

गर्भगेहं प्रविश्याथ स्नानशुद्धिं ततः कुरु
लिङ्गशुद्धिं ततः कृत्वा स्नपयेत् गन्धतोयकैः ॥ २८ ॥

पुण्याहञ्च ततः कृत्वा शुद्धोदैरभिषेचयेत्
पञ्चगव्यैश्च संस्नाप्य बिल्वपत्रेण घर्षयेत् ॥ २९ ॥

दर्भमूले तु वल्मीके क्षेत्रे चैव मृदं हरेत्
यदा मृदा च लिङ्गं तु देशिकेन तु लेपयेत् ॥ ३० ॥

गन्धोदकेन संस्नाप्य प्रोक्षयेद्धृदयेन तु
चन्दनागरुकुष्ठैश्च कुङ्कुमोशीरकेसरैः ॥ ३१ ॥

एलालवद्गकर्पूरैरालोड्यालेपयेच्छिवम्
पिण्डिकाञ्च समालिप्य प्रोक्षयेत्पुरुषेण तु ॥ ३२ ॥

शिरसा बन्धयेल्लिङ्गे हैमकौतुकसूत्रकम्
अर्कपङ्कजबिल्वैश्च मधूराशोकपाटलैः ॥ ३३ ॥

[[६९८]]

त्ववीरनन्दिकावर्त्तपलाशकुसुमैरपि
बृहतीद्रोणकुसुमैर्व्याघातजातिचम्पकैः ॥ ३४ ॥

पुन्नागकर्णिकारादिकुमुदोत्पलमल्लिकैः
लिङ्गोमाम्पूरयेद्धीमानुक्तपुष्पैर्विशेषतः ॥ ३५ ॥

नववस्त्रेण चावेष्ट्य लिङ्गपीठे क्रमेण तु
ततो बालगृहं गत्वा पूजयेच्छिवमादरात् ॥ ३६ ॥

यात्रा होमं प्रकर्त्तव्यं बालस्थानस्य चाग्रतः
स्थण्डिलं हस्तमात्रेण निर्दोषैस्सिकतैश्शुभैः ॥ ३७ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिधस्सद्यमन्त्रेण घृतमीशानमन्त्रतः ॥ ३८ ॥

अघोरेण चरुं हुत्वा प्रत्येकं पञ्चविंशतिः
प्रासादबीजमुख्यैश्च व्योमव्यापि पदैस्तथा ॥ ३९ ॥

शिवाङ्गैश्चैव विद्याङ्गैः प्रत्येकं षोडशाहुतिः
स्पृष्ट्वास्पृष्ट्वा तु जुहुयात्त्र्यम्बकेनैव मन्त्रतः ॥ ४० ॥

तस्याग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्तथा
स्थण्डिलेवन्न्यसेत्कुम्भं वर्द्धनं तस्य वामके ॥ ४१ ॥

ससूत्रौ गन्धपुष्पाद्यैस्सवस्त्रौ हेमरत्नकौ
सापिधानौ सकूर्चौ तु वर्द्धनी शिवकुम्भकौ ॥ ४२ ॥

लिङ्गाद्देवं समावाह्य कुम्भमद्ध्ये तु विन्न्यसेत्
पीठाद्देवीं समावाह्य वर्द्धनीं मद्ध्यमे न्यसेत् ॥ ४३ ॥

स्थापयेद्वामदेवेनाघोरेणावकुण्ठयेत्
सान्निद्ध्यं पुरुषेणैव पञ्चमुद्रां प्रदर्शयेत् ॥ ४४ ॥

लिङ्गमुद्राञ्च मुकुलीं पद्ममुद्रां प्रदर्शयेत्
नमस्काराख्यमुद्राञ्च बद्ध्वास्त्रं दिक्षु योजयेत् ॥ ४५ ॥

सूत्रादिभिस्समोपेतानभितोष्टघटान्न्यसेत्
इन्द्राद्यैशानपर्यन्तमष्टविद्येश्वरान्क्रमात् ॥ ४६ ॥

[[६९९]]

कुम्भमद्ध्ये समावाह्य तत्तत्बीजसमन्वितम्
पूजयेद्धृदयेनैव गन्धपुष्पादिभिः क्रमात् ॥ ४७ ॥

नैवेद्यन्तु तथा दत्वा ताम्बूलञ्च हृदा ददेत्
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४८ ॥

पूर्णाहुतिञ्च शिरसा घटमुद्धारयेत्ततः
अस्त्रेण चालयेल्लिङ्गं तरुणाख्यं सपिण्डिकम् ॥ ४९ ॥

पञ्चगव्येन सम्प्रोक्ष्य वेदिकां हृदयेन तु
स्थण्डिलं शालिभिः कुर्यादष्टद्रोणैर्विशेषतः ॥ ५० ॥

तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
तन्मद्ध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् ॥ ५१ ॥

गन्धाद्यैः पूरयेद्विद्वान् वामदेवेन मन्त्रतः
वेदिकोपरि संस्थाप्य वामदेवेन मन्त्रतः ॥ ५२ ॥

लाजैः पुष्पैस्तिलैर्दर्भै विकरेत्समलङ्कृतम्
शिरसावाह्य कुम्भानि वर्द्धनीं सह मूर्तिपैः ॥ ५३ ॥

प्रदक्षिणन्ततः कुर्यात्प्रासादं गेयनृत्तकम्
सर्वातोद्य समायुक्तं ब्रह्मघोषसमन्वितम् ॥ ५४ ॥

शनैः प्रदक्षिणं कृत्वा प्रविशेन्मण्टपन्ततः
उत्तरे विन्न्यसेत्तत्र वर्द्धनीं हृदयेन तु ॥ ५५ ॥

पूजयेत्तु प्रभुन्देवीं मूलेनैव तु मन्त्रतः
अभितः स्थापयेत्कुम्भान् अष्टविद्येश्वरान्क्रमात् ॥ ५६ ॥

पूजयित्वा स्वनामैश्च गन्धपुष्पादिभिः क्रमात्
अग्रे तु परिवाराणां स्थण्डिलं शालिभिः कुरु ॥ ५७ ॥

प्रत्येकं विन्न्यसेत्कुम्भान् सूत्रादिभिस्समन्वितान्
तत्तन्मूत्तर्याकृतिन्ध्यात्वा तत्तत् बीजेन कुम्भके ॥ ५८ ॥

गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु
परिवारघटाश्चैव चोपवेद्युपरिन्न्यसेत् ॥ ५९ ॥

[[७००]]

दिशास्वद्ध्ययनं कुर्यात्पूर्वादिषु प्रदक्षिणम्
शिवं सङ्कल्प्यपौर्षञ्च ततो मारुद्रसूक्तकम् ॥ ६० ॥

कद्रुद्रायत्वमग्ने च पूर्वभागे जपेत्बुधः
श्रीसूक्तं पवमानञ्च पुरुषसूक्तं त्रियम्बकम् ॥ ६१ ॥

शान्तिद्वयञ्जपेद्धीमान्दक्षिणे तु विशेषतः
कल्पसूक्तं चतुर्वर्गं विष्णुसूक्तन्तु वारुणम् ॥ ६२ ॥

पश्चिमे तु जपेद्धीमान् पवमानं हिरण्यकम्
देवव्रतं पुरुषव्रतं ज्येष्ठसामन्तथैव च ॥ ६३ ॥

कयानश्चित्ररूपाक्षञ्चोत्तरे तु विशेषतः
आचार्यो मूर्त्तिपैस्सार्द्धन्ततो होमं समाचरेत् ॥ ६४ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिदाज्य चरून्लाजान्सर्षपञ्चयवन्तिलान् ॥ ६५ ॥

होमद्रव्याणि सप्तैते जुहुयाद्वै क्रमेण तु
पलाशोदुम्बराश्वत्थ बिल्वञ्चेति दिशासु च ॥ ६६ ॥

शमीखादिरमायूर वटाश्चेति विदिक्षु वै
प्रधानस्य पलाशं हि सर्वेषामिध्वमेव च ॥ ६७ ॥

सद्योजातेति मन्त्रेण समिधाहुतिमाचरेत्
मूलेन जुहुयादाज्यमघोरेण चरुं हुनेत् ॥ ६८ ॥

लाजं वामेन मन्त्रेण सर्षपं कवचेन तु
यवं हुवा शिखायान्तु तिलमस्त्रेण होमयेत् ॥ ६९ ॥

शतत्रयंशतं वापि तस्यार्द्धं वार्द्धमेव हि
प्रत्येकं जुहुयाद्धीमान्द्रव्यान्ते व्याहृतिं हुनेत् ॥ ७० ॥

समिदाहुतिं विनाधीमान् उपाहुतिमथाचरेत्
घृतमिक्षे घृतं हुत्वा देवस्य त्वा चरुं हुनेत् ॥ ७१ ॥

यद्देवमेतिधोवालाशकृद्रुद्रायेति सर्षपम्
यवञ्च शन्नोदेवीति एषामीशतिलं हुनेत् ॥ ७२ ॥

[[७०१]]

प्रत्येकं दशकं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत्
ब्रह्मजज्ञानमन्त्रेण हुत्वा स्पृष्ट्वा त्वजांशकम् ॥ ७३ ॥

इदं विष्ण्वीति मन्त्रेण हुत्वा विश्वांशकं स्पृशेत्
त्रियम्बकेन मन्त्रेण हुत्वा त्वीशांशकं स्पृशेत् ॥ ७४ ॥

सर्वद्रव्यसमायुक्तं हव्यवाहेति होमयेत्
एवं जागरणं रात्रौ प्रभाते प्रोक्षणं कुरु ॥ ७५ ॥

आचार्यो मूर्तिपैस्सार्द्धं स्नानं कृत्वा विशेषतः
अङ्गन्न्यासकरन्न्यासं पूर्वोक्तविधिना कुरु ॥ ७६ ॥

व्यपोह्योषितपुष्पाणि कौतुकं वस्त्रसंयुतम्
सद्यादिपञ्चमन्त्रैश्च गव्यैश्चैवाभिषेचनम् ॥ ७७ ॥

मृदाम्भसा तु संस्नाप्य कुशतोयेन सेचयेत्
गन्धोदकेन संस्नाप्य लिङ्गपीठस्थलं क्रमात् ॥ ७८ ॥

गन्धादिभिस्समभ्यर्च्य हृदयेनैव मन्त्रतः
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ७९ ॥

आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः
कन्यसन्दशनिष्कन्तु विंशन्निष्कन्तु मद्ध्यमम् ॥ ८० ॥

त्रिंशन्निष्कोत्तमं प्रोक्तं देशिकस्य तु दक्षिणा
दक्षिणान्दापयेत्तत्र पञ्चाङ्गभूषणेस्सह ॥ ८१ ॥

अद्ध्येतृमूर्तिधारांश्च पूजयेत्पूर्ववद्बुधः
पूर्णाहुतिन्तु शिरसा हुत्वाग्निन्तु विसर्जयेत् ॥ ८२ ॥

शिवकुम्भं वर्द्धनीञ्च उद्धरेन्मूर्तिकुम्भकान्
शिरसा वाहयित्वा तु कृत्वा हर्म्यप्रदक्षिणम् ॥ ८३ ॥

सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम्
पुत्रपौत्रकलत्रैश्च यजमानोप्यनुव्रजेत् ॥ ८४ ॥

द्वारदेशं समानीय पूजयेद्गन्धपुष्पकैः
गर्भगेहं ततः प्राप्य स्थापयेत्तण्डुलोपरि ॥ ८५ ॥

[[७०२]]

मुहूर्तन्निरीक्ष्य दैवज्ञो गुरवे सन्निवेदयेत्
ध्यात्वा सदाशिवं लिङ्गे त्वष्टत्रिंशत्कलान्वितम् ॥ ८६ ॥

कुम्भान्मन्त्रं समादाय लिङ्गमद्ध्ये तु योजयेत्
शक्तिबीजन्तु वर्द्धन्याः पिण्डिकायाञ्च विन्न्यसेत् ॥ ८७ ॥

कुम्भोदैः स्नापयेल्लिङ्गं वर्द्धनीभिस्तु पिण्डिकाम्
अनन्तादिशिखण्ड्यन्तान् क्रमात्पीठे तु विन्न्यसेत् ॥ ८८ ॥

कुम्भस्थैरुदकैर्लिङ्गं स्नापयेत्तु दशाक्षरैः
गन्धपुष्पादिभिश्चैव पूजयेदीशमन्त्रतः ॥ ८९ ॥

स्नपनं कारयेदन्ते प्रागुक्तविधिना सह
अर्चनोक्तं समभ्यर्च्य प्रभूतहविषन्ददेत् ॥ ९० ॥

परिवारघटाभिस्तु स्वस्थानेष्वभिषेचयेत्
बीजानि विधिवन्न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ॥ ९१ ॥

उत्सवं कारयेत्पश्चात् यथावित्तानुसारतः
अत्रानावर्तकस्यैव विशेषं किञ्चिदस्ति हि ॥ ९२ ॥

पतिकैश्चोरकैश्चैव चण्डालैस्पर्शिते सति
पूजाहीनञ्च मासार्द्धं लिङ्गादावाहनं विना ॥ ९३ ॥

पूजाहीनन्तदूर्ध्वञ्चेत् तद्विधानमिहोच्यते
स्थानशुद्धिक्रमणैव लिङ्गशुद्धिं ततः कुरु ॥ ९४ ॥

गन्धपुष्पादिभिर्लिङ्गमीशानेन तु पूजयेत्
लिङ्गाग्रे स्थण्डिलं कृत्वा कुम्भं तस्योपरि न्यसेत् ॥ ९५ ॥

वर्द्धनीं तस्य वामे तु चाभितोष्टघटान् न्यसेत्
सूत्रादिभिस्समोपेतान् विन्यसेद्धृदयेन तु ॥ ९६ ॥

लिङ्गाद्देवं समावाह्य कुम्भमद्ध्ये तु विन्यसेत्
विन्न्यसेत्पिण्डिकायास्तु वर्द्धन्यान्तु मनोन्मनीम् ॥ ९७ ॥

पूजयेत् गन्धपुष्पाद्यैरीशानेन तु मन्त्रतः
दर्शयेल्लिङ्गमुद्राञ्च पद्ममुद्रां क्रमेण तु ॥ ९८ ॥

[[७०३]]

विद्येशानां स्वबीजन्तु कुम्भमद्ध्ये क्रमान्न्यसेत्
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ ९९ ॥

कुम्भानुद्धृत्य शिरसा बाह्ये धामप्रदक्षिणम्
कृत्वैव वेदिकोर्द्ध्वे तु विन्न्यसेत्पूर्ववत्सुधीः १००
अग्न्यादि सर्वकार्याणि प्रागुक्तविधिनाचरेत्
ततोन्तरितकञ्चेत्तु बिम्बाग्रे स्थण्डिलं कुरु १०१
तन्मद्ध्ये विन्न्यसेत्कुम्भं वर्द्धनीन्देशिकोत्तमः
ससूत्रौ गन्धतोयौ च रत्नहेमसमन्वितौ १०२
सवस्त्रौ कूर्चसंयुक्तौ सापिधानौ सपल्लवौ
अभितोष्टघटौ न्यस्त्वा सूत्रादिभिस्समन्वितम् १०३
बिम्बान्महेशमावाह्य ध्यात्वा कुम्भस्य मद्ध्यमे
महेशस्यैव बीजेन विन्यसेत्तु विशेषतः १०४
पीठाद्गौरीं समावाह्य वर्द्धन्न्यां मद्ध्यमे न्यसेत्
गन्धपुष्पादिभिश्चैव त्वीशानेन तु पूजयेत् १०५
दर्शयेत्तु महेशाख्यं पदमुद्रां क्रमेण तु
विद्येश्वराणां बीजैश्च पूर्वादिषु प्रविन्न्यसेत् १०६
गन्धपुष्पादिभिश्चैव हृदयेन तु पूजयेत्
अग्रे वा दक्षिणे वापि वामे वा मण्टपे ततः १०७
स्थण्डिले स्थापयित्वा तु पूजयेत्तु विशेषतः
पुनस्सन्धानकं कृत्वा सम्प्रोक्षणमथाचरेत् १०८
वेदिमद्ध्ये न्यसेद्बिम्बं प्राङ्मुखं हृदयेन तु
गन्धपुष्पैर्हृदाभ्यर्च्य रक्तवस्त्रेन वेष्टयेत् १०९
पूर्वे तु स्थापितं कुम्भं प्रतिमाग्रे तु विन्न्यसेत्
अभितस्तु घटान्न्यस्त्वा चाष्टविद्येश्वरान्पृथक् ११०
गन्धपुष्पादिभिस्तत्राप्यैशानेन तु पूजयेत्
परिवारघटांश्चैव वर्जयेत्तु विशेषतः १११

[[७०४]]

स्वतःप्रधानकञ्चेत्तु तैर्युक्तं स्थापयेत्सुधीः
शेषाणि सर्वकार्याणि कुर्यात्पूर्वोक्तवर्त्मना ११२
गौर्यायास्थापने चैव सर्वं तस्यास्तु मन्त्रकैः
कारयेत्तु क्रमेणैव मण्टपस्य तु मद्ध्यमे ११३
नवाग्न्यायतनं कृत्वा योन्याकाराणि दिक्षु वै
वृत्तानीव तथा कुर्यात् प्रधानं योनिकुण्डकम् ११४
अभितोष्टघटेष्वत्र वामादिशक्तयो न्यसेत्
इदमेवं विशेषन्तु शेषं पूर्वोक्तवत्कुरु ११५
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात्
अप्रजाश्च प्रजावृद्धिं धनार्त्थीधनमाप्नुयात् ११६
जयार्त्थी जयमाप्नोति मोक्षार्त्थी मोक्षमाप्नुयात् ११७
सम्प्रोक्षणविधिं वक्ष्ये सर्वदोषनिकृन्तनम्
सर्वशत्रुक्षयकरं सर्वोपद्रवनाशनम् ॥ १ ॥

सौख्यं यशस्करं धन्यमायुरारोग्य वर्द्धनम्
आवर्तञ्चेत्यनावर्तं पुनरावर्तनन्तथा ॥ २ ॥

अन्तरितञ्च विज्ञेयं प्रोक्षणन्तु चतुर्विधम्
मूलबालालयाद्देवं मूलस्थाने प्रतिष्ठितम् ॥ ३ ॥

तदावर्तमिति ज्ञेयमनावर्तं ततश्श्रुणु
पतितैः पातकैर्नीचैश्चण्डालैश्शिल्पिभिस्तु वा ॥ ४ ॥

पूजाहीने ——— स्थलकर्मणि
लिङ्गे पीठे च चलिते तदनावर्तमिष्यते ॥ ५ ॥

मूलालयात्समादाय स्थाप्यबालालये पुनः
तस्मात्संस्थापनं मूलं पुनरावर्तनन्तथा ॥ ६ ॥

प्रतिमाणाञ्च सर्वेषां शक्तीनामायुधा स्मृताः
स्फोटने भञ्जनेनाङ्गसाङ्गोपाङ्गविहीनके ॥ ७ ॥

[[७०५]]

विशिष्टे पीठबन्धे च तदन्तरितमुच्यते
एकसन्ध्यार्चना हीने कुर्यात् गव्याभिषेचनम् ॥ ८ ॥

पक्षहीने दिशाहोमं स्नपनन्तत्र कारयेत्
मासादूर्ध्वविहीने तु जलसम्प्रोक्षणं कुरु ॥ ९ ॥

यात्राहोमयुतावर्त —— विहीनके
आवर्ते —- मासपक्षर्क्षकादिकान् ॥ १० ॥

लिङ्गसंस्थापनस्योक्तमार्गेणैव समाचरेत्
न तिथिर्न च नक्षत्रं न वारपरिकल्पनम् ॥ ११ ॥

कालक्षे–ओविना कुर्यात् शेषाण्यन्यानि सुव्रत
सर्वमासेषु कर्तव्यं सम्प्रोक्षणमथाचरेत् ॥ १२ ॥

एवं निश्चित्य दिवसे क्रमेणैवाभिषेचयेत्
लक्षणोद्धारणञ्चैव मन्त्रेण बहुनोक्तवत् ॥ १३ ॥

सर्वमावर्तवत्कुर्यादधिवासन्तथैव च
रत्नन्यासाक्षिमोक्षञ्च लक्षणोद्धारणन्तथा ॥ १४ ॥

कुर्यात्तथाधिवासञ्च विना वा बेरकर्मणि
मासनक्षत्रवारञ्च योगं करणं तिथिः ॥ १५ ॥

सर्वेषु देवकार्येषु निरपेक्षन्तु कारयेत्
आयुः कीर्तिञ्च पुष्टिञ्च धनधान्याभिवर्द्धनम् ॥ १६ ॥

अङ्गभेदमिति प्रोक्तं तच्चतुर्विधमुच्यते
अङ्गं प्रत्यङ्गसाङ्गञ्च तथाचोपाङ्गसञ्ज्ञकम् ॥ १७ ॥

शिरोवक्त्रञ्च हृदयमङ्गञ्चेति प्रकीर्तितम्
कक्षेस्तनौ च बाहू च नाभिगुह्योदराणि च ॥ १८ ॥

ऊरुजानु द्वयञ्चैव प्रत्यङ्गञ्चेति कीर्तितम्
नेत्रे नासा च कर्णे च पाणिपादतलाङ्गुलीः ॥ १९ ॥

जटामकुटसंयुक्तं साङ्गञ्चेति प्रकीर्तितम्
वस्त्रोपवीतमाला च भूषणायुधमेव च ॥ २० ॥

[[७०६]]

गङ्गा चन्द्रमपस्मारं नागकूर्मं तथैव च
प्रभाभिन्नसमायुक्तं पद्मपीठन्तथैव च ॥ २१ ॥

आसनावरणञ्चैवमुपाङ्गञ्चेति कीर्तितम्
शिल्पिनास्पर्शिते वापि पूजाहीनेऽग्निलीढिके ॥ २२ ॥

तस्करस्पर्शने भ्रान्तरोगार्तस्पर्शितेऽथवा
प्रमादात् भूमिपतिते वर्षसिक्तेऽथवा पुनः ॥ २३ ॥

पूजाहीने तु पक्षार्द्धं प्रतिष्ठां कारयेद्बुधः
अन्यानि सर्वकार्याणि प्रागुक्तविधिना कुरु ॥ २४ ॥

आषाढे मार्गशीर्षे च माघे प्रोष्ठपदेऽपि वा
दिव्यलिङ्गे विशेषेण सम्प्रोक्षणमथाचरेत् ॥ २५ ॥

सम्प्रोक्षणं प्रकुर्वीत यजनं सम्यगाचरेत्
सितपक्षे तु पुण्यर्क्षे यजमानानुकूलके ॥ २६ ॥

अङ्कुरार्पणपूर्वन्तु कल्पयेत्प्रोक्षणादिकम्
अनङ्कुरन्तु यत्कर्म तत्कर्म निष्फलं भवेत् ॥ २७ ॥

नवाहे वाथ सप्ताहे पञ्चाहे वाङ्कुरार्पणम्
त्रिदिने तद्दिने चैव कारयेदङ्कुरार्पणम् ॥ २८ ॥

पर्यग्निकरणं पूर्वं वास्तुहोममतः परम्
पुण्याहं वाचयेत्तत्र प्रोक्षयेत्पञ्चगव्यकैः ॥ २९ ॥

यश्शुद्धिं पवमानञ्च शान्तिं हिरण्यवर्णकम्
—————————- ॥ ३० ॥

अङ्कुरन्न्यासकार्यन्तु प्रागुक्तविधिना चरेत्
मुद्गं माषकुलुत्थञ्च निष्पावं शिम्बमाढकम् ॥ ३१ ॥

तिलसर्षपशालिञ्च सिद्धार्त्थं नवबीजकम्
उत्तमं नवबीजानि मद्ध्यमं सप्तबीजकम् ॥ ३२ ॥

अधमं पञ्चबीजानि यथालाभं प्रवापयेत्
प्रासादस्याग्रतो वापि पश्चिमे चोत्तरे तथा ॥ ३३ ॥

[[७०७]]

ऐशान्ये मद्ध्यमे वापि मण्टपञ्चतुरश्रकम्
नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ ३४ ॥

षोडश स्तम्भकं वापि द्वादश स्तम्भमेव वा
युगद्वारसमायुक्तञ्चतुस्तोरणभूषितम् ॥ ३५ ॥

मण्टपं नवधा भज्य मद्ध्यभागे तु वेदिका
मात्राङ्गुलेन कर्तव्यमन्यमाने नकारयेत् ॥ ३६ ॥

मद्ध्यमाङ्गुलिपर्वेण यजमानानुकूलकः
चतुर्विंशतिसङ्ख्यानामङ्गुलं हस्तमानकम् ॥ ३७ ॥

हस्तद्वयसमायुक्तं वेदिकामानमुच्यते
तत्समं तत्र विस्तारं वेदिकालक्षणन्तथा ॥ ३८ ॥

आयामविस्तरं प्रोक्तमुत्सेधलक्षणं श्रुणु
षोडशाङ्गुलमुत्सेधं निम्नोन्नतविवर्जितम् ॥ ३९ ॥

वेदिमूलस्य परितश्चोपवेदिं प्रकल्पयेत्
उत्सेधं द्व्यङ्गुलं प्रोक्तं विस्तारं तत्समं भवेत् ॥ ४० ॥

मुकुरोदरसङ्काशं निम्नोन्नतविवर्जितम्
तद्व्योमपूर्वदिग्भागे स्वहस्तमाननिर्मितम् ॥ ४१ ॥

पूर्वे पदस्य मद्ध्ये तु वह्नेरायतनं कुरु
आयामं हस्तमात्रन्तु विस्तारं तत्समं भवेत् ॥ ४२ ॥

मेखलात्रयसंयुक्तं श्रुत्यग्निद्वितयाङ्गुलैः
तदूर्ध्वे योनिमाकल्प्य कुरु पिप्पलपत्रवत् ॥ ४३ ॥

चतुरङ्गुलविस्तीर्णं तद्दीर्घन्तु शराङ्गुलम्
उच्चद्वयाङ्गुलं प्रोक्तं तद्दीर्घम्मोक्षमेव च ॥ ४४ ॥

तत्पादं वासुकी पुच्छं पूर्वे तु वलयं भवेत्
नवाग्निं वाथ पञ्चाग्निमेकाग्निमथवा पुनः ॥ ४५ ॥

दिशासु चतुरश्राणि विदिशास्वब्जकुण्डकम्
शक्रशङ्करयोर्मद्ध्ये वृत्तं प्राधान्यकं कुरु ॥ ४६ ॥

[[७०८]]

पञ्चाग्निं कारयेत्तत्र पद्मकुण्डं प्रकल्पयेत्
पूर्वे चाहवनीयाग्निर्दक्षिणे वैदिकं भवेत् ॥ ४७ ॥

पश्चिमे केवलाग्निश्च गार्हपत्यमुदक् दिशि
ईशाने च प्रधाने तु शिवाग्निं कल्पयेत्ततः ॥ ४८ ॥

अग्निरूपं विशेषेण श्रुणुष्वेवं प्रजापते
द्विमुखञ्च त्रिपादञ्च नासिका द्वयसंयुतम् ॥ ४९ ॥

त्रिमेखला समायुक्तं षण्णेत्रं पिङ्गलप्रभम्
चतुश्शृङ्गं वृषारूढं बालार्कसमकेशकम् ॥ ५० ॥

सप्तजिह्वा समायुक्तं जटामकुटमण्डितम्
सव्यवक्त्रे चतुर्जिह्वा वामवक्त्रे त्रयन्तथा ॥ ५१ ॥

सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके
स्रुक्स्रुवा वक्षमालाञ्च शक्तिर्दक्षिणतः करे ॥ ५२ ॥

चामरं व्यजनञ्चैव घृतपात्रन्तु वामके
हिरण्या कनकारक्ता कृष्णा चैव तु सुप्रभा ॥ ५३ ॥

अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः
हिरण्यादि चतस्रस्तु जिह्वा दक्षिणवक्त्रके ॥ ५४ ॥

सुप्रभादयस्तथा तिस्रो जिह्वाश्च वामवक्त्रके
हिरण्या वारुणे जिह्वा कनका मद्ध्यमे स्थिता ॥ ५५ ॥

रक्ता चोत्तरजिह्वा स्यात्कृष्णायाम्य दिशि स्थिता
सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्निदिक्स्थिता ॥ ५६ ॥

बहुरूपेशदिक्स्था च जिह्वा सप्तकमुच्यते
अग्निकर्णे हुतं कुर्यात् व्याधिभिः परिभूयते ॥ ५७ ॥

नासिकायां हुतं रोगं नेत्रे होतुर्विनाशनम्
शिखास्थाने हुतं कुर्याद्राजराष्ट्रं विनश्यति ॥ ५८ ॥

तस्मात्सर्वप्रयत्नेन होममास्ये प्रकल्पयेत्
यत्र कोष्ठन्तु तत् श्रोत्रं यत्र धूमन्तु नासिका ॥ ५९ ॥

[[७०९]]

यत्राल्पज्वलिकन्नेत्रं यत्र भस्म तु तच्छिरः
यत्र ज्वलितजिह्वायां ततो होमं समाचरेत् ॥ ६० ॥

पूर्ववद्रूपसंयुक्तां स्वाहा देवीञ्च भावयेत्
एवमावहवनीयाग्निं पूर्वकाष्ठापतिर्भवेत् ॥ ६१ ॥

एकवक्त्रं द्विनेत्रञ्च द्विभुजञ्च द्विपादकम्
कृष्णवर्णनिभं शान्तमजारूढं त्रिलोचनम् ॥ ६२ ॥

एवं वैदिकमग्निञ्च पूजयेत्तु विशेषतः
द्विनेत्रमेकवक्त्रञ्च द्विभुजञ्च द्विपादकम् ॥ ६३ ॥

शुक्लवस्त्रपरीधानं श्वेतवर्ण –
अभयं वरदोपेतं केवलाग्नेः स्वरूपकम् ॥ ६४ ॥

एवन्ध्यात्वा विशेषेण पूजयेद्देशिकोत्तमः
शोणाङ्गं रक्तनेत्रं श्रुतिकरवदनं पक्षश्रृङ्गशं रक्तं वस्त्रावृतं स्यात्
दभयवरदं स्रुक्स्रुवोर्द्ध्वेवहन्तम् ।
हारं केयूरमालाभरणजटालङ्कृतं — पादमेवारूढं – शक्तिं
– ॥ ॥ ६५ ॥

अनलशतसहस्रं रूपभूतञ्च वक्त्रं स्रुवमभयपरशुं खड्गघण्ठाञ्च सव्ये

वरदमनलमङ्कुशं स्रुक्खेट — हस्तन्द — जनितरूपं
शैवमाहुश्शिवाग्निम् ॥ ६६ ॥

एवन्ध्यात्वा विशेषेण वह्नेरूपं विचिन्तयेत् ॥ ६७ ॥

अग्निं प्रज्वाल्य खड्गेन वायुबीजमनुस्मरन्
अग्निकार्योक्तमार्गेण होमं कृत्वा विशेषतः ॥ ६८ ॥

यागाङ्गानि च सर्वाकि ————–
लशान्लक्षणोपेतान् चतुःप्रस्थेन पूरितान् ॥ ६९ ॥

श्रेष्ठं शताष्टकं प्रोक्तं मद्ध्यमन्तु तदर्द्धकम्
षट्त्रिंशदधमं प्रोक्तं यथालाभं प्रकल्पयेत् ॥ ७० ॥

[[७१०]]

कुम्भं सलक्षणं कृत्वा षट्शिवं पूरयेज्जलम्
वर्द्धनीन्तु तदर्द्धेन पूरयेत्तु विशेषतः ॥ ७१ ॥

तन्तुनावेष्टयेत्कुम्भान् गवाक्षसदृशान्तरान्
पक्वबिम्बफलप्रख्यान् कांस्य द्ध्वनिसमन्वितान् ॥ ७२ ॥

प्राक् भूतकुम्भन्तथैकाग्निकुम्भन्दाक्षिण्यवेदन्निर्ऋतित्रयञ्च वारुण्यभूतं
तथाश्विन्य वायौ सोमे युगं स्यात्त्रयकुम्भमीशे ॥ ७३ ॥

नन्दिशान्ती वलारातिर्महाकालोरविश्शिखी
भृङ्गिर्विद्याकलाद्वारमन्तकश्च विनायकम् ॥ ७४ ॥

विष्णुश्च निर्ऋतिर्ब्रह्मा वृषभास्त्रं यथाक्रमम्
निवृत्तिः पाशपाणिश्च महालक्ष्मी च षण्मुखः ॥ ७५ ॥

क्षेत्रपालश्च वायुश्च विघ्नेशः परमेश्वरी
प्रतिष्ठाधनदश्चण्डो गुरवश्शङ्करो विधिः ॥ ७६ ॥

तत्तत्स्थानेषु सम्पूज्य दिक्देवान् द्वारपालकान्
कुम्भे शिवं समभ्यर्च्य वर्द्धन्यान्तु मनोन्मनीम् ॥ ७७ ॥

विद्येशान् लोकपालांश्च द्वारदेवान् प्रपूजयेत्
पूर्वे वास्तुबलिं कृत्वा पर्यग्निञ्च द्वितीयके ॥ ७८ ॥

तृतीये चाङ्कुरन्यासं चतुर्त्थे मण्डप —
पञ्चमे स्थापनं प्रोक्तं षष्ठे त्वावाहनं भवेत् ॥ ७९ ॥

सप्तमे होमकर्माणि नैवेद्यमष्टमं भवेत्
नवमं बेरशुद्धिञ्च दशमे स्थापनं भवेत् ॥ ८० ॥

मन्त्रन्यासाक्षरन्यासं मातृकान्यासमुच्यते
अष्टत्रिंशत्कलान्यासं विधिना कारयेत्ततः ॥ ८१ ॥

वस्त्रयुग्मेन संवेष्ट्य पुष्पमाल्यैरलङ्कृतम्
धूपदीपं हृदादत्वा शिवकूर्चन्तु दापयेत् ॥ ८२ ॥

यागं सम्पूज्य विधिवत् शेषं होमन्तु कारयेत्
प्रत्येकमाहुतिं हुत्वा स्रुवेणाज्यन्तु होमयेत् ॥ ८३ ॥

[[७११]]

समिदाज्य चरून् लाजान् सर्षपं माषमुद्गकम्
तिलवेणुयवं क्षीरं सक्तुञ्च जुहुयात्क्रमात् ॥ ८४ ॥

पञ्चब्रह्मषडङ्गेन होमं कृत्वा पृथक्पृथक्
शतद्वयं शतं वाथ जुहुयाद्देशिकोत्तमः ॥ ८५ ॥

सद्येन समिधं हुत्वा घृतं वामेन हूयते
अघोरेण चरुं हुत्वा लाजञ्च पुरुषेण तु ॥ ८६ ॥

सर्षपं कवचेनैव माषमीशेन होमयेत्
मुद्गन्तु हृदयेनैव तिलञ्च शिरसा हुनेत् ॥ ८७ ॥

वैणवं शिखया हुत्वा यवन्नेत्रेण होमयेत्
दुग्धं वै चास्त्रमन्त्रेण सक्तुं मूलेन होमयेत् ॥ ८८ ॥

द्रव्याण्यन्यानि सर्वाणि मूलेन जुहुयात्सुधीः
द्रव्यान्ते व्याहृतिं हुत्वा प्रायश्चित्तार्त्थकं हुनेत् ॥ ८९ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
इध्माहुतिः प्रकर्त्तव्याप्यघोरास्त्रशतं हुनेत् ॥ ९० ॥

पाशुपतेन चास्त्रेण हुनेदष्टशतं क्रमात्
गन्धपुष्पञ्च धूपञ्च दीपमर्घ्यं प्रदापयेत् ॥ ९१ ॥

वसुभ्यो रुद्रमन्त्रेण पूर्णाहुतिमथाचरेत्
परिषेचनन्ततः कुर्याददितेन्वादि मन्त्रतः ॥ ९२ ॥

आज्यमन्त्रेण पूर्वे वा दक्षिणे पश्चिमोत्तरे
परिधिस्थान्विष्टरस्थानुद्वास्य स्वस्वबीजकैः ॥ ९३ ॥

शिवकुम्भन्ततोद्धृत्य वर्द्धन्या परिवारकैः
हर्म्यं प्रदक्षिणी कृत्य तस्याग्रे स्थापयेत् घटान् ॥ ९४ ॥

सकली कृतदेहस्तु सुमुहूर्त्ते सुलग्नके
मन्त्रन्यासन्ततः कृत्वा शिवमन्त्रं समुच्चरन् ॥ ९५ ॥

उद्वास्य शिवकुम्भन्तु लिङ्गे चैवाभिषेचयेत्
गौरी गायत्रिमन्त्रेण वर्द्धनीमभिषेचयेत् ॥ ९६ ॥

[[७१२]]

विद्येशकुम्भानुद्धृत्य तत्तस्थानेषु योजयेत्
वस्त्रेण वेष्टयेल्लिङ्गं पुष्पमाल्यैरलङ्कृतम् ॥ ९७ ॥

पायसान्नन्ददेत्तस्मैरम्भाज्य गुलखण्डयुक्
प्रभूतहविषन्दत्वा सापूपं सोपदंशकम् ॥ ९८ ॥

बलिदानन्ततः कुर्यात् ताम्बूलं दापयेत्ततः
धूपदीपं हृदा दत्वा जयघण्टा समन्वितम् ॥ ९९ ॥

नीराजनन्ततः कृत्वा दर्पणं दर्शयेत्ततः
नृत्तं गीतञ्च वाद्यञ्च शङ्खकूर्यादिनादयुक् १००
वेदघोषवमायुक्तं खेटकैः स्वस्तिवाचकैः
देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः १०१
विप्रेभ्यो दक्षिणान्दद्यात् अतिथीनाञ्च पूजयेत्
दीनान्धकृपणानाञ्च तदन्येषां प्रदापयेत् १०२
भुक्तिदम्मुक्तिदन्दिव्यमायुरारोग्य वर्द्धनम्
सर्वयज्ञतपोदानं सर्वसम्पत्समृद्धिदम् १०३
सङ्क्षेपमृत्सङ्ग्रहणविधिपटलप्रारम्भः
मृत्सङ्ग्रहविधिं वक्ष्ये सर्वलोकहितावहम्
ग्रामशान्तिकरं पुण्यं राजराष्ट्रसमृद्धिदम् ॥ १ ॥

प्रतिष्ठा प्रोक्षणे काले दीक्षा काले तथैव च
उत्सवे च पवित्रे च तत्कर्मादौ समाचरेत् ॥ २ ॥

देवदेवन्तु सम्पूज्य विज्ञापनमथाचरेत्
चण्डेश्वरं समादाय कारयेत्तु विशेषतः ॥ ३ ॥

आसनं मूत्तिमूलञ्च आवाहनादि पूर्ववत्
स्नपनं कारयेत्पश्चात्ताम्बूलन्दापयेत्ततः ॥ ४ ॥

सर्ववस्त्रैरलङ्कृत्य गन्धपुष्पैरलङ्कृतम्
कुन्दालिमभिषिच्याथ अस्त्रमन्त्रेण पूजयेत् ॥ ५ ॥

[[७१३]]

त्रिशूलन्तु समभ्यर्च्य त्रयस्त्रिंशाधिदैवतम्
नववस्त्रधरोष्णीषमादिशैवो दृढव्रतः ॥ ६ ॥

हारनूपुरकेयूरकटकादि विभूषितः
शिबिकैश्च गजैश्चैव परिचारकमावृतः ॥ ७ ॥

ग्रामप्रदक्षिणं कृत्वा शङ्खकालपुरस्सरम्
सर्ववाद्यैरलङ्कृत्य छत्रचामरसेवितम् ॥ ८ ॥

वाहयित्वाथ नारीभिस्तालवृन्तेन सेवितम्
चण्डेश्वरादिसंयुक्तं मृत्स्थानन्तु समाश्रयेत् ॥ ९ ॥

नदीतटाककेदारे दर्भमूले तु वल्मिके
पर्वताग्रे बिल्वमूले बृन्दे चोद्यानदेशके ॥ १० ॥

ऐशान्यां स्वानसंयुक्तं निरीक्षादिविशेषतः
सम्मार्जनं समालेप्य प्रोक्षणन्तु यथाविधि ॥ ११ ॥

स्थण्डिलं कारयेद्धीमान् नवकोष्ठं प्रकल्पयेत्
विघ्नेश्वरं समभ्यर्च्य पुण्याहं कारयेत्ततः ॥ १२ ॥

मद्ध्ये ब्रह्माणमावाह्य अर्चयेन्नवमन्त्रतः
अनन्ताविजया चैव जयन्ता भ्रमरी तथा ॥ १३ ॥

प्रस्थिता जम्भशूलिन्या परिवाराष्टकं यजेत्
नाममन्त्रैस्समभ्यर्च्य धूपदीपेन सेवितम् ॥ १४ ॥

दिग्विदिक्षु बलिं कुर्यात्पायसाद्यैर्विशेषतः
बाह्ये बलिं समुद्वास्य प्रोक्षयेदस्त्रमन्त्रतः ॥ १५ ॥

भूमिदेवीकुक्षिदेशे खातदोषनिवृत्तये
व्रणोपशमनार्त्थाय पूजयेत्सप्तवारिधिम् ॥ १६ ॥

स्थण्डिलं तत्र कल्प्याथ षट्कुम्भं षड्दले न्यसेत्
अथवा एककुम्भे तु पूजयेत्सप्तवारिधिम् ॥ १७ ॥

उत्तराभिमुखस्थित्वा तद्देशे मृतमाचरेत्
स्तोत्रगीतञ्च वाद्यञ्च नृत्तघोषसमाकुलम् ॥ १८ ॥

[[७१४]]

सुमुहूर्ते सुनक्षत्रे मृद्ग्राहं कारयेद्बुधः
कुन्दालिं भूमिमन्त्रेण त्रिकृत्वो निखनेन्मृदम् ॥ १९ ॥

ललाटे स्थाननाशं स्यात् वक्त्रे ब्रांहणनाशनम्
गले आचार्यनाशस्यात् बाहूक्षत्रियनाशनम् ॥ २० ॥

स्तने स्त्रीनाशनं कुर्यादुरसि पुत्रनाशनम्
ऊरौ तु वैश्यनाशं स्यात्पादे च शूद्रनाशनम् ॥ २१ ॥

गृहीत्वा जठरे देव्या मृत्तिकां सर्वसिद्धिदाम्
स्वर्णादिपात्रे सङ्ग्राह्य आदिशैवेन वाहयेत् ॥ २२ ॥

सर्ववाद्य समायुक्तं शङ्खकालपुरस्सरम्
दीपान्ते तु प्रकर्तव्यं धूपदीपेन सेवितम् ॥ २३ ॥

ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ २४ ॥

इति मृत्सङ्ग्रहणविधिपटल अष्टत्रिंशदुत्तरशततमः