अष्टबन्धनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि चाष्टबन्धविधिक्रमम्
अकारं सृष्टिरूपन्तु ष्टकारं स्थितिरूपकम् ॥ १ ॥
बकारं संहृतिश्चैव तिरो भावन्धकारकम्
अनुग्रहन्नकारञ्च बिन्दुस्सर्वत्र साधकः ॥ २ ॥
इत्येवं मन्त्रतन्त्रञ्च भावनं सन्धिबन्धनम्
अष्टबन्धनशून्ये च पूर्वे राष्ट्रस्य दोषकृत् ॥ ३ ॥
आग्नेय्यामग्निदाहन्तु याम्ये वा मृतिरुच्यते
[[६८०]]
ग्रामनाशन्तु नैर्ऋत्यां वारुण्यां वर्षवर्जितम् ॥ ४ ॥
वायव्यां स्त्रीविनाशन्तु सौम्ये सुतविनाशनम्
ऐशान्यां धननाशन्तु सर्वदोषः प्रवर्त्तते ॥ ५ ॥
बिन्दुमात्रे च विच्छिन्न ज्वरमारी प्रवर्त्तते
यवाङ्गुलन्तु विच्छिन्ने सद्यो बन्धनमिष्यते ॥ ६ ॥
द्वादशाङ्गुले तु विच्छिन्ने सपादादष्टबन्धनम्
प्रमादात् बन्धहीने तु पूजानैवेद्य निष्फलम् ॥ ७ ॥
बलिन्नित्योत्सवञ्चैव प्रदक्षिणक्रमेण तु
स्थलञ्चैव प्रवेशन्तु विट्शूद्रसर्वनाशनम् ॥ ८ ॥
नन्द्यावर्त्तशिलाभागे दुर्भिक्षन्तु प्रवेशयेत्
प्रायश्चित्तमिति ख्यातं शान्तिहोमं समाचरेत् ॥ ९ ॥
अष्टबन्धनहीने तु पुनर्बन्धन्तु कारयेत्
लाक्षासर्जरपाषाणं माहिषं सीसबन्धनम् ॥ १० ॥
त्रिबन्धनमिति ख्यातं सर्वसिद्धिकरं शुभम्
दिनवारमुहूर्त्तञ्च वर्जयेत्तु विचक्षणः ॥ ११ ॥
सर्वमासेषु कर्त्तव्यमष्टबन्धनकर्म च
स्वयम्भूर्दैविकञ्चार्षमासुरं गाणवन्तथा ॥ १२ ॥
मानुषं भौतिकञ्चैव सप्तधा लिङ्गमुच्यते
अपक्वन्दैविके प्रोक्तं पक्वञ्चैव तु मानुषे ॥ १३ ॥
स्वायम्भुवे त्रिबन्धं स्यादार्षे च पञ्चबन्धनम्
अष्टबन्धनकर्माणि मानुषे लिङ्गसञ्ज्ञके ॥ १४ ॥
मनोन्मन्यादि शक्तीनां कारयेदष्टबन्धनम्
सर्वेषां परिवाराणं त्रिबन्धं वाष्टबन्धनम् ॥ १५ ॥
आर्षीकृत्याष्टबन्धन्तु बन्धयेल्लिङ्गपीठयोः
कार्पासतूलकञ्चैव महिषाज्यन्तु शर्करा ॥ १६ ॥
लाक्षाचूर्णं मधूश्चिष्टं कुन्दुरुस्कस्य चूर्णकम्
[[६८१]]
काषाय चूर्णं गौलञ्च द्रव्यं स्यादष्टबन्धनम् ॥ १७ ॥
एकभागन्तु कार्पासं माहिषाज्यन्तु तत्समम्
शिलाचूर्णञ्चतुर्भागं लाक्षा च ह्येकभागकम् ॥ १८ ॥
भागार्द्धन्तु मधूच्छिष्टं कुन्दुरुष्कं द्विभागकम्
काषाय चूर्णमेकार्द्धमेकार्द्धं गुलमुच्यते ॥ १९ ॥
द्रव्याण्यन्यानि सर्वाणि भागार्द्धार्द्धमिति स्मृतम्
पाषाणशर्कराचूर्णं मधूच्छिष्टञ्च गुग्गुलुम् ॥ २० ॥
लाक्षा च शङ्खचूर्णञ्च पञ्चबन्धनमिष्यते
श्रीप्रदञ्चाष्टबन्धं स्यात् भुक्तिदं पञ्चबन्धनम् ॥ २१ ॥
मोक्षदन्तु त्रिबन्धं स्यात् बन्धयेत् लिङ्गपीठयोः
प्रासादस्याग्रतो वापि पूर्वस्यांशां करेऽपि वा ॥ २२ ॥
मण्टपस्योत्तरे भागे यागमण्टपमाचरेत्
श्रुतिद्वारसमायुक्तं वेदतोरणसंयुतम् ॥ २३ ॥
तन्मद्ध्ये वेदिकां कुर्यादष्टाङ्गुलसमन्वितम्
विस्तारन्तु द्विहस्तं स्याद्दर्पणोदरसन्निभम् ॥ २४ ॥
अग्निकुण्डं समारभ्य स्थण्डिलेन समन्वितम्
निर्दोषैर्वालुकैश्शुभ्रैरग्नेरायतनं कुरु ॥ २५ ॥
शालिभिः स्थण्डिलं कुर्यादष्टद्रोणैश्च देशिकः
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैस्तु तिलैरपि ॥ २६ ॥
लाजपुष्पाक्षतैर्दर्भैर्विकिरेत्तु विशेषतः
गन्धादिभिस्समभ्यर्च्य स्थण्डिले स्थाप्य कुम्भकान् ॥ २७ ॥
लिङ्गस्थं देवमावाह्य कुम्भस्थं योजयेत् गुरुः
उत्तरे वर्द्धनीं स्थाप्य पीठाच्छक्तिं समावहेत् ॥ २८ ॥
स्थण्डिलन्तु ततो मद्ध्ये शिवकुम्भञ्च वर्द्धनीम्
पाद्यमाचमनञ्चार्घ्यं कुशोदं पञ्चगव्यकम् ॥ २९ ॥
पयोदधिघृतञ्चाष्ट कुम्भेष्वेवन्तु विन्यसेत्
[[६८२]]
अष्टकुम्भन्तथा स्थाप्य पीठे तत्तद्दिशासु च ॥ ३० ॥
अष्टमूर्त्तिं समावाह्य कुम्भस्थान्स्वस्वबीजकैः
ससूत्रान् कूर्चसंयुक्तान् सवस्त्रान्सहिरण्यकान् ॥ ३१ ॥
नालिकेरफलोपेतान् वस्त्रयुग्मेन वेष्टितान्
यात्रा होमन्तदग्रे तु कुण्डे वा स्थण्डिलेऽथवा ॥ ३२ ॥
आवाहनन्तथा देवं पूर्ववत्परिकल्पयेत्
गन्धपुष्पैस्समभ्यर्च्य धूपदीपनिवेद्यकम् ॥ ३३ ॥
ताम्बूलन्दापयेद्धीमान् देशिकस्य तु दक्षिणाम्
अष्टबन्धन्तथा पञ्च त्रिबन्धनमथापि वा ॥ ३४ ॥
तद्द्रव्येण समायुक्तं लूखले निक्षिपेत् बुधः
तद्द्रव्यं कुट्टयित्वा तु मुसलैः कुम्भहस्तकैः ॥ ३५ ॥
सुपक्वञ्चाष्टबन्धानां लिङ्गपीठस्य रन्ध्रयोः
रन्ध्रेषु बन्धयेद्धीमान् लिङ्गपीठं सलक्षणम् ॥ ३६ ॥
अग्निबीजमनुस्मृत्य दग्द्ध्वाश्रक्ष्णं दृढं कुरु
तैलाभ्यङ्गन्तु देवस्य कुर्याद्धीमान् विशेषतः ॥ ३७ ॥
चन्दनागरुकर्पूरकुङ्कुमोशीररोचना
गन्धद्रव्ययुतं गन्धं लेपयेल्लिङ्गपीठयोः ॥ ३८ ॥
कुम्भमद्ध्ये जलद्रोणमष्टकुम्भसमन्वितम्
मद्ध्यकुम्भन्तथा तोयं वर्द्धनीन्तस्य वामके ॥ ३९ ॥
सदाशिवं यजेन्मद्ध्ये वर्द्धन्यान्तु मनोन्मनीम्
अष्टकुम्भेषु विद्येशानधिदेवाः प्रकीर्तिताः ॥ ४० ॥
अग्निकार्योक्तमार्गेण पूजनं परिकल्पयेत्
समिदाज्य चरुञ्चैव होमयेत्तु विशेषतः ॥ ४१ ॥
अग्निकार्योक्तमार्गेण होमं कृत्वा विशेषतः
द्रव्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नेति मन्त्रतः ॥ ४२ ॥
जयादिरभ्याधानञ्च राष्ट्रभृश्चक्रमाद्धुनेत्
[[६८३]]
पूर्णाहुतिन्तु शिरसा कुम्भमद्ध्ये तु मूर्तिमान् ॥ ४३ ॥
स्नपनन्तत्र कुर्वीत शास्त्रोक्तेनैव वर्त्मना
द्वारपूजान्ततः कृत्वा लिङ्गशुद्धिं समाचरेत् ॥ ४४ ॥
सुमुहूर्त्ते सुलग्ने च मन्त्रन्यासादिकञ्चरेत्
अष्टकुम्भान् समादाय परिचारशिरोपरि ॥ ४५ ॥
शिवकुम्भन्ततोद्धृत्य प्रासादस्य प्रदक्षिणम्
परितः स्थितकुम्भन्तु लिङ्गमद्ध्येऽभिषेचयेत् ॥ ४६ ॥
वर्द्धनीं पिण्डिकामद्ध्ये चाष्टकुम्भस्थले क्रमात्
घृतक्षीराभिषेकन्तु स्नपनं कल्पयेत्ततः ॥ ४७ ॥
फलपूजान्ततः कृत्वा नालिकेरोदकैस्तथा
बिल्वोदैर्गन्धतोयैश्च फलोदैरिक्षुसारकैः ॥ ४८ ॥
सर्वगन्धसमायुक्तं सर्वपुष्पैरलङ्कृतम्
सर्वाभरणसंयुक्तं धूपदीपसमन्वितम् ॥ ४९ ॥
वेदद्ध्वनि समायुक्तं स्तोत्रमङ्गलवाचकैः
नैवेद्यन्दापयेत्तस्मै सोपदंशं सपूपकम् ॥ ५० ॥
पञ्चवर्णहविः कृत्वा शुद्धान्नमपि दापयेत्
पायसान्नं निवेद्याथ ताम्बूलन्तु प्रकल्पयेत् ॥ ५१ ॥
बलिदानन्ततः कृत्वा प्रागुक्तेनैव मार्गतः
मुखवाससमायुक्तं हस्तोद्वर्त्तनमेव च ॥ ५२ ॥
तदग्रे शुद्धनृत्तं वा सौख्यनृत्तमथापि वा
सवंशं गेयसंयुक्तं कारयेन्मतिमान् ततः ॥ ५३ ॥
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः
मूर्तिपानान्ततो दत्वा सर्वेषामुपचारकैः ॥ ५४ ॥
भक्तानां परिचाराणां यथाशक्त्या तु दक्षिणा
ब्राह्मणान् भोजयेद्विद्वान् यथावित्तानुसारतः ॥ ५५ ॥
प्रायश्चित्तन्ततः कृत्वा पूर्ववत्परिकल्पयेत्
[[६८४]]
निराजनन्ततः कुर्यात्स्नापयेत्परमेश्वरम् ॥ ५६ ॥
मन्त्राणान्तु निवेद्याथ मन्त्रपुष्पन्ततो ददेत्
स्नपनं पञ्चगव्यञ्च शान्तिहोमपुरस्सरम् ॥ ५७ ॥
शङ्खाभिषेकं कर्त्तव्यं चत्वारिंशद्दिनावधि
श्रीकरं जयदं पुण्यमायुरारोग्य वर्द्धनम् ॥ ५८ ॥
सर्वशत्रुक्षयकरं सर्वोपद्रवनाशनम्
भुक्तिदम्मुक्तिदन्नॄणां सर्वसौभाग्य वर्धनम् ॥ ५९ ॥
अथातस्सम्प्रवक्ष्यामि अष्टबन्धविधिक्रमम्
लिङ्गपीठान्तरं योग्यं स्वस्तिकं चाष्टबन्धनम् ॥ १ ॥
पक्वापक्वमपक्वन्तु त्रिविधं बन्धयेत्क्रमात्
अष्टबन्धनहीने च पूर्वे राष्ट्रं विनश्यति ॥ २ ॥
आग्नेय्यामग्निदग्धन्तु याम्ये च मृतिरुच्यते
ग्रामनाशन्तु नैर्ऋत्यां वारुण्यां वर्षवर्जितम् ॥ ३ ॥
सर्वनाशन्तु वायव्यां स्त्रीणां नाशन्तु सौम्यके
ऐशान्यां धननाशं स्यात् सर्वदोषं प्रवर्तते ॥ ४ ॥
बिन्दुकञ्चैव विच्छिन्ने ज्वरमारिसमुद्भवम्
यवमङ्गुलविच्छिन्ने सद्यबन्धनमेव च ॥ ५ ॥
द्वादशाङ्गुलविच्छिन्ने सपादादष्टबन्धनम्
प्रमादात् बन्धहीने तु पूजानैवेद्यमेव च ॥ ६ ॥
बलिं नित्योत्सवञ्चैव प्रदक्षिणन्तथा क्रमात्
नृत्तं गीतञ्च वाद्यञ्च नित्ये नैमित्तिकेऽपि च ॥ ७ ॥
उपचाराणि सर्वाणि निर्माल्यन्तु यथाविधि
विष्णुभागन्तु निर्माल्यं नृपायुष्यन्तु संहरेत् ॥ ८ ॥
ब्रंहभागन्तु निर्माल्यं ब्रंहवर्गविनाशनम्
शिवभागन्तु निर्माल्यं गर्भनाशकरं भवेत् ॥ ९ ॥
[[६८५]]
शिवभागन्तु निर्माल्यं सस्यनाशकरं भवेत्
तस्यभागशिलाग्रन्तु दुर्भिक्षन्तु प्रवेशयेत् ॥ १० ॥
पद्मबन्धन्तु निर्माल्यं ज्वरमारीविनाशनम्
स्थलञ्चैव प्रवेशन्तु विट्छूद्द्रस्सर्वनाशनम् ॥ ११ ॥
परितन्द्रन्तु हीने तु वर्जयेदष्टबन्धनम्
—– रं मुहूर्तञ्च वर्जयेत्तु विचक्षणः ॥ १२ ॥
सर्वमासे तु कर्तव्यमष्टबन्धन्तु कारयेत्
लाक्षासर्जरसंयुक्तं ससिद्धं गुरुबीजकम् ॥ १३ ॥
गुग्गुलुं गैरिकञ्चैव गुलन्तैलमिहोच्यते
अष्टबन्धनमेवन्तु मानुषं लिङ्गमुच्यते ॥ १४ ॥
स्वयम्भूदैविकञ्चैव आर्षं गाणवतन्तथा
त्रिबन्धं पञ्चबन्धञ्च अष्टबन्धनमेव च ॥ १५ ॥
प्रमादाद्बन्धहीने तु राजराष्ट्रं विनश्यति
लाक्षासर्जरसञ्चैव शङ्खञ्च कदलीफलम् ॥ १६ ॥
मधूच्छिष्टन्तु संयुक्तं बन्धयेत्पञ्चबन्धनम्
लाक्षागुग्गुलुपाषाणं महिषाज्येन बन्धयेत् ॥ १७ ॥
त्रिबन्धमिति विज्ञेयं पक्वापक्वन्तु बन्धयेत्
अपक्वं दैविकं प्रोक्तम् अपक्वञ्चैव मानुषम् ॥ १८ ॥
पर्वतं लिङ्गमेवन्तु दीर्घाकारन्तु दैविकम्
दैविकं मानुषञ्चैव गाणवम्मानुषन्तथा ॥ १९ ॥
भूमितञ्चैव सर्वेषां —- लिङ्गबन्धनम्
लूखलं मुसलञ्चैव स्थण्डिलोपरिविन्न्यसेत् ॥ २० ॥
प्रासादाग्राम्य याम्ये च पावके तु विशेषतः
प्रासादाग्राह्य मूलेन द्वारपार्श्वसमायुतम् ॥ २१ ॥
आग्नेय्यामग्निवामन्तु बलिघोषसमायुतम्
ताम्रपात्रसमायुक्तमथवा पात्रमेव च ॥ २२ ॥
[[६८६]]
शिवाग्निं पूजयेत्पूर्वं द्रव्यशुद्धिसमन्वितम्
अष्टद्रव्यसमायुक्तं लक्षणेन समन्वितम् ॥ २३ ॥
विद्येश्वराणि बीजानि अद्रव्याणीव देवता
पञ्चमं पञ्चमूर्तिञ्च त्रिमूलञ्च त्रिमूर्तिनम् ॥ २४ ॥
एतत्तन्मूलमन्त्रञ्च द्रव्याणि ह्यभिमन्त्रयेत्
लूखलं ब्रह्मदैवत्यं मुसलं विष्णुदैवतम् ॥ २५ ॥
अर्चयित्वा विशेषेण कर्तव्यं देशिकोत्तमः
द्रव्यञ्च परिपक्वानां साधकाचार्यमेव च ॥ २६ ॥
मानुषं लिङ्गमावाह्य दैविकं भयवर्जयेत्
गन्धद्रव्याणि सर्वाणि नववस्त्राण्यलङ्कृतम् ॥ २७ ॥
यागस्य मण्टपे लक्ष्ये श्रुणुष्वकमलासन
प्रतिष्ठायामुत्सवे च दीक्षायां प्रोक्षणे तथा ॥ २८ ॥
स्नपनादिषु कार्येषु यागमण्टपमुच्यते
पूर्वमेवमयाप्रोक्तं भूमिसङ्ग्रहणन्तथा ॥ २९ ॥
पुण्याहं वाचयेत्तत्र तत्प्रासादं प्रसादतः
प्रासादं ग्राह्यकञ्चैव याम्ये च वारुणेऽपि वा ॥ ३० ॥
सौम्येशानदिशोर्वापि वह्नौ वापि विधीयते
प्रागग्रं दशसूत्रं वा ऊर्ध्वसूत्रन्तथैव च ॥ ३१ ॥
एकाशीतिपदं कृत्वा प्रोक्षयेद्गन्धवारिणा
मद्ध्ये नवपदं ग्राह्यं वेदिं तत्रैव कारयेत् ॥ ३२ ॥
वेदिकारत्निमात्रेण दर्पणोदरसन्निभम्
षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ॥ ३३ ॥
सर्वेषाञ्चतुरश्रं वा सर्वेषां वृत्तमेव वा
यावत्पीठोत्कृतिञ्चैव कुण्डं स्यात्तावदेव हि ॥ ३४ ॥
ईशान इन्द्रयोर्मद्ध्ये वृत्तकुण्डमिति स्मृतम्
नवाग्निं वाथ पञ्चाग्निं कारयेत्तु विचक्षणः ॥ ३५ ॥
[[६८७]]
चतुस्तोरणसंयुक्तं चतुर्द्वारसमन्वितम्
उत्तमं पञ्चहस्तन्तु मद्ध्यमञ्चतुर्हस्तकम् ॥ ३६ ॥
त्रिहस्तं तालसं युक्तमधमं शालमुच्यते
उत्सेधार्द्धञ्च विस्तारं फलकामुपरिन्यसेत् ॥ ३७ ॥
शूलमस्त्रसमायुक्तं शूलं तालोच्छ्रयं भवेत्
मात्राङ्गुलेन कर्तव्यं चतुर्दिक्ष्वपि विन्न्यसेत् ॥ ३८ ॥
परितो दर्भमालाभिर्वेष्टयेत्तु विशेषतः
अथमन्त्राणि दर्भांश्च मद्ध्यमं पञ्चमेऽपि वा ॥ ३९ ॥
उत्तमं सप्तमेवन्तु दशमानं प्रलम्बितम्
तस्याग्रञ्चैव रज्जुञ्च कुर्याद्वै देशिकोत्तमः ॥ ४० ॥
विधानोपरिसञ्चिन्त्यमुक्तास्रग्दामसंयुतम्
अश्वत्थं प्लक्षपत्रञ्च नालिकेरफलेन तु ॥ ४१ ॥
दिग्विदिग्विन्यसेत्तत्र पूर्वादीशानमन्त्रकम्
पूर्वायां श्यामवर्णन्तु चाग्नेय्यां रक्तवर्णकम् ॥ ४२ ॥
याम्यायां कृष्णवर्णन्तु मुक्ताभानैर्ऋते तथा
वारुण्यां पश्चिमे भागे वायव्यां तिलमेव च ॥ ४३ ॥
सौम्यायां स्फटिकाभासमैशान्यां धूम्रमुच्यते
लोकपालस्वरूपन्तु ध्वजमद्ध्ये तु विन्न्यसेत् ॥ ४४ ॥
दर्पणं पूर्णकुम्भञ्च वृषभं युग्मचामरम्
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ ४५ ॥
वज्रं शक्तिञ्च दण्डञ्च वृषं पाशं तथाङ्कुशम्
गदात्रिशूलं चक्रञ्च पद्मञ्चैव दशायुधम् ॥ ४६ ॥
कारयेदर्चयेत्तत्र प्रोक्षयेत् शिवमन्त्रतः
वेदिमद्ध्ये न्यसेच्छूलं विकिरेत्पद्मसंयुतम् ॥ ४७ ॥
तस्योन्मन्त्रं – तस्योपकं न्यसेत्
—— मन्त्रं विमलान्वितसंयुतम् ॥ ४८ ॥
[[६८८]]
अतः परं प्रवक्ष्यामि अष्टबन्धविधिक्रमम्
अष्टबन्धं त्रिबन्धञ्च पञ्चबन्धनमेव च ॥ १ ॥
लिङ्गपीठान्तरे चैव प्रतिमायान्तथैव च
बन्धयेत्तद्विधानेन अष्टपञ्चत्रिबन्धनम् ॥ २ ॥
प्रमादात् बन्धहीने तु राजाराष्ट्रं विनश्यति
लाक्षाशर्क्करसंयुक्तं कुरु विन्दञ्च गुग्गुलुम् ॥ ३ ॥
गैरिकं गुलतैलञ्च कदलीफलसंयुतम्
अष्टबन्धनमेवन्तु सर्वेषां बन्धयेत्क्रमात् ॥ ४ ॥
लाक्षाशर्क्करपाषाणं मधूच्छिष्टन्तु गुग्गुलुम्
शङ्खचूर्णसमायुक्तं बन्धयेत्पञ्चबन्धनम् ॥ ५ ॥
लाक्षास्फटिकपाषाणं गुग्गुलुञ्च त्रिबन्धनम्
स्वयम्भुदैविके बाणे बन्धयेच्च त्रिबन्धनम् ॥ ६ ॥
दिव्ये च गाणवे चैव आर्षे चैव विशेषतः
पञ्चबन्धनयोग्यं स्यात् मर्दयित्वा तु बन्धयेत् ॥ ७ ॥
मानुषे राक्षसे चैव प्रतिमा पीठमेव च
अष्टबन्धनयोग्यं स्यात् पक्वापक्वन्तु बन्धयेत् ॥ ८ ॥
अपक्वं पक्वमेवन्तु द्विविधं बन्धनक्रमम्
पक्वन्तु पाचयोग्यं स्यात् अपक्वं मर्दनं भवेत् ॥ ९ ॥
पक्वापक्वपदं ज्ञात्वा बन्धयेत्सुदृढं पुनः
अष्टबन्धनहीने तु पूजा नैवेद्यमेव च ॥ १० ॥
बलिं नित्योत्सवञ्चैव नमस्कारं प्रदक्षिणम्
नृत्तगीतञ्च वाद्यञ्च नित्यनैमित्तिकन्तथा ॥ ११ ॥
उपचाराणि सर्वाणि निष्फलन्तु विधीयते
पूर्वे तु कलहं विद्यात् आग्नेय्यामग्निदाहकम् ॥ १२ ॥
याम्ये तु व्याधिपीडा च नैर्ऋत्यां ग्रामनाशनम्
[[६८९]]
वारुण्यां वरुणनाशन्तु वायव्यां सस्य नाशनम् ॥ १३ ॥
सौम्ये तत्वर्त्थविनाशस्स्यादैशान्यां पुत्रनाशनम्
परितो बन्धहीने तु सर्वनाशन्धनक्षयम् ॥ १४ ॥
तस्मात्सर्वप्रयत्नेन अष्टबन्धनमाचरेत्
एवमङ्गुष्ठविच्छिन्ने सद्यो बन्धनमेव च ॥ १५ ॥
द्वादशाङ्गुलविच्छिन्ने क्रमात् बन्धनमुच्यते
शक्तिस्थानेषु निर्माल्य शैवस्त्रीवर्गनाशनम् ॥ १६ ॥
विष्णुभागे तु निर्माल्यं नृपवर्गविनाशनम्
ब्रह्मभागे तु निर्माल्यं ब्रह्मवर्गविनाशनम् ॥ १७ ॥
शिलाभागे तु निर्माल्यं गर्भनाशकरं भवेत्
नन्द्यावर्त्तशिलाभागे दुर्भिक्षन्तु प्रजापते ॥ १८ ॥
कूर्मासने तु निर्माल्यं सर्वन्नाशकरं भवेत्
स्थलञ्चैव प्रवेशन्तु विट्च्छूद्रौ सर्वनाशनम् ॥ १९ ॥
पीठान्तरेषु निर्माल्यं ज्वरमारि प्रवेशनम्
दिनं वारं मुहूर्तञ्च वर्जयेत्तु विचक्षणः ॥ २० ॥
सर्वमासेषु कर्तव्यमष्टबन्धनकर्म च
प्रायश्चित्तं पुरा कृत्वा दिशाहोमं समाचरेत् ॥ २१ ॥
प्रासादस्याग्र याम्ये तु पावकेऽपि विशेषतः
यागमण्टपमेवोक्तं चतुर्द्वारसमन्वितम् ॥ २२ ॥
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव च
तन्मद्ध्ये वेदिकां कुर्याद्विस्तारार्द्धन्तदुन्नतम् ॥ २३ ॥
नवपञ्चैककुण्डं वा दर्पणोदरसन्निभम्
कूटं वापि प्रपां वापि निच्छिद्रं सुदृढं कुरु ॥ २४ ॥
अष्टद्ध्वजसमायुक्तं स्तम्भवेष्टनसंयुतम्
वितानतोरणैर्युक्तं मङ्गलायुधसंयुतम् ॥ २५ ॥
निर्द्दिष्टदिवसात्पूर्वम् अङ्कुरार्पणमारभेत्
[[६९०]]
वास्तुदेवान्समभ्यर्च्य बलिन्दत्वा विधानतः ॥ २६ ॥
प्रायश्चित्तं पुरा कृत्वा प्रार्त्थयेत्परमेश्वरम्
वेदिमद्ध्ये विशेषेण अष्टद्रोणैश्च शालिभिः ॥ २७ ॥
तदर्द्धन्तण्डुलं प्रोक्तं तदर्द्धन्तु तिलैरपि
लाजैः पुष्पैश्च दर्भैश्च विकिरेत्तु विशेषतः ॥ २८ ॥
पद्ममष्टदलं लिख्य पदं प्रतिसकर्णिकम्
मद्ध्ये तु शिवकुम्भं स्यात् वर्द्धनीन्तस्य वामके ॥ २९ ॥
अष्टकुम्भेषु विद्येशान् परितः पूजयेत् क्रमात्
यागपूजा प्रकारेण सर्वयागान्समर्च्चयेत् ॥ ३० ॥
लिङ्गस्थदेवमावाह्य कुम्भस्थाने तु योजयेत्
चलासनं समभ्यर्च्य धूपदीपसमन्वितम् ॥ ३१ ॥
नैवेद्यन्दापयेत्पश्चात् उपचारसमन्वितम्
यात्राहोमञ्च दानञ्च कृत्वा तद्विधिना ततः ॥ ३२ ॥
वाद्यघोषसमायुक्तं यागशालां प्रवेशयेत्
स्थिरासनं समभ्यर्च्च्य प्रसन्नं पूजयेच्छिवम् ॥ ३३ ॥
अग्निकार्योक्तमार्गेण सर्वहोमं समाचरेत्
समिदाज्य चरून्लाजान् तिलं सर्षपमेव च ॥ ३४ ॥
भृङ्गमाषाढकञ्चैव गोधूमञ्चणकन्तथा
निष्पावं यवकञ्चैव गुलं ताम्बूलमेव च ॥ ३५ ॥
अपूपं कन्दमूलञ्च इक्षुकं पिष्टचूर्णकम्
क्षीरं दधिमधून्येव नालिकेरफलत्रयम् ॥ ३६ ॥
अन्यांश्च होमयोग्यांश्च मन्त्रेणैव हुनेद्गुरुः
समिधा सद्यमन्त्रेण आज्यं वामेन हूयते ॥ ३७ ॥
अघोरेण चरुं हुत्वा लाजन्तत्पुरुषेण तु
तिवमीशानमन्त्रेण सर्षपं हृदयेन तु ॥ ३८ ॥
शिरो मन्त्रेण भृङ्गञ्च शिखया माषमेव च
[[६९१]]
आढकं कवचेनैव गोधूमन्नेत्रमन्त्रतः ॥ ३९ ॥
चणकञ्चास्त्रमन्त्रेण सद्यायास्त्रान्तकं पुनः
पञ्चाक्षरेण मन्त्रेण अन्यद्रव्यांश्च होमयेत् ॥ ४० ॥
द्रव्यान्ते व्याहृतिं हुत्वा मूर्तिमन्त्रेण तत्समम्
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४१ ॥
मृत्युञ्जयेन गायत्र्या प्रायश्चित्तन्तु होमयेत्
बलिनैवेद्यकन्दत्वा उपचारान्समर्पयेत् ॥ ४२ ॥
सम्प्रोक्षणविधानेन अन्यकर्माणि कारयेत्
अष्टबन्धनपाकञ्च कृत्वा रन्ध्रेषु बन्धयेत् ॥ ४३ ॥
कर्पूरञ्चन्दनेनैव लेपयेल्लिङ्गपीठिके
विशास्वद्ध्ययनं विप्र चतुर्वेदान् शिवाङ्कितान् ॥ ४४ ॥
कुर्यादुपनिषद्रौद्रं पुराणानि परे शिवे
नृत्तं गीतञ्च वाद्यञ्च नैवेद्यं विविधन्ददेत् ॥ ४५ ॥
एवं जागरणं रात्रौ प्रभाते विमले सति
स्नात्वा गुरुर्विधानेन नित्यकर्मसमापयेत् ॥ ४६ ॥
यागशालां प्रविश्याथ ऋत्विग्भिः परिचारकैः
यागपूजा प्रकारेण यागपूजां समाचरेत् ॥ ४७ ॥
आसनावरणेनैव शिवं साङ्गं प्रपूजयेत्
गन्धं पुष्पञ्च धूपञ्च दीपन्नैवेद्यमेव च ॥ ४८ ॥
उपचाराणि सर्वाणि प्रत्येकन्तु समर्पयेत्
अग्निं प्रज्वाल्य सम्पूज्य होमं पूर्ववदाचरेत् ॥ ४९ ॥
पश्चात् गर्भगृहं प्राप्य पुण्याहं वाचयेद्बुधः
पञ्चगव्येन संस्नाप्य लिङ्गपीठान्तरं क्रमात् ॥ ५० ॥
अष्टमृत्तिकया चैव कषायोदकुशोदकैः
पञ्चपल्लवबिल्वैश्च प्रत्येकमभिषेचयेत् ॥ ५१ ॥
मन्त्रन्यासं ततो न्यस्त्वा नैवेद्यमुपचारकैः
[[६९२]]
यागशालां पुनर्गत्वा प्रायश्चित्तं हुनेत्क्रमात् ॥ ५२ ॥
पूर्णाहुतिं हुनेत्पश्चात्सर्वकर्मसमापयेत्
सुमुहूर्ते त्वनुप्राप्ते यात्रादानं प्रदापयेत् ॥ ५३ ॥
प्रधानकुम्भमुद्धृत्य वर्द्धनीञ्च शिरोपरि
निधायविद्येश्वरानष्टौ क्रमेण परिचारकाः ॥ ५४ ॥
वाद्यघोषसमायुक्तं छत्रचामरसंयुतम्
वेदध्वनिसमोपेतं स्तोत्रमङ्गलवाचकैः ॥ ५५ ॥
हर्म्यप्रदक्षिणं कृत्वा सर्वभक्तजनैस्सह
धूपदीपं पुरा कृत्वा पुष्पलाजान् प्रसारयेत् ॥ ५६ ॥
पदात्पदान्तरं गत्वा गर्भगेहं प्रवेशयेत्
लिङ्गे तु योजयेन्मूर्तिं वर्द्धनीं पीठके न्यसेत् ॥ ५७ ॥
अष्टविद्येश्वरान् सर्वान् तत्तत्स्थानेषु योजयेत्
कुम्भाभिषेचनं कुर्यादुपचारसमन्वितम् ॥ ५८ ॥
आवाहनादिपूजान्तं विशेषेण समाचरेत्
धूपदीपन्ततो दद्यात् नैवेद्यं तदनन्तरम् ॥ ५९ ॥
अष्टोत्तरशतन्यासं कुर्यात्तत्तद्विधानतः
स्नपनं तत्र कुर्वीत अष्टोत्तरसहस्रकम् ॥ ६० ॥
अष्टोत्तरशतं वापि शान्तिहोमं समाचरेत्
महाभिषेकङ्कृत्वा तु चन्दनेन समर्पयेत् ॥ ६१ ॥
वस्त्रं यज्ञोपवीतञ्च मालिकाभूषणं तथा
आसनावरणञ्चैव विशेषेणैव पूजयेत् ॥ ६२ ॥
महाहविर्निवेद्याथ प्रसन्नं पूजयेच्छिवम्
नृत्तं गीतञ्च वाद्यञ्च स्तोत्रमङ्गलवाचकैः ॥ ६३ ॥
प्रार्त्थयेत्परमेशानं क्षमस्वेत्यपि पातयेत्
दशदानं ततो दत्वा ब्रांहणान्भोजयेत्ततः ॥ ६४ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
[[६९३]]
होतृभ्यः परिचाराय यथा शक्तिश्च दक्षिणा ॥ ६५ ॥
यथा भक्तानुसारेण वित्तशाठ्यन्नकारयेत्
सर्वान्सन्तोषयेत्पश्चात् उत्सवञ्चैव कारयेत् ॥ ६६ ॥
एकपक्षं द्विपक्षञ्च त्रिपक्षञ्चाभिषेचयेत्
शान्तिहोमं हुनेन्नित्यम् उपचारसमन्वितम् ॥ ६७ ॥
इति कारणे प्रतिष्ठातन्त्रे क्रियापादे अष्टबन्धनविधिः पटलः
अष्टबन्धविधिं वक्ष्ये समासेन प्रजापते
अपक्वं पक्वमित्युक्तं द्विविधञ्चाष्टबन्धनम् ॥ १ ॥
अपक्वं पूर्वमुद्दिष्टं पक्वञ्चैवाधुना श्रुणु
अष्टबन्धनहीने तु राजराष्ट्रस्य दोषकृत् ॥ २ ॥
तस्मात्सर्वप्रयत्नेन कारयेदष्टबन्धनम्
विशेषपूजनं कृत्वा गन्धाद्यैस्तत्र देशिकः ॥ ३ ॥
तत्पूर्वे स्थण्डिलं कृत्वा निर्माल्यैरक्तशालिभिः
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि ॥ ४ ॥
लाजपुष्पैः परिस्तीर्य विधिवद्देशिकोत्तमः
नवशक्तिं यजेत्तत्र पुण्याहं वाचयेत्ततः ॥ ५ ॥
कुम्भन्तु पूर्ववत् ग्राह्य तन्तुनाचित्रयेत्ततः
वर्द्धनीं सङ्ग्रहेत्तत्र शिवतोयेन पूरयेत् ॥ ६ ॥
अष्टविद्येशकुम्भांश्च साधयेत् पूर्ववत्ततः
लिङ्गाद्देवं समावाह्य कुम्भमद्ध्ये तु विन्न्यसेत् ॥ ७ ॥
वर्द्धनीं मद्ध्यमे न्यस्य पीठाच्छक्तिं समावहेत्
रत्नानि विन्यसेत्तत्र कूर्चवस्त्रपिधानकान् ॥ ८ ॥
पूजयेदस्त्रमन्त्रेण पूर्ववल्लक्षणान्वितम्
पूर्वादीशानपर्यन्तमष्टविद्येश्वरान्न्यसेत् ॥ ९ ॥
लिङ्गमुद्रां प्रदर्श्याथ पद्ममुद्रां प्रदर्शयेत्
[[६९४]]
तस्याग्रे स्थण्डिलं कृत्वा साष्टपत्रं सकर्णिकम् ॥ १० ॥
तस्योर्ध्वे विन्यसेत्कुम्भं क्रमेणैव तु बुद्धिमान्
पूजयेदन्धपुष्पाद्यैर्लिङ्गशुद्धिन्तु कारयेत् ॥ ११ ॥
चन्दनैर्लेपनं कृत्वा लिङ्गपीठं विशेषतः
पुष्पमालाभिरावृत्य पटेनाच्छादयेत्ततः ॥ १२ ॥
देवदेवं नमस्कृत्य पश्चात् बन्धनमाचरेत्
त्रिविधं बन्धनं विद्धि समासेनोच्यतेऽधुना ॥ १३ ॥
अष्टबन्धं त्रिबन्धञ्च द्विबन्धञ्च प्रजापते
द्रव्याणि चाष्टबन्धस्य क्रमाद्वक्ष्ये विशेषतः ॥ १४ ॥
तैलन्तु प्रथमं विद्धि द्वितीयं गौलमुच्यते
तृतीयं गैरिकं विद्याच्चतुर्त्थं गुग्गुलुं न्यसेत् ॥ १५ ॥
पञ्चमं सिकतां विद्धि षष्ठं स्यात्स्निग्धमुच्यते
सप्तमं स्यात्सर्ज्जरसं लाक्षा चैवाष्टमं स्मृतम् ॥ १६ ॥
स्थ —— भूतपद्मर्षिपर्वताः
क्रमात्तैलादिभागानि पाकञ्चिक्कणवद्भवेत् ॥ १७ ॥
पक्वाष्टबन्धनं ह्येवमाद्यबन्धनमुच्यते
त्रिबन्धमाद्यमित्युत्तं गुग्गुलुं स्निग्धसंयुतम् ॥ १८ ॥
नवनीतेन संयोज्यं बन्धनञ्चाद्यसञ्ज्ञकम्
द्विबन्धमिति विख्यातं प्रयोगमधुना श्रुणु ॥ १९ ॥
पक्वाष्टबन्धनं कुर्यात् मानुषस्य प्रजापते ॥ २० ॥
अर्षस्य दैविकस्यैव गाणवस्य तथैव च
मृदुपाकेन कर्तव्यं स्वयमुद्भूतलिङ्गके ॥ २१ ॥
आर्द्रबन्धनकं कुर्यादाचार्यस्सम्यगेव तु
द्रव्येषु तैलं सर्पिर्वा संयोज्य पाचयेत्क्रमात् ॥ २२ ॥
अतिपक्वे प्रजानाशमपक्वे द्रव्यनाशनम्
पक्वं वै पाचयित्वाथ बन्धयेल्लिङ्गपीठयोः ॥ २३ ॥
[[६९५]]
लिङ्गपीठद्वयोर्मद्ध्ये बन्धद्रव्याणि पूरयेत्
अस्त्रादीनि परित्यज्य शुद्धिं कृत्वा प्रपूजयेत् ॥ २४ ॥
कुम्भाद्बीजं समुद्धृत्य लिङ्गमद्ध्ये निवेशयेत्
वर्द्धन्या बीजमादाय पीठमध्ये निवेशयेत् ॥ २५ ॥
विद्येशबीजमादाय दलेष्वष्टसु योजयेत्
विशेषपूजनं कृत्वा पश्चात्स्नपनमारभेत् ॥ २६ ॥
प्रभूतहविषन्दत्वा ताम्बूलन्तु निवेदयेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ २७ ॥
अष्टबन्धविधिः प्रोक्तः सम्प्रोक्षणविधिं श्रुणु ॥ २८ ॥
इति अष्टबन्धनविधिपटलः षट्त्रिंशदुत्तरशततमः