बालस्थापनप्रतिष्ठाविधिपटलप्रारम्भः
बालस्थानप्रतिष्ठान्तु प्रवक्ष्यामि विशेषतः
द्विधाबालालयं प्रोक्तं प्रथमञ्च द्वितीयकम् ॥ १ ॥
ग्रामे वा नगरे वापि पत्तने राजधानिके
एतेष्वन्येषु देशेषु मूलस्थानस्य वत्पुरा ॥ २ ॥
वास्तुनिर्देशनादान्ते कल्पितं प्रथमं भवेत्
षडष्टौ च तथा पीठे लिङ्गे च पतिते तथा ॥ ३ ॥
शिल्पिनाकारिते हर्म्ये भिन्ने च पतितेऽपि च
यन्नवीकरणार्त्थन्तु कर्तव्यं बालहर्म्यकम् ॥ ४ ॥
द्वितीयमिति विख्यातं बालालयं प्रजापते
मासपक्षर्क्षवारादीन् नान्यबालग्रहस्य तु ॥ ५ ॥
लिङ्गस्थापनकस्योक्तमार्गेणैव समाचरेत्
तेषु किञ्चिद्विशेषोस्ति श्रेष्ठा वै चरराशयः ॥ ६ ॥
मद्ध्यमो चोभयो ज्ञेयः अशस्तास्थिरराशयः
द्वितीयाख्यं प्रकर्तव्यं मासपक्षादिभिर्विना ॥ ७ ॥
निश्चित्य मूलहर्म्यन्तु कारयेत्तरुणालयम्
बाललिङ्गं प्रतिष्ठाप्य मूलन्तु स्थापयेत्ततः ॥ ८ ॥
बालहर्म्यं विनापूर्वं मूलस्थानन्न कारयेत्
विना चेद्बालहर्म्येन पुत्रपौत्रविनाशनम् ॥ ९ ॥
मूलस्थानाग्रके कुर्यादीशाने वाथ सौम्यके
प्राकारे तु तृतीये वा चतुर्त्थे पञ्चमेऽपि वा ॥ १० ॥
मद्ध्यमे तु प्रकर्तव्यं बालस्थानं क्रमेण तु
[[६७३]]
त्रिहस्ताभ्यां समारभ्य द्वादशाङ्गुलवर्द्धनात् ॥ ११ ॥
सार्द्धसप्तकरान्तन्तु बालालयमिति स्मृतम्
तेष्वेकन्तु समारभ्य कारयेत्तरुणालयम् ॥ १२ ॥
शिलादारूमृण्मयं वा लिङ्गं बालग्रहस्य तु
अश्वत्थोदुम्बरप्लक्षैश्शमी वृक्षश्च खादिरः ॥ १३ ॥
मधुकेनाथवा कुर्यात् बाललिङ्गं सलक्षणम्
विकाराङ्गुलिमायाममधमाधममुच्यते ॥ १४ ॥
अङ्गुलाङ्गुलवृद्ध्या तु रन्ध्रलिङ्गानि कल्पयेत्
लिङ्गोदयन्तु नाहं स्यात् सर्ववृत्तिमिहोच्यते ॥ १५ ॥
शिरो वा वर्तनं कुर्यात् छत्राकारं विशेषतः
सतुर्यश्राब्जवृत्तं वा त्रिधापीठा कृतिस्मृता ॥ १६ ॥
लिङ्गेनाहन्तु विस्तारमुत्सेधं स्यात्तदर्द्धकम्
इष्टकासु सुपक्वापि पीठं कुर्यात्तु तद्वयोः ॥ १७ ॥
रन्नन्यासं प्रकर्तव्यं पादशैलादिवर्जितम्
ब्रंहसूत्रं विना कुर्यात् देवस्य प्रथमस्य तु ॥ १८ ॥
रुद्रभागं प्रमायामनाहन्तेनैव कल्पयेत्
तन्नाहं पीठविस्तारं तस्यार्द्धं पिण्डिका त्रयम् ॥ १९ ॥
शेषं पूर्वोक्तवत् प्रोक्तं द्वितीयस्यैवमाचरेत्
प्रागेव विधिना कुर्यात् विधिनाचाङ्कुरार्पणम् ॥ २० ॥
बालालयाग्रे कर्तव्यं मण्टपञ्चतुरश्रकम्
विकारस्तम्भसंयुक्तं भानुस्तम्भयुतन्तु वा ॥ २१ ॥
पङ्क्तित्रयसमायुक्तं चतुर्द्वारं सतोरणम्
दर्भमाला समायुक्तं वितानद्ध्वजसंयुतम् ॥ २२ ॥
मद्ध्यांशे वेदिकां कुर्यात्तच्चतुर्त्थांशकोन्नताम्
वेदिकायाश्च परितश्चोपवेदिं प्रकल्पयेत् ॥ २३ ॥
वस्वङ्गुलन्तु विस्तारमुत्सेधञ्चतुरङ्गुलम्
[[६७४]]
तस्याश्च परितश्चाष्टदिक्षुकुण्डानि कल्पयेत् ॥ २४ ॥
दिशासु चतुरश्राणि कोणेष्वब्जानि कल्पयेत्
ईशानचक्रयोर्मद्ध्ये प्रधानं वृत्तकुण्डकम् ॥ २५ ॥
मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत्
ततश्शिल्पिनमुद्वास्य पुण्याहन्तत्र कारयेत् ॥ २६ ॥
जलमद्ध्ये प्रपां कुर्यात्सर्वालङ्कारसंयुताम्
प्रक्षाल्य पञ्चगव्यैश्च लिङ्गञ्चास्त्रेण देशिकः ॥ २७ ॥
शुद्धतोयेन संस्नाप्य गन्धादिभिर्हृदार्चयेत्
वेष्टयेद्वस्त्रयुग्मेन लम्बकूर्चसमायुतम् ॥ २८ ॥
जलेषु जायते लिङ्गं सद्येनैव कुशोपरि
त्रिरात्रञ्चैकरात्रं वा वेदायाममथापि वा ॥ २९ ॥
जलाधिवासनं कुर्यात्कण्ठमात्रजलेषु च
ब्राह्मणान्भोजयेत्तत्र मण्टपे समलङ्कृते ॥ ३० ॥
वास्तुहोमन्ततः कुर्यात्प्रासादे वाथ मण्टपे
पर्यग्निकरणं कुर्यात् वास्तुहोमाय वह्निना ॥ ३१ ॥
जलादानीय लिङ्गन्तु स्नानश्वभ्रोपरिन्यसेत्
वस्त्रं विसृज्य लिङ्गन्तु पूर्ववच्छुद्धिमाचरेत् ॥ ३२ ॥
कौतुकं बन्धयेद्धीमान्प्रागुक्तविधिना सह
वस्त्रेण वेष्टयेल्लिङ्गं मन्त्रेण नयनेषु च ॥ ३३ ॥
शालिभिर्वेदिकोर्द्ध्वे तु दशद्रोणैर्विनिर्मितः
तण्डुलैस्तिलदर्भैश्च पुष्पैश्चैव परिस्तरेत् ॥ ३४ ॥
शयनं कल्पयेन्मद्ध्ये चर्मजाद्यैर्यजेद्धृदा
सर्वातोद्य समायुक्तं स्तोत्रमङ्गलवाचकैः ॥ ३५ ॥
प्रागुक्तलक्षणोपेतस्त्वादिशैवस्सशिष्यकः
दिव्यगन्धानुलिप्ताङ्गः पुष्पमाला विभूषितः ॥ ३६ ॥
शुक्लवस्त्रधरोष्णीषश्शुक्लवस्त्रोत्तरीयकः
[[६७५]]
पञ्चाङ्गभूषणैर्युक्तस्सकलीकृतविग्रहः ॥ ३७ ॥
प्रागुक्तलक्षणोपेतैर्वस्त्राङ्गुलीय धारिभिः
मूर्तिपैस्सहितो दक्षस्त्वाचार्यश्चोत्तराननः ॥ ३८ ॥
शयने शाययेल्लिङ्गं प्राक्शिरस्कमधोमुखम्
अभ्यर्च्य हृदयेनैव गन्धाद्यैरुपचारकैः ॥ ३९ ॥
द्रोणाम्बुपूरितं सूत्रवेष्टितं कूर्चसंयुतम्
पञ्चरत्नसमायुक्तं सापिधानं सवस्त्रकम् ॥ ४० ॥
शिवकुम्भं न्यसेत्तस्य मूर्ध्निभागे तु वर्मणा
वर्द्धनीं वामतस्थाप्य सूत्रादिभिस्समन्विताम् ॥ ४१ ॥
शिवमन्त्रं न्यसेत्कुम्भे द्ध्यात्वा देवीं सदाशिवम्
अष्टत्रिंशत्कलोपेतं तस्य मूलेन पूजयेत् ॥ ४२ ॥
पूजयेत्तु स्वमन्त्रेण वर्द्धन्यान्तु मनोन्मनीम्
मुकुलीं पद्ममुद्राञ्च लिङ्गमुद्रां प्रदर्शयेत् ॥ ४३ ॥
अभितस्तु घटानष्टौ द्रोणगन्धोदपूरितान्
सूत्रादिभिस्समोपेतान् हेमटङ्कसमन्वितान् ॥ ४४ ॥
इन्द्रादिषु क्रमेणैव स्थापयेद्देशिकोत्तमः
अनन्तादि शिखण्ड्यन्तान् स्वस्वमन्त्रैर्घटेषु च ॥ ४५ ॥
न्यस्त्वा तु गन्धपुष्पाद्यैर्नैवेद्यान्तं हृदार्चयेत्
परिवारघटानष्टौ उपवेद्युपरिन्यसेत् ॥ ४६ ॥
सूत्रादिभिस्समोपेतान् द्रोणाद्योदकपूरितान्
स्वस्वमन्त्रैः क्रमान्न्यस्त्वा गन्धादिभिर्हृदार्चयेत् ॥ ४७ ॥
द्वारकुम्भांश्च संस्थाप्य सूत्रादिभिस्समन्वितान्
नवाग्निं वाथ पञ्चाग्निं कल्पयेद्देशिकोत्तमः ॥ ४८ ॥
विधायैवाब्जकुण्डानि पञ्चाग्निं कल्पयेत्ततः
ऋगाद्यद्ध्ययनन्दिक्षु प्राक्कुर्यात् वेदपारगः ॥ ४९ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
[[६७६]]
खदिराश्वत्थबिल्वश्चोदुम्बरश्च वटस्तथा ॥ ५० ॥
मायूरार्क्कपलाशाश्च पूर्वादिसमिधः क्रमात्
पलाशस्य प्रधानस्य सर्वेषामिद्ध्ममुच्यते ॥ ५१ ॥
समिदाज्यान्न सिद्धार्त्थन्तिललाजयवास्तथा
सक्तुं माषञ्च शालिञ्च वैणवञ्च क्रमेण तु ॥ ५२ ॥
सद्यादीशानपर्यन्तं मन्त्रैरेवं क्रमाच्चरेत्
शतमर्द्धन्तदर्द्धं वा प्रत्येकं होममाचरेत् ॥ ५३ ॥
द्रव्यं प्रतिविशेषेण व्याहृत्याहुतिमाचरेत्
त्रयम्बकेन मन्त्रेण हुत्वा स्पृष्ट्वा तु लिङ्गकम् ॥ ५४ ॥
आपोराजेति मन्त्रेण हुत्वा लिङ्गं स्पृशेत्ततः
कद्रुद्रायेति मन्त्रेण हुत्वा लिङ्गं स्पृशेत्ततः ॥ ५५ ॥
पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत्
स्तोत्रमन्त्रजपद्ध्यानैरात्रिशेषं व्यपोह्य च ॥ ५६ ॥
अपरे दिवसे धीमान् स्नात्वा तु मूर्तिपैस्सह
सकलीकरणं कृत्वा कुम्भान्सम्पूज्य पूर्ववत् ॥ ५७ ॥
पावकञ्चैव सम्पूज्य गन्धपुष्पादिभिः क्रमात्
जयादिरभ्याधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत् ॥ ५८ ॥
देवस्य त्वेतिमन्त्रेण होमयेत्तदनन्तरम्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ५९ ॥
अधमं दशनिष्का च द्विगुणं मद्ध्यमं भवेत्
त्रिगुणं चोत्तमं प्रोक्तं देशिकस्य तु दक्षिणा ॥ ६० ॥
दक्षिणान्दापयित्वा तु मूर्तिपानथ पूजयेत्
दैवज्ञं पूजयेत्पश्चादद्ध्येतॄनपि पूजयेत् ॥ ६१ ॥
पूजयेन्मन्त्रजप्तॄंश्च पर्यष्टपरिचारकान्
मुहूर्तान्नाडिकात्पूर्वे लिङ्गस्थापनमारभेत् ॥ ६२ ॥
उत्थाप्य शयनाल्लिङ्गं बालस्थानं प्रवेशयेत्
[[६७७]]
पीठस्यावटके देशे नवरत्नानि विन्न्यसेत् ॥ ६३ ॥
स्थापयेत्पिण्डिका मद्ध्ये ईशानेन तु पूजयेत्
लिङ्गायामं त्रिधा कृत्वा भागं पीठे प्रदर्शयेत् ॥ ६४ ॥
स्थापने तु विशेषेण लिङ्गन्तु द्वारदिङ्मुखम्
शर्करा सर्जचूर्णञ्च समं सङ्ग्राह्य देशिकः ॥ ६५ ॥
माहिषन्नवनीतञ्च यथा युक्त्या तु योजयेत्
प्रक्षिप्योलूखले धीमान् विवरे तस्य योजयेत् ॥ ६६ ॥
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत्
शङ्खदुन्दुभिनादैश्च गीतनृत्तसमाकुलम् ॥ ६७ ॥
ब्रह्मघोषसमायुक्तं नानाभक्तजनैर्युतम्
छत्रध्वजवितानैश्च वीणापटहनादयुक् ॥ ६८ ॥
ढक्कापणववाद्यैश्च घटमद्दलनादयुक्
झल्लरी जर्झरी नादैर्धूपदीपसमायुतम् ॥ ६९ ॥
वर्द्धनी स्रावसहितं मङ्गलाङ्कुरसंयुतम्
कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् ॥ ७० ॥
कृत्वा तु गर्भगेहे तु स्थापयेत्स्थण्डिलोपरि
आसनं कल्पयेत्तत्र पूर्वोक्तविधिना सह ॥ ७१ ॥
अष्टत्रिंशत्कलान्न्यासं कृत्वा लिङ्गे विशेषतः
ध्यायेत्सदाशिवं तत्र ईशानेनार्चयेद्बुधः ॥ ७२ ॥
कुम्भात् बीजं समादाय लिङ्गमद्ध्ये तु विन्न्यसेत्
पिण्डिकायां न्यसेच्छक्तिं बीजं लिङ्गस्य गोचरे ॥ ७३ ॥
लिङ्गं कुम्भोदकैः स्नाप्य पिण्डिकां करकोदकैः
अष्टविद्येश्वरांस्तत्र पीठे पूर्वादिषु न्यसेत् ॥ ७४ ॥
अर्चनोक्तं समभ्यर्च्य शेषं युक्त्या समाचरेत्
परिवारघटेभ्यस्तु स्वस्थानेषु क्रमान्न्यसेत् ॥ ७५ ॥
स्नपनं कारयेत्पश्चात् प्रभूतहविषन्ददेत्
[[६७८]]
नित्योत्सवादिकान्सर्वान् बालस्थाने तु कारयेत् ॥ ७६ ॥
मूलालयप्रतिष्ठाञ्च क्षणकालविधिक्रमम्
यात्राहोमन्तदर्द्धाभिर्जुहुयाद्देशिकोत्तमः ॥ ७७ ॥
एवं प्रथममाख्यातं द्वितीयमधुना श्रुणु
पूर्वोक्तलक्षणोपेतं मण्टपं कारयेद्बुधः ॥ ७८ ॥
स्थापनादिवसात्पूर्वरात्रौ चैव विशेषतः
मूलाग्रे हाग्रहः सम्यक् पूर्ववत्स्थण्डिले कृते ॥ ७९ ॥
कुम्भान्संस्थाप्य पूर्वोक्तविधिना देशिकोत्तमम्
मूललिङ्गं समारभ्य गन्धाद्यैर्हविषान्तकम् ॥ ८० ॥
प्रणम्य देवदेवेशं कर्तृभिस्समनुज्ञकः
वत्सरत्रयमारभ्य यावत् द्वादशवत्सरम् ॥ ८१ ॥
तेष्वन्तरेनवी कृत्वा तं पुनः स्थापयाम्यहम्
इति विज्ञाप्य तत्कर्ता देशिकेन सहैव तु ॥ ८२ ॥
लिङ्गाद्देवं समावाह्य कुम्भमद्ध्ये न्यसेद्गुरुः
पीठेदेवीं समावाह्य वर्द्धनीं मद्ध्यमे न्यसेत् ॥ ८३ ॥
–दग्रे होमकर्त्मार्त्थं स्थलं सकलकैश्शुभैः
कृत्वाग्न्याधानकादीनि प्रागुक्तविधिनाचरेत् ॥ ८४ ॥
मूलेनैव तु मन्त्रेण आषाढं समिधं हुनेत्
घृतं घृतेति मन्त्रेण घृतमन्त्रन्तु वर्मणा ॥ ८५ ॥
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत्
द्रव्यान्ते व्याहृतिं हुत्वा प्रणवाहुतिमाचरेत् ॥ ८६ ॥
वारैरङ्गारवाराद्यैर्नक्षत्रैस्तुरगादिभिः
मेषाद्यैर्मासप्रमुखैः तिथिभिः प्रथमादिभिः ॥ ८७ ॥
अब्जान्तं जुहुयात्पश्चात् यावत्तावत्क्षणैष्टकम्
होमद्रव्यं तदन्ते तु क्षणहोममिति स्मृतम् ॥ ८८ ॥
कुम्भानुद्धृत्य पूर्वोक्तमूर्तिपैस्सह देशिकः
[[६७९]]
संस्थाप्य देशिको यस्तु सर्वं पूर्ववदाचरेत् ॥ ८९ ॥
नित्यकार्याणि सर्वाणि तथानैमित्तिकानि तु
बालस्थाने तथा कुर्याद्यावन्मूलप्रदेशके ॥ ९० ॥
सकलानान्तु सर्वेषां कर्तव्यो बालबिम्बके
दारुणाप्रतिमा वापि पीठं वा चेष्टकामयम् ॥ ९१ ॥
जान्वन्तं कन्न्यसं प्रोक्तं बाह्वन्तं मद्ध्यमं भवेत्
तन्मानमुत्तमं प्रोक्तं बालबिम्बस्य कीर्तितम् ॥ ९२ ॥
षोडशाङ्गुलमानेन पीठञ्चेत्सम्प्रकल्पयेत्
विस्तारं तत्समं ज्ञेयं मेखलात्रयसंयुतम् ॥ ९३ ॥
एकैकं त्र्यङ्गुलन्तारमुत्सेधन्तु शराङ्गुलम्
वेदाङ्गुलेन पद्मोच्चं द्व्यङ्गुलं कर्णिकोच्छ्रयम् ॥ ९४ ॥
कारयेदिष्टकाभिश्च सुस्निग्धासुधया सह
द्वितीयस्योक्तवत्सर्वं कुर्वंस्तं षड्विशेषकम् ॥ ९५ ॥
प्रतिमां वाथपीठं वा दैविके स्थापयेद्बुधः
मन्त्रभेदो भवेदत्र क्रियाभेदो न विद्यते ॥ ९६ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ९७ ॥
इति बालस्थापनविधिपटलः पञ्चत्रिंशदुत्तरशततमः