जीर्णोद्धारविधिपटलप्रारम्भः
जीर्णोद्धारविधिं वक्ष्ये सर्वारिष्टनिवारणम्
लिङ्गस्य पिण्डिकायाश्च प्रतिमायालयस्य तु ॥ १ ॥
तरुणाख्यस्य लिङ्गस्य परिवारालयस्य तु
प्राकारस्यैव चानेषामूर्द्धारञ्चोत्तरक्रियाम् ॥ २ ॥
स्फुटिते खण्डिते भिन्ने नाशिते शनिनाग्निना
उन्मत्तैरेवचोरैर्वा नाशिते शत्रुभिस्तु वा ॥ ३ ॥
सरित्स्रोतः करिभ्यां वा जीर्णकाले विपर्यये
क्षेत्रं जीर्णं यथा क्षेत्रन्त्यक्त्वान्यं प्रतिपद्यते ॥ ४ ॥
तथाजीर्णानि वस्त्राणि सद्यो मुञ्चन्ति देवताः
तद्दृष्वाभूतवेतालापिशाचब्रंहराक्षसाः ॥ ५ ॥
[[६६८]]
प्रेताल्पसत्वशून्याश्च आश्रयन्ति न संशयः
राष्ट्रग्रामनृपाणाञ्च स्थापकस्यैव मन्त्रिणः ॥ ६ ॥
कुर्वन्ति ते भयं ह्युग्रं दुर्भिक्षं मरणं ध्रुवम्
अर्चितञ्चेन्निहन्त्याशु नवाहन्याशुपूजिता ॥ ७ ॥
तस्मादुद्धारणञ्चाहुर्विधिदृष्टेन कर्मणा
आदिशैवकुलोद्भूतः प्रागुक्तलक्षणो गुरुः ॥ ८ ॥
सुस्नातस्सकली कृत्वा गन्धपुष्पैरलङ्कृतः
नववस्त्रधरोष्णीषो हेमपञ्चाङ्गभूषितः ॥ ९ ॥
लिङ्गाग्रे स्थण्डिलं कृत्वा हस्तमात्रेण देशिकः
अभ्यर्च्य देवदेवेशं गन्धपुष्पादिभिः क्रमात् ॥ १० ॥
जीर्णाद्धारन्तु विज्ञाप्य प्राणानायम्यदेशिकः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ११ ॥
मूलेन जुहुयाद्धीमान् समिधं ब्रह्मवृक्षजाम्
घृतं निक्षेति मन्त्रेण घृतं हुत्वा विशेषतः ॥ १२ ॥
हृदयेन चरुं हुत्वा लाजं वामेन होमयेत्
सर्षपन्नेत्रमन्त्रेण क्षीरं सद्येन होमयेत् ॥ १३ ॥
एकैकञ्जुहुयाद्धीमान् अष्टोत्तरशतं क्रमात्
द्रव्यान्ते चैव द्रव्यान्ते व्याहृतिञ्जुहुयात्ततः ॥ १४ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिन्ततः कृत्वा स्विष्टमग्नेति मन्त्रतः ॥ १५ ॥
उद्धारयत्ततो लिङ्गं भुजेन वृषभेन वा
वृषभं श्वेतवर्णञ्च युवानञ्च बलं वरम् ॥ १६ ॥
सुस्नाप्य पुरश्रृङ्गाणि हेमपट्टञ्च वेष्टयेत्
मौञ्जीरज्जुं समादाय त्रिवृतं श्लक्ष्णकं परम् ॥ १७ ॥
रज्वाबद्ध्वा वृषग्रीवे लिङ्गमूले दृढं क्रमात्
उद्धारयेत्ततो लिङ्गं वृषेन हृदिना बुधः ॥ १८ ॥
[[६६९]]
गजेनोद्धारणञ्चेत्तु गोचर्म्मकृतरज्जुना
पिण्डिकां घातयेत्तत्र कुन्दाल्याहैमजेन तु ॥ १९ ॥
पादशैलादिशैलाश्च जीर्णाश्च लक्षणान्विताः
सन्त्यज्य स्थापनोक्तेन लिङ्गं वै स्थापयेन्नवम् ॥ २० ॥
जीर्णारवं समुद्धृत्य शिबिकायां रथेऽपि वा
आरोप्य नृत्तवाद्यैश्च सर्वालङ्कारसंयुतम् ॥ २१ ॥
ततो भक्तजनैस्सार्द्धं स्तोत्रमङ्गलवाचकैः
समुद्रे निक्षिपेच्छैलं निक्षिपेदथवा पुनः ॥ २२ ॥
निक्षिपेन्मृण्मयन्तोये क्षिपेदग्नौ च दारुजम्
आचार्यं पूजयेत्तत्र गोभूमिकाञ्च नादिभिः ॥ २३ ॥
आश्रच्छेदे च भिन्ने च घृतवारिविहीनके
अन्न्येषां जीर्णकाले तु उद्धरेत्पिण्डिकां पुनः ॥ २४ ॥
तदग्रे स्थण्डिलं कृत्वा सिकतैस्सुसितैश्शुभैः
आदावन्ते च कर्तव्यम् अग्निकार्योक्तमार्गतः ॥ २५ ॥
समिधं सद्यमन्त्रेण हृदयेन घृतं हुनेत्
अघोरेण चरुं हुत्वा लाजं वै शिखया हुनेत् ॥ २६ ॥
तिलमन्त्रेण मन्त्रेण सर्षपं कवचेन तु
तण्डुलं वामदेवेन प्रत्येकं पञ्चविंशतिः ॥ २७ ॥
कुन्दल्याखातयेद्धीमान् वृषेणोद्धारणं विना
पिण्डिकास्पर्शनोक्तेन स्थापयेन्नवपिण्डिकाम् ॥ २८ ॥
जीर्णान्तस्यैव बिम्बस्य उद्धारञ्चाधुना श्रुणु
शिरोबाहू तथा पादौ हीने स्यात्परिवर्जयेत् ॥ २९ ॥
जीर्णो लोहेन तत्कुर्यात्प्रमाणेन च पूर्ववत्
कृत्वा तु स्थापयित्वा तु पूर्ववत् सम्यगर्चयेत् ॥ ३० ॥
भ्रूरेखा चक्षुरेखा च आस्यरेखा च नासिका
एतेषाञ्च क्षयन्दृष्ट्वा प्रतिमां परिवर्जयेत् ॥ ३१ ॥
[[६७०]]
तद्बेरन्तु परिग्राह्य समुद्रे तु विनिक्षिपेत्
मन्दिरे चोद्धृते चूर्णे लिङ्गे निर्दोषसंस्थिते ॥ ३२ ॥
बालहर्म्यन्ततः कुर्यात् बालस्थानोक्तमार्गतः
बाललिङ्गन्ततः कृत्वा स्थापयेत्तरुणालये ॥ ३३ ॥
प्रतिमस्य विमानस्य वृषेणोद्धारणं विना
स्तूप्याद्याद्येष्टकात्प्राग्वत् गर्भन्याससमन्वितम् ॥ ३४ ॥
आद्येष्टकाङ्क्षिपेत्प्राग्वत् गर्भन्याससमन्वितम्
धामान्तरालपर्यन्तं तावत्कृत्वा सलक्षणम् ॥ ३५ ॥
यद्द्रव्येणोद्धृतं हर्म्यं यत्प्रमाणं यदा कृति
तत् द्रव्येण पुनः कृत्वा तत्प्रमाणेन बुद्धिमान् ॥ ३६ ॥
सर्वावयवसम्पूर्णं यथा शोभं यथा बलम्
दार्वेष्टकशिलाञ्चैव जीर्णप्रासादकेऽपि च ॥ ३७ ॥
कर्मयोग्यस्तु सङ्ग्राह्या शेषास्सम्परिवर्जयेत्
हीनमानोद्धृते धाम्नि शास्त्रोक्ते नाधिकं कुरु ॥ ३८ ॥
तस्माद्धीनन्नकर्तव्यमुत्कृष्टं शुभदं स्मृतम्
स्थूपिना च विशाला च कपोता कूटपारकाः ॥ ३९ ॥
एतेष्वेकं यदा हीनं कृत्वा तद्वद्यथा पुनः
जीर्णके बाललिङ्गे तु द्धारणन्तु तथा कुरु ॥ ४० ॥
तस्याग्रे स्थण्डिलं कृत्वा निर्दोषैस्सिकतैस्सितैः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ४१ ॥
समिधा सद्यमन्त्रेण घृतमीशानमन्त्रतः
हृदयेन चरुं हुत्वा एषामीशेन लाजकम् ॥ ४२ ॥
सिताब्जं नेत्रमन्त्रेण बिल्वपत्रन्तु वर्मणा
अष्टोत्तरशतं हुत्वा प्रत्येकन्तु विशेषतः ॥ ४३ ॥
द्रव्यान्ते व्याहृतिं हुत्वा आहुतिञ्जुहुयात्ततः
पूर्णाहुतिं ततः कृत्वा शिरोमन्त्रेण देशिकः ॥ ४४ ॥
[[६७१]]
नवलिङ्गं प्रकुर्वीत पूर्ववत्तेन वस्तुना
तरुणस्थापनञ्चोक्तमार्गेणैव समाचरेत् ॥ ४५ ॥
स्थापनात्पूर्वकाले तु लिङ्गं हस्तेन चालयेत्
दक्षिणाञ्च गुरोर्दत्वा भूसुरान् भोजयेत्ततः ॥ ४६ ॥
परिवारालये जीर्णे आलयस्योक्तवत्कुरु
पूर्वाकृत्यापुनः कुर्याल्लक्षणेन विचक्षणः ॥ ४७ ॥
न्यूनाकृत्या कृतञ्चेत्तु सर्वदोषसमुद्भवम्
स्थापिते नोक्तदेशे तु तद्विनारम्भतन्त्रके ॥ ४८ ॥
उक्तस्थाने प्रकर्तव्यं परिवारादिकान् क्रमात्
जीर्णिते चात्र बिम्बे तु उद्धरेत्तु विशेषतः ॥ ४९ ॥
तत्तद्धामाग्रके पीठं कृत्वामूर्तिं समर्चयेत्
स्थापनोक्तक्रमेणैव बिम्बं वै स्थापयेन्नवम् ॥ ५० ॥
प्राकारे जीर्णिते तत्र कुर्यादुद्धारणं क्रमात्
एकदेशविहीनश्चेत् पुनस्सन्धानमाचरेत् ॥ ५१ ॥
आसमन्तात् द्वितीयञ्चेत्तन्मूलन्तत्ततोद्धरेत्
आद्येष्टकां ततः क्षिप्त्वा प्राकारन्तु समारभेत् ॥ ५२ ॥
तस्माद्धीनं न कर्तव्यं कर्तव्यमधिकं शुभम्
जीर्णिते गोपुरे तत्र प्रासादस्योक्तवत्कुरु ॥ ५३ ॥
अन्येषां मण्टपादीनां प्रासादस्योक्तवत्कुरु
एवं सामान्यमुद्दिष्टं विशेषमधुना श्रुणु ॥ ५४ ॥
इष्टकायां परं पीठं पीठादाभासमुत्तमम्
आभासादर्द्धचित्रन्तु अर्द्धचित्रात्तु दारुजम् ॥ ५५ ॥
दारुजान्मृण्मयं श्रेष्ठं तच्छ्रेष्ठं शैलजं स्मृतम्
शैलजाल्लोहजं श्रेष्ठं लोहजाद्रत्नजं तथा ॥ ५६ ॥
चलत्वाल्लोहरत्नैश्च मूललिङ्गन्न कारयेत्
द्रव्योत्कृष्टेन कर्तव्यं विपरीतन्न कारयेत् ॥ ५७ ॥
[[६७२]]
एवं यः कुरुते मर्त्या लभते मौलिकं फलम्
इहैव पुत्रवान् श्रीमान् सोन्ते सायुज्यमाप्नुयात् ॥ ५८ ॥
इति जीर्णोद्धारपटलश्चतुस्त्रिंशदुत्तरशततमः