विशेषपूजाविधिपटलप्रारम्भः
विशेषयजनं वक्ष्ये श्रुणुष्वकमलोद्भव
नित्यन्नैमित्तिकञ्चैव काम्यन्तेति त्रिधा भवेत् ॥ १ ॥
नित्यन्तु त्रिविधं प्रोक्तं तद्विधानमिहोच्यते
नित्यन्तु नित्यपूजाञ्च सन्ध्यां प्रतियजेत्क्रमात् ॥ २ ॥
प्रत्यहं पूजयेच्छम्भोर्नित्यपूजाविधानतः
नित्यनैमित्तिकं वक्ष्ये श्रुणुष्वकमलासन ॥ ३ ॥
अमावास्याष्टमी चैव नित्येन पूजयेत्क्रमात्
किञ्चिदस्मिन्विशेषोस्ति सितासितत्रयोदशी ॥ ४ ॥
रवेरस्तमयात्पूर्वे पृथक्पूजां समाचरेत्
इत्येवं त्रिविधं प्रोक्तं पूजयेद्देशिकोत्तमः ॥ ५ ॥
नैमित्तिकमथो वक्ष्ये नित्यपूजानुकूलतः
सङ्क्रान्तौ च चतुर्दश्यां पर्वण्युभयपक्षयोः ॥ ६ ॥
अयने विषुवे राहुग्रसने मासपूजके
एतेष्वन्येषु सर्वेषु नैमित्तिकमिहोच्यते ॥ ७ ॥
नैमित्तिकन्तु नित्यान्ते कर्तव्यमविरोधतः
नित्ये प्रवर्तमाने तु यदा नैमित्तिके भवेत् ॥ ८ ॥
समाप्येकेन कालेन नित्यन्नैमित्तिकञ्चरेत्
सन्ध्याय परकाले वा पूर्वे वा विद्यते यदि ॥ ९ ॥
नैमित्तिकं स्वकाले तु कृतनित्यविरोधतः
एकत्र चैवकालेन उभयत्रसमाचरेत् ॥ १० ॥
नैवेद्यान्तं वा दीपान्तं नैमित्तं नित्यमेव वा
[[६६६]]
विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् ॥ ११ ॥
स्वकालानुष्ठिता त्वैषा क्रियासर्वार्त्थसाधनी
किञ्चिदस्तिविशेषोस्मिन् मासपूजाविधानके ॥ १२ ॥
प्रातस्सन्ध्यावसाने वा अन्यसन्ध्यावसानके
अन्नपूजादिकं कृत्वा विधिवद्देशिकोत्तमः ॥ १३ ॥
मद्ध्याह्नयजने काले द्रव्यं लिङ्गाद्विसर्जयेत्
जलेनैव तु संस्नाप्य शेषं पूर्ववदाचरेत् ॥ १४ ॥
उषः काले तु पूर्वाह्ने मद्ध्याह्ने वा पराह्नके
सायाह्ने च प्रदोषे तु सङ्क्रमे सम्भवे सति ॥ १५ ॥
तीर्त्थञ्च यजनं कृत्वा एकाहोत्सवमाचरेत्
रात्रौ वाथ दिवावापि ग्रहणे चन्द्रसूर्ययोः ॥ १६ ॥
तत्काले तीर्त्थमाश्रित्य पूजयेत्तु विशेषतः
नैमित्तिकमिदं प्रोक्तं काम्यपूजामथ श्रुणु ॥ १७ ॥
यैः प्रार्त्थितप्रपूजास्तु सापूजाकामिकोच्यते ॥ १८ ॥
अतः परं प्रवक्ष्यामि विशेषयजनं श्रुणु
सर्वरोगविनाशार्थमायुरारोग्य वर्द्धनम् ॥ १ ॥
मोक्षदं कामदं पुण्यं सर्वशत्रुविनाशनम्
अनावृष्टौ च दुर्भिक्षे परराष्ट्रप्रवेशके ॥ २ ॥
राजाभिषेकसमये युद्धारम्भे तथैव च
विशेषपूजां यत्नेन इष्टकाम्म्यफलप्रदम् ॥ ३ ॥
पूर्वाह्ने चैव मद्ध्याह्ने सायाह्ने च तथैव च
अथवा मद्ध्यसन्ध्यायां प्रशस्तन्दक्षिणोत्तरम् ॥ ४ ॥
गोक्षीरेण तु सम्पूर्य क्रमेणैव विशेषतः
घृतेनैवाभिषेकन्तु तच्छ्रेष्ठञ्च विशिष्यते ॥ ५ ॥
इक्षुसारफलं कृत्वा शालिभिर्विमलैस्तथा
[[६६७]]
गन्धपुष्पादिनाभ्यर्च्य हृदयेनैव मन्त्रतः ॥ ६ ॥
शरावे ताम्रपात्रे वा स्थापयेत्तु ततोपरि
पञ्चगव्य विधिं स्थाप्य पञ्चामृतन्तु कल्पयेत् ॥ ७ ॥
पुण्याहं वाचयेत्तत्र पूजयित्वा विशेषतः
त्रियम्बकेन मन्त्रेण कुर्यात्क्षीराभिषेचनम् ॥ ८ ॥
शिवाङ्गैश्चैव विद्याङ्गैर्ब्रंहपञ्चकमुच्चरन्
शिवमन्त्रेण सम्पूज्य कुर्यात्तत्पञ्चगव्यकैः ॥ ९ ॥
व्योमव्यापि षडङ्गेन कुर्यात्पञ्चामृतन्तथा
जलेन स्नापयेत्पश्चात्प्रासादेन तु मन्त्रतः ॥ १० ॥
आसनावरणादीनि पूर्ववत्परिकल्पयेत्
नित्यपूजावसानान्ते विशेषयजनन्ततः ॥ ११ ॥
पायसान्नन्ददेत्पश्चात्कदलीफलसंयुतम्
नैवेद्यन्दापयेत्पश्चात् यथाशास्त्रानुसारतः ॥ १२ ॥
इति विशेषपूजाविधिपटलस्त्रयत्रिंशदुत्तरशततमः