१३२ ग्रहणपूजाविधिपटलः

ग्रहणपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण ग्रहणस्यार्च्चनं श्रुणु
पुष्यमासादिमार्गान्तं ग्रहणं चन्द्रसूर्ययोः ॥ १ ॥

ज्येष्ठान्तं पुष्यमासादि ग्रहणस्य फलप्रदम्
उत्तराषाढमासादिमार्गान्तं ग्रहणस्य च ॥ २ ॥

सर्व एव फलञ्चैव राजराष्ट्रस्य दोषकृत्
प्राणपीडाञ्च कुरुते जन्मनक्षत्रके सति ॥ ३ ॥

तस्मात्सर्वप्रयत्नेन शिवपूजां समाचरेत्
सर्वोच्छिष्टं समारभ्य सूर्यग्रहणकं पुरा ॥ ४ ॥

सर्वोच्छिष्टान्तकं कृत्वा सोमग्रहणमारभेत्
स्नानदानजपं होमं यजनञ्चैव कथ्यते ॥ ५ ॥

ग्रहणस्यैव तत्काले पाकन्नैवाशनञ्च च
तत्काले चौषधं ग्राह्यं सफलं बलवर्द्धनम् ॥ ६ ॥

मन्त्रविद्याजपो ग्राह्यः काम्यार्त्थञ्च फलप्रदम्
वृषस्य तु फलं नीहं मुसलाहतवृक्षवत् ॥ ७ ॥

वृक्षं बहुफलं सिद्धं सर्ववृक्षेषु योजयेत्
स्त्रीणां वाचाश्विनीनाञ्च संयोगं ग्रहणस्य तु ॥ ८ ॥

[[६६४]]

पुत्रवक्रसमुत्थञ्च सर्वमुद्भवमुच्यते
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ ९ ॥

सङ्क्रान्तौ बाह्यमावास्यां षडशीति मुखेऽपि च
सिनीवाल्याङ्कुहौ चैव कन्दके कालकण्ठके ॥ १० ॥

एवमादिषु कालेषु शिवं सम्पूजयेत्ततः
पुण्याहं प्रोक्षणं कृत्वा गव्यैः पञ्चामृतैरपि ॥ ११ ॥

अष्टोत्तरशतैर्वापि एकाशीतिरथापि वा
पञ्चाशत्पञ्चविंशद्भिष्षोडशैर्न्नवभिस्तु वा ॥ १२ ॥

स्नापयेत्परमेशानं शान्तिहोमपुरस्सरम्
घृतस्नानं पयस्नानं क्षौद्रस्नानमथापि वा ॥ १३ ॥

एतैर्द्धाराभिषेकं वा जलधारान्तथैव च
नमकञ्चमकञ्चैव रुद्रसूक्तन्तथैव च ॥ १४ ॥

एकादशं तद्विगुणं त्रिगुणं वा पृथक्पृथक्
जपेयुर्ब्राह्मणाश्चैव युग्मसङ्ख्यान्क्रमेण तु ॥ १५ ॥

आचार्येण जपित्वा तु मूलमन्त्रञ्च संहिताम्
एवं सम्पूज्य विधिवन्नैवेद्यं व्यञ्जनैस्सह ॥ १६ ॥

पायसान्नं गुलान्नञ्च दत्वा पूपसमन्वितम्
पानीयाचमनन्दत्वा ताम्बूलञ्च निवेदयेत् ॥ १७ ॥

धूपदीपसमायुक्तमारात्रिकसमन्वितम्
नृत्तगीतसमायुक्तं दर्पणछत्रचामरैः ॥ १८ ॥

वेदादीन् ज्ञापयेत्तत्र चण्डपूजान्तमाचरेत्
नित्यं नैमित्तिकञ्चैव तन्त्रेणैव समाचरेत् ॥ १९ ॥

सर्वपापहरञ्चैव सर्वशान्तिकरं शुभम्
आचार्यं पूजयेत्तत्र दक्षिणां सम्प्रदाव च ॥ २० ॥

नैवेद्यपूतं सर्वाणि आचार्याय प्रदापयेत्
अपूपाष्टं समिद्युक्तं ताम्बूलञ्च निवेदयेत् ॥ २१ ॥

[[६६५]]

फलादिभक्ष्यद्रव्यैश्च दशांशन्दापयेत्ततः
इत्थं नैमित्तिके नित्ये काम्ये चैव प्रदापयेत् ॥ २२ ॥

इति ग्रहणपूजाविधिपटलः द्वात्रिंशदुत्तरशततमः