सङ्क्रमविधिपटलप्रारम्भः
सङ्क्रमस्य विधिं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम्
पुष्यमासादिमार्गान्तं पूजयेत्परमेश्वरम् ॥ १ ॥
उत्तरे चायनेतीते भविष्यद्दक्षिणायने
मेषे चाश्वयुजे मासे मद्ध्ये काले तथैव च ॥ २ ॥
सिंहवृश्चिककुम्भेषु वृषे चादौ समाचरेत्
कन्न्यायां मिथुने मीने धनुष्यन्ते समाचरेत् ॥ ३ ॥
पुष्याषाढे प्रकर्तव्यं दीपारोहं विशेषतः
शिवाग्रे मण्टपे वाथ सर्वालङ्कारसंयुतम् ॥ ४ ॥
एकाद्यनेकदीपैश्च यथा वित्तानुसारतः
पूर्वतः परतश्चापि घटिकाषोडशस्ततः ॥ ५ ॥
पुण्यकालमिति प्रोक्तं सर्वदोषनिकृन्तनम्
पूजयेत्तु विशेषेण गव्यैः पञ्चामृतैस्तथा ॥ ६ ॥
नवकादिशतान्तानि कलशैस्नापयेत्ततः
[[६६३]]
जलधाराभिषेकं वा तत्तत्कालेऽप्यहर्निशम् ॥ ७ ॥
घृतं वा गन्धतोयं वा क्षौद्रं वा दुग्धमेव वा
त्रिपादूर्ध्वे तथा कुर्याच्चतुष्पादार्धकेऽपि वा ॥ ८ ॥
स्नापयेत्परमेशानं पूर्वोक्तविधिना ततः
शान्तिहोमं ततः कृत्वा सर्वशान्तिकरं शुभम् ॥ ९ ॥
नैवेद्यं धूपदीपञ्च नृत्तान्तं सम्यगाचरेत्
एवं सङ्क्रमपूजायां ग्रहणार्चामथ श्रुणु ॥ १० ॥
इति सङ्क्रमपूजाविधिपटल एकत्रिंशदुत्तरशततमः