लाजपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण लाजपूजा विधिक्रमम्
सर्वरोगनिवृत्यर्त्थं सर्वशान्तिकरं शुभम् ॥ १ ॥
विजयं मृत्युनाशञ्च सर्वाभीष्टसुखप्रदम्
लाजपूजासमायुक्तं भुक्तिमुक्तिप्रदं नृणाम् ॥ २ ॥
केवलं शुद्धलाजेन मुक्त एव विशेषतः
तुषान् व्यपोह्य वस्त्रेण भारादिदशभारकम् ॥ ३ ॥
प्रस्थं ह्यस्याष्टपूर्वं स्यात् तस्यार्द्धं वार्द्धमेव वा
योजयेदधिवासस्तु सद्य एव समाचरेत् ॥ ४ ॥
विज्ञाप्य देवदेवेशं पूजावत्सम्यगाचरेत्
विशेषस्नपनोपेतं गव्यं पञ्चामृतैस्ततः ॥ ५ ॥
[[६६२]]
विशेषहोमसंयुक्तं समिदाज्यान्नकैस्सह
पूर्ववत्पूजनं कृत्वा पश्चाल्लाजेन पूजयेत् ॥ ६ ॥
लिङ्गमूर्द्धादिपीठान्तं स्थलान्तं वा समाचरेत्
शिवमन्त्रं समुच्चार्य पूजयेत्तु विशेषतः ॥ ७ ॥
वस्त्राभरणमालाद्यैरलङ्कृत्य विशेषतः
नैवेद्यञ्चैव ताम्बूलं धूपदीपसमन्वितम् ॥ ८ ॥
आरात्रिकसमायुक्तं दर्पणं छत्रचामरैः
एवं सम्पूज्य विधिवत् सर्वपापनिकृन्तनम् ॥ ९ ॥
आचार्यं पूजयेत्पश्चात् ब्राह्मणान्भोजयेत्ततः
भक्तांश्च पशिचारांश्च पूजयेत्तु विशेषतः ॥ १० ॥
इति लाजपूजाविधिपटलस्ित्रिंशदुत्तरशततमः