दीपपूजाविधिपटलप्रारम्भः
दीपपूजाविधिं वक्ष्ये सर्वरोगविनाशनम्
गर्भग्रहे मण्टपे वा कर्तव्यं वेदिकोपरि ॥ १ ॥
दीपदण्डोक्तवृक्षं वा क्रमुकं वापि कारयेत्
त्रयोविंशाङ्गुलमारभ्य षडङ्गुलविवर्द्धनात् ॥ २ ॥
सप्तवत्वारिचान्तं यत् दण्डोच्चं पञ्चधा भवेत्
एकादशाङ्गुलारभ्य षट्षडङ्गुलवर्द्धनात् ॥ ३ ॥
पञ्चत्रिंशाङ्गुलं यावत् नाहं पञ्चविधं भवेत्
दण्डमूलमिति ख्यातमग्रमष्टांश हीनकम् ॥ ४ ॥
स्वतावनाहं क्रमुकं पूर्वाग्रञ्चोत्तराग्रकम्
दण्डोर्द्ध्वे यन्त्रिकोपेतं दण्डाग्रस्य त्रिभागतः ॥ ५ ॥
विस्तारदण्डविस्तारन्तत्पटन्तु त्रियङ्गुलम्
तत्समन्तु चतुष्कीलं द्व्यङ्गुलं कीलविस्तृतम् ॥ ६ ॥
एवं सम्पाद्य दण्डन्तु दण्डकाले त्रिमेखला
त्रयङ्गुलन्तु विस्तारमुत्सेधन्तु द्वयाङ्गुलम् ॥ ७ ॥
तदधो वेदिकोत्सेधं द्वादशाङ्गुलमात्रतः
द्विहस्तन्तु प्रविस्तारमुपवेदिसमन्वितम् ॥ ८ ॥
उत्सेधं द्व्यङ्गुलं ख्यातञ्चतुरङ्गुलविस्तृतम्
उपवेदिरिति प्रोक्तं वेद्यूर्द्ध्वे दण्डमानकम् ॥ ९ ॥
[[६६०]]
दर्भमालासमायुक्तं पुष्पमाला समायुतम्
गन्धं संलिप्य दण्डन्तु वस्त्रयुग्मेन वेष्टयेत् ॥ १० ॥
पुण्याहप्रोक्षणं कृत्वा तत्पूर्वे स्थण्डिलं कुरु
अग्न्याधानादिकं सर्वं पूर्वोक्तविधिमार्गतः ॥ ११ ॥
समिदाज्य चरूञ्चैव मूलेनैव शतं हुनेत्
जयादिरभ्याधानाद्यैः स्विष्टाद्यैः पूर्ववद्बुधः ॥ १२ ॥
तदग्रे रोपयित्वा तु प्रस्थाज्यैश्शिवपावके
वामादिशक्तिं सम्पूज्य कुम्भे शाग्रेऽधिवासयेत् ॥ १३ ॥
मण्टपं कुण्डवेदींश्च पूजयेत्पूर्ववत् बुधः
अग्निकार्योक्तविधिना चरुपाकसमन्वितम् ॥ १४ ॥
होमयेत्पूर्ववत्कृत्वा प्रभाते स्नानमाचरेत्
पुनर्मण्डलमाराध्य प्रायश्चित्तादिकञ्चरेत् ॥ १५ ॥
एवं सर्वं समापाद्य पूजयेत्सपराह्नके
गव्यादिस्नपनान्तञ्च यजेदावरणं प्रति ॥ १६ ॥
वस्त्राभरणमालाद्यैरलङ्कृत्य विशेषतः
सायाह्नसमये प्राप्ते सायरक्षां समाचरेत् ॥ १७ ॥
शङ्खद्ध्वनिसमायुक्तं स्वस्तिसूक्तसमन्वितम्
सर्वालङ्कारसंयुक्तं कुम्भेशेनवदीपयुक् ॥ १८ ॥
धामप्रदक्षिणं कृत्वा प्रविशेन्मण्टपे ततः
पुण्याहं प्रोक्षणं कृत्वा यजेद्दण्डे सदाशिवम् ॥ १९ ॥
कुम्भोदैश्चैव सम्प्रोक्ष्य गन्धपुष्पादिनार्च्चयेत्
दण्डोर्द्ध्वे विन्यसेत्पात्रं सर्वरौप्य विनिर्मितम् ॥ २० ॥
कार्प्पासबीजसंयुक्तं तण्डुलं वाथ पुत्तलम्
दीपयेन्मद्ध्यदीपेन तद्दीपं पश्चिमे न्यसेत् ॥ २१ ॥
वेद्यूर्द्ध्वे स्थण्डिले न्यस्त्वा दीपान्वादीपदैवतान्
पूजयेत् गन्धपुष्पाद्यै स्वस्वमन्त्रैर्विशेषतः ॥ २२ ॥
[[६६१]]
ज्योतिर्लिङ्गमयं द्ध्यात्वा नैवेद्यन्दापयेत्ततः
धूपदीपसमायुक्तं पूजयेत्तु विशेषतः ॥ २३ ॥
देवाग्रे स्थापिते दण्डे दीपारोहन्तु पूर्ववत्
कूटदाहं प्रकर्तव्यं हित्वा च सर्वमाचरेत् ॥ २४ ॥
शक्तीनां सर्वदेवानां दीपारोहं समाचरेत्
नैवेद्यं दापयेत्पश्चात्पानीयाचमनं ततः ॥ २५ ॥
अपृपूपं प्रथुकं दद्यात्ताम्बूलञ्च निवेदयेत्
नित्याग्नियजनं कुर्यान्नित्योत्सवसमन्वितम् ॥ २६ ॥
धूपदीपसमायुक्तं नृत्तान्तं सम्यगाचरेत्
एवं समाप्य विधिवत् चण्डेशं पूजयेत्ततः ॥ २७ ॥
दण्डपश्चिमदीपेन चण्डेशाग्रे निवेदयेत्
पूजयेत्पूर्ववत्कृत्वा सर्वालङ्कारसंयुतम् ॥ २८ ॥
दीपपूजाविधिः प्रोक्तः लाजपूजाविधिं श्रुणु ॥ २९ ॥
इति दीपपूजापटल एकोनत्रिंशदुत्तरशततमः