१२८ अन्नपूजाविधिपटलः

अन्नपूजाविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अन्नपूजाविधिक्रमम्
अन्नं प्राणात्मकं श्रेष्ठं सर्वजन्तु प्रतिष्ठितम् ॥ १ ॥

तस्मादन्नाभिषेकन्तु मम प्रीति करं शुभम्
अन्नरूपं विशेषेण मम रूपमिति स्मृतम् ॥ २ ॥

शाल्यन्नमुत्तमं प्रोक्तं व्रीह्यन्नम्मद्ध्यमं भवेत्
चरुपाकविधानेन अर्च्चनार्त्थं हि विग्रहे ॥ ३ ॥

सद्योधिवासनं कुर्यात्सर्वकर्म समाचरेत्
पयसा स्नापयेद्दद्ध्ना घृतेन मधुना ततः ॥ ४ ॥

खण्डशर्क्करया पश्चात्फलपुष्परसैस्ततः
स्नानं मूलेन कर्त्तव्यं प्रत्येकन्नववारिणा ॥ ५ ॥

शतमष्टोत्तरन्देयं कलशानां क्रमेण तु
सम्पूज्य धूपदीपादि दत्वाप्यञ्जलिपूर्वकम् ॥ ६ ॥

पश्चादन्नेन सम्पूर्य लिङ्गपीठं क्रमेण तु
दद्याद्वित्तानुसारेण भारादि दशभारकम् ॥ ७ ॥

सम्पूज्य मूलमन्त्रेण दत्वार्घ्यं हृदयेन तु
नैवेद्यन्दापयेत्पश्चाद्व्यञ्जनादि समन्वितम् ॥ ८ ॥

[[६५९]]

हस्तोद्वर्त्तनताम्बूलं मुखवाससमन्वितम्
श्रीमत्पञ्चमहाशब्दन्दर्पणं छत्रचामरैः ॥ ९ ॥

गेयनृत्तकरस्तोत्रैस्सन्तोष्याप्यभिवन्द्य च
आचार्यं पूजयेत्पश्चात् दक्षिणां सम्प्रदाय च ॥ १० ॥

अन्नपूजा विधिः प्रोक्ता दीपपूजा विधिं श्रुणु ॥ ११ ॥

इति अन्नपूजाविधिपटल अष्टाविंशत्युत्तरशततमः