नवरात्रिविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि नवरात्रिविधिक्रमम्
आश्वयुक्शुक्लपक्षे तु प्रतिपन्नवम्यन्तके ॥ १ ॥
प्रतिपद्दिनमारभ्य व्रतोत्सवमथाचरेत्
देव्यग्रे दक्षिणे वापि मण्टपे समलङ्कृते ॥ २ ॥
ऐशान्ये चोत्तरे वापि लक्ष्मीन्दुर्गाञ्च भारतीम्
गौरीमिमायमन्त्रेण बद्ध्वाप्रतिसरं बुधः ॥ ३ ॥
नानाशक्त्यादिसंयुक्तं नानायुधादि संयुतम्
प्रथमादिनवम्यन्तं दिनं प्रतिप्रपूजयेत् ॥ ४ ॥
तथातद्दिनमारभ्य नानाशक्तिजपं बुधः
मुलदेव्यग्रके वापि अन्ये च मण्टपादिके ॥ ५ ॥
अलङ्कृत्य च देव्याश्च विनोदालोकनन्नयेत्
यथावित्तानुसारेण नवनैवेद्यमेव च ॥ ६ ॥
धूपदीपोपचारैश्च मन्त्रपूष्पैश्च दापयेत्
इष्टकाम्यार्त्थसिद्ध्यर्त्थं जनान्सर्वान्प्रदर्शयेत् ॥ ७ ॥
होमकार्यं द्विकालञ्च रात्र्याञ्चोत्सवमाचरेत्
अथवान्यप्रकारेण विना चोत्सवहोमकम् ॥ ८ ॥
केवलं व्रतकार्यन्तु दिनं प्रतिदिनं प्रति
[[६५७]]
यथा कल्पोक्त
मार्गेण नानादेवीं प्रपूजयेत् ॥ ९ ॥
नानावाद्यसमायुक्तं नानागीतसमन्वितम्
नानानृत्तसमायुक्तं नानास्तोत्रसमन्वितम् ॥ १० ॥
प्रतिपद्रात्रिमारभ्य पूजयेत्सर्वशक्तिकाः
नवाहं वाथ सप्ताहं पञ्चाहं वा त्रयाहकम् ॥ ११ ॥
एकरात्र्यामथारभ्य गजाश्वायुधपूजनम्
दशमीञ्च ततः प्रातः तत्कुम्भञ्चैव पूजयेत् ॥ १२ ॥
धामप्रदक्षिणं कृत्वा नानावाद्ययुतैस्सह
पुण्याहं वाचयित्वा तु कुम्भञ्चैवाभिषेचयेत् ॥ १३ ॥
नैवेद्यं धूपदीपञ्च रक्षासूत्रं विसृज्य च
नवम्म्यां पूजयेद्देवीं दशम्याञ्च शमीं यजेत् ॥ १४ ॥
अस्त्राणामर्चनं ह्येवं प्रत्यहं पूजयेत्सुधीः
राजराष्ट्राभिवृद्ध्यर्त्थं दशम्यां पूजयेच्छमीम् ॥ १५ ॥
तद्दिने च प्रभाते वा सायाह्ने चार्चयेच्छमीम्
चोत्तरे चैव पूर्वे वा शमीमण्टपसंस्थिते ॥ १६ ॥
शमीधामह्यलङ्कृत्य चतुर्द्वारसमन्वितम्
वितानैस्तोरणैर्भूष्य नानालङ्कारसंयुतम् ॥ १७ ॥
इन्दुशेखरमूर्तिञ्च तुरगारूढयेद्बुधः
नानालङ्कारसंयुक्तं नानाभक्तजनैस्सह ॥ १८ ॥
शमीस्थानं प्रविश्याथ पुण्याहं वाचयेत्ततः
खड्गखेटौ च चापञ्च स्थापयेत्तु शमी सह ॥ १९ ॥
शमीपूजा प्रकारेण आसनादीन्प्रपूजयेत्
तत्पश्चाच्छमीमूले तु कालरात्रेश्च काल्यकैः ॥ २० ॥
यमैश्च यमदूतैश्च ब्राह्म्याद्यैस्सप्तमातृकैः
महालक्ष्मीस्समभ्यर्च्य शमीमूलेन पूजयेत् ॥ २१ ॥
अस्त्रमन्त्रेण सम्पूज्य नैवेद्यं धूपदीपकैः
[[६५८]]
शमीशत्रुविनाशाय शमीपापप्रणाशिनी ॥ २२ ॥
शमीसम्पत्करी चैव शमीञ्चैव नमोनमः
शक्त्यादानादिकन्दद्यात् ब्रांहणान्वेदपारगान् ॥ २३ ॥
ग्रामकर्तृनृपाणाञ्च सोष्णीषस्सुप्रसन्नवान्
चतुर्दिक्षु चतुर्बाणैर्गम्यते चैव बुद्धिमान् ॥ २४ ॥
शम्भोर्नीराञ्जनं दद्यात्तथा दुष्टमृगं हरेत्
ततो देवालयं गच्छेत्सपुण्यां गतिमाप्नुयात् ॥ २५ ॥
इति नवरात्रिविधिपटलः सप्तविंशत्युत्तरशततमः