१२६ आश्वीजघृतपूजाविधिपटलः

आश्वीजघृतपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण घृतपूजाविधिक्रमम्
गव्यमाज्यं समादाय वस्त्रपूतेन शुद्ध्यति ॥ १ ॥

सर्वादिपात्रे सम्पूज्य कुम्भेशाग्रेऽधिवासयेत्
मण्टपं कुण्डवेदीञ्च पूर्ववत्पूजयेद्बुधः ॥ २ ॥

होमयेदधिवासार्त्थं सम्पातार्त्थं समाचरेत्
उपहोमसमायुक्तं पूजाहोमसमन्वितम् ॥ ३ ॥

प्रायश्चित्तादिकं होमं कारयेत्पूर्ववत्सुधीः
द्वात्रिंशत्प्रस्थमारभ्य यावत् भारद्वयान्तिकम् ॥ ४ ॥

द्रोणद्वयेन सम्बुद्ध्य उत्तमादि द्वयं द्वयम्
कोणेनैव समायुक्तमुपकुम्भन्नियोजयेत् ॥ ५ ॥

द्वारपूजादिकं सर्वं पूर्ववत्कारयेद्बुधः
पश्चात्घृतेन सम्पूज्य मूलमन्त्रमनुस्मरन् ॥ ६ ॥

लिङ्गपीठं ततस्नाप्य गन्धाद्यैरर्चयेद्बुधः
वस्त्रैराभरणैर्माल्यैरलङ्कृत्य विशेषतः ॥ ७ ॥

नैवेद्यं पूर्ववत्कृत्वा ताम्बूलञ्च निवेदयेत्
धूपदीपसमायुक्तं नृत्तान्तं सम्यगाचरेत् ॥ ८ ॥

सन्ध्यान्ते चैव कर्तव्यं निर्माल्यापनयेत्कृते
नालिकेरेण मुद्गं च मर्दयित्वा विचक्षणः ॥ ९ ॥

[[६५६]]

उष्णोदकेन संस्नाप्य लिङ्गपीठस्थलं क्रमात्
कदलीदधिसंयुक्तं गुलखण्डसमन्वितम् ॥ १० ॥

लेपयित्वा विशेषेण मर्दयित्वा विचक्षणः
तुलसी बिल्वपत्रैश्च गन्धैश्चैव विसृज्य च ॥ ११ ॥

यथेष्टं स्नापयेत्पश्चात् शेषं पूर्ववदाचरेत्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ १२ ॥

इति आश्वीजघृतपूजाविधिः षड्विंशत्युत्तरशततमः