१२५ पूर्वाषाढनवनैवेद्यलक्षणपटलः

पूर्वाषाढनवनैवेद्यलक्षणपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि नवनैवेद्यलक्षणम्
कन्न्याकुम्भकुलीरेषु चापमासे तु वर्जयेत् ॥ १ ॥

सितपक्षे द्वितीया च तृतीया पञ्चमी तथा
सप्तम्येकादशी चैव दशमी च त्रयोदशी ॥ २ ॥

एताश्च तिथयश्शस्ता हस्तश्रवणरेवती
आदित्यपुष्यमैत्रश्च चित्तात्रीण्युत्तरामखा ॥ ३ ॥

सोमप्रजापतिर्मूलविशाखा वसुवारुणाः
एते च शुभदाः प्रोक्ता मीनाजालिकुलीरकाः ॥ ४ ॥

[[६५३]]

अशस्ताराशयश्चैते अन्ये सर्वशुभप्रदाः
लग्ने च दशमे चैव षष्ठे चैवाष्टमेऽपि च ॥ ५ ॥

चतुर्त्थे चाशुभाजीवष्षष्ठे च दशमेऽपि वा
एकादशे गुरुश्चैव शुक्रश्शुभकरस्मृतः ॥ ६ ॥

षष्ठे च सप्तमे चैव द्वादशे दशमेऽपि वा
शशाङ्कः शुभदः प्रोक्तो नवमे दशमे तथा ॥ ७ ॥

षष्ठे च दशमे लग्ने सप्तमे न्यग्रहाश्च वै
अशुभास्त्विति विख्याताश्चान्ये तु शुभदा स्मृताः ॥ ८ ॥

बुधभार्गवसौम्या हि वाराश्रेष्ठतरास्मृताः
सुमुहूर्तं विनिश्चित्य कारयेदङ्कुरार्पणम् ॥ ९ ॥

मुखे दुन्दुभिनिर्घोषैर्गीतनृत्तादिसंयुतैः
नानाध्वजवितानैश्च धूपदीपाङ्कुरैस्सह
ततो भक्तजनैस्सार्द्धं शूलेनैव समायुतम् ॥ १० ॥

स्वक्षेत्रं प्रविशेत्तत्र भूतेभ्यस्तु बलिं क्षिपेत्
दद्ध्योदनं बलिं क्षिप्त्वा स्वस्वनाम्नाविशेषतः ॥ ११ ॥

क्षेत्रस्य पूर्वदिग्भागे शुलमस्त्रेण मन्त्रतः
लूत्वानेत्रेण बद्ध्वा तु सङ्गृह्य बहुभारकान् ॥ १२ ॥

नानाविधफलैर्युक्तन्नानातण्डुलभारकैः
नानाभक्तसमायुक्तस्सुशालीभारकैर्युतम् ॥ १३ ॥

दद्ध्याज्यतैलकुम्भैश्च पूगीफलसमायुतम्
नवभाण्डसमायु–ज्य कु–खासमन्वितम् ॥ १४ ॥

रात्रिशाखासमयुक्तं मातृशाखासमायुतम्
मरीचिलवणोपेतं मुद्गभिन्नसमायुतम् ॥ १५ ॥

गुलखण्डसमायुक्तं नालिकेरफलैर्युतम्
जनास्सर्वेवहित्वा तु कुर्यात् ग्रामप्रदक्षिणम् ॥ १६ ॥

उक्तालङ्कारसंयुक्तं प्रतिमान्तु प्रदक्षिणम्

[[६५४]]

कृत्वालयं प्रविश्याथ मण्टपे तु विशेषतः ॥ १७ ॥

शूकशालिं विमुक्त्वा तु सन्तप्तं रविरश्मिभिः
भूमिशुद्धिं ततः कृत्वा गोमयालेपनं कुरु ॥ १८ ॥

विचित्रे शालिपिष्टेन भूतले स्थण्डिले कृते
वस्त्रैरावेष्ट्य दर्भैश्च विन्यसेल्लूखलं हृदा ॥ १९ ॥

धान्येनापूर्य तत्रैव कुट्टयेच्छिवदासिभिः
निर्दोषं तण्डुलं ग्राह्य पाषाणादीन्यपोह्य च ॥ २० ॥

प्रक्षाल्य गुलसम्मिश्रं नालिकेरफलान्वितम्
नवनैवेद्यकाले तु काम्यनैमित्तिके तथा ॥ २१ ॥

शिवाग्रभूमिं सम्प्रोक्ष्य स्थण्डिले शालिनिर्मिते
नवाम्बरेण संस्तीर्य रम्भापत्रन्तदूर्ध्वके ॥ २२ ॥

संस्तीर्य तु विशेषेण नैवेद्यन्तु विनिक्षिपेत्
मुहूर्ते समनुप्राप्ते कुर्युश्शब्दसमाकुलम् ॥ २३ ॥

नृत्तगीतसमायुक्तं स्तोत्रमङ्गलसंयुतम्
जयघोषसमायुक्तं ब्रह्मघोषसमन्वितम् ॥ २४ ॥

निवेदयेत्तु तत्काले तण्डुलं हृदयेन तु
प्रतिमाणाञ्च सर्वासान्दापयेत्तण्डुलन्ततः ॥ २५ ॥

ततस्त्वाचमनं दद्यान्निर्माल्यन्तु विसर्जयेत्
चण्डेशं पूजयित्वा तु निर्माल्यन्तु निवेदयेत् ॥ २६ ॥

नवपूगफलोपेतं ताम्बूलन्तु निवेदयेत्
तत्काले परिचाराणां भक्तानान्तु विशेषतः ॥ २७ ॥

दातव्यन्तण्डुलन्तत्र प्रभूतहविषन्ततः
पूर्वोक्तविधिनानेन पाचयित्वा निवेदयेत् ॥ २८ ॥

नित्याग्निन्तु ततः कुर्यात् नवनैवेद्यकैर्गुरुः
मूलेनैव तु मन्त्रेण चाष्ट—– हुनेत् ॥ २९ ॥

व्याहृतिञ्च ततो हुत्वा कुर्याद्वै परिषेचनम्

[[६५५]]

सर्वेषाञ्चैव भक्तानां नानान्नानि प्रदापयेत् ॥ ३० ॥

काम्यमेवं समाख्यातं नैमित्तिकमथोच्यते
सुमुहूर्ते सुलग्ने तु नैमित्तिकमथाचरेत् ॥ ३१ ॥

आचार्यं पूजयेत्पश्चान् वस्त्रहेमाङ्गुलीयकैः
ब्रांहणान्भोजयेत्तत्र माहेश्वरञ्च पूजयेत् ॥ ३२ ॥

इति नवनैवेद्यपटलः पञ्चविंशत्युत्तरशततमः