श्रावणतिलपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण तिलपूजा विधिक्रमम्
सर्वशान्तिकरं पुण्यं सर्वरोगविनाशनम् ॥ १ ॥
तिलानां पूजनार्त्थाय शनिदोषनिवारणम्
शनिनापीडनार्त्थाय सर्वदुःखनिवारणम् ॥ २ ॥
पूजयेत्तु विशेषेण शनिं मृत्युविनाशनम्
तिलपूजाफलसमं न भूतो न भविष्यति ॥ ३ ॥
भारादिदशभारान्तं पूजनार्त्थं प्रगृह्य च
[[६५२]]
क्षालनं शोषणं कृत्वा शोषयेच्चास्त्रमन्त्रतः ॥ ४ ॥
तिलपूजाविशेषेण मन्त्रमूर्तिमयेन च
तन्त्रात्मकशरीरेण मन्त्रो मूर्तिरिति स्मृतः ॥ ५ ॥
पूजयित्वा विशेषेण सर्वसम्पत्सुखावहम्
कुण्डमण्डलहोमादि पूर्ववत्सर्वमाचरेत् ॥ ६ ॥
द्वारपूजां ततः कृत्वा लिङ्गशुद्धिं समाचरेत्
क्षीरं वा गन्धतोयं वा पञ्चामृतमथापि वा ॥ ७ ॥
यथेष्टं स्नापयेद्धीमान्नवमन्त्रमनुस्मरन्
पूर्वोक्तेन विधेनैव स्नपनं कारयेत्ततः ॥ ८ ॥
व्योमव्यापि समुच्चार्य तिलवज्राङ्कितं बुधः
शक्तिमन्त्रं विशेषेण भूसुराणां जपेत्ततः ॥ ९ ॥
प्रभूतहविषन्दत्वा ताम्बूलञ्च निवेदयेत्
धूपदीपसमायुक्तमुपचारेण संयुतम् ॥ १० ॥
इत्येवं शिवपूजायां शनिदोषनिकृन्तनम्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ११ ॥
एवं यः कुरुते मर्त्यः सपुण्यां गतिमाप्नुयात्