पूरकर्मविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि पूरकर्मविधिं श्रुणु
आषाढे पूरमेवं स्यादश्वनीपूरमेव वा ॥ १ ॥
सर्वशान्तिकरं श्रेष्ठं सर्वसिद्धिकरं शुभम्
ग्रामरक्षाकरं पुण्यम्मङ्गलैस्सर्वरक्षकम् ॥ २ ॥
नवाहञ्चैव सप्ताहं पञ्चाहन्तु त्रयाहकम्
तद्दिनात्पूर्वरात्रौ तु कारयेदङ्कुरार्पणम् ॥ ३ ॥
नक्षत्रे तु मखे चैव प्रारभेदधिवासनम्
सायं काले प्रकर्तव्यमुक्तालङ्कारसंयुतम् ॥ ४ ॥
स्नापयेत्तु मनोन्मन्या श्वेतवस्त्रेण वेष्टयेत्
सर्वाभरणसम्भूष्यं सर्वगनानुलेपनम् ॥ ५ ॥
सर्वमालां समादाय पूजयेत्परमेश्वरीम्
मण्टपे पावके देशे शाङ्करे वा विशेषतः ॥ ६ ॥
मण्टपस्योत्तरे वापि स्थण्डिलं कारयेत् बुधः
अष्टद्रोणैस्तु शालीनान्तदर्द्धन्तण्डुलैरपि ॥ ७ ॥
तदर्द्धन्तु तिलञ्चैव तस्यार्द्धञ्चैव लाजकम्
स्थण्डिलोपरिसंवेष्ट्य दर्भं पुष्पोपरिन्यसेत् ॥ ८ ॥
आसनं कल्पयेत्तत्र योगासनं समारभेत्
[[६४६]]
तदूर्द्ध्वे गौरीं संस्थाप्य पूजयेत्तु मनोन्मनीम् ॥ ९ ॥
नवशक्त्या तु सम्पूज्य पूजयेत्स्वस्वनामतः
अस्त्रदेवं सुसम्पूज्य वस्त्रेणैव तु वेष्टयेत् ॥ १० ॥
पुष्पमालां समादाय पूजयेत्तु विशेषतः
स्थलिके स्थण्डिले चैव तन्मद्ध्ये तन्तुरक्षकम् ॥ ११ ॥
परिचारकस्य शिरसि न्यस्त्वा हर्म्य प्रदक्षिणम्
पञ्चद्ध्वनि समायुक्तं किङ्किणीरवशोभितम् ॥ १२ ॥
शङ्खद्ध्वनि समायुक्तं तालकाहलमद्दलैः
भेरीवंशसमायुक्तैर्गेयनृत्तसमाकुलैः ॥ १३ ॥
स्तोत्रमङ्गलवाद्यैश्च जयशब्दादिशोभितैः
पणवैर्झल्लरीमोतैरावेष्ट्य सदनं सुधीः ॥ १४ ॥
देवसन्निधिमासाद्य पुण्याहं वाचयेत्क्रमात्
व्रतहोमं समाश्रित्य कौतुकन्तु समर्चयेत् ॥ १५ ॥
समिदाज्य चरून् लाजान् होमयेत्तु विशेषतः
पञ्चब्रह्मषडङ्गैश्चाप्यष्टोत्तरशतं हुनेत् ॥ १६ ॥
गौरीगायत्रिमन्त्रेण पञ्चविंशति होमयेत्
कौतुकं बन्धयेत्पश्चादस्त्रमूर्तिं सुपूजयेत् ॥ १७ ॥
मनोन्मनीं सुसम्पूज्य रक्षासूत्रन्तु कारयेत्
पायसं फलसंयुक्तं मनोन्मन्यास्तु दापयेत् ॥ १८ ॥
अष्टद्रोणैस्तु शालीनान्तदर्द्धैस्तण्डुलैरपि
तदर्द्धन्तु तिलैश्चैव तदर्द्धं लाजमेव च ॥ १९ ॥
निवेदयेत्तु ताम्बूलमारात्रिकन्ददेत्ततः
भसितन्दापयेत्पश्चाद्यूर्ध्वणन्दर्शयेद्धृदा ॥ २० ॥
छत्रचामरदर्शेन पूजयेत्तु मनोन्मनीम्
वर्द्धनीं नवसंस्थाप्य नवशक्त्या तु पूजयेत् ॥ २१ ॥
मुद्गन्तु पञ्चभारं स्यादुत्तमं परिकीर्तितम्
[[६४७]]
त्रिभारम्मद्ध्यमं प्रोक्तं भारात् भारार्द्धं कन्यसम् ॥ २२ ॥
तोयेनैव तु शुद्धेन मुद्गाङ्कुरं प्रजायते
शकलैर्न्नालिकेराणां शर्करा गुलखण्डकैः ॥ २३ ॥
एलाभिर्मिश्रितं कृत्वा कदलीफलसंयुतम्
द्विगुणं लवणं ग्राह्य कल्पयित्वा विधीयते ॥ २४ ॥
अधिवासनमेवोक्तं व्रताचारन्ततश्श्रुणु
द्वितीये दिवसे चैव स्नापयेद्देशिकोत्तमः ॥ २५ ॥
पञ्चगव्येन सम्प्रोक्ष्य आलयेन तु बिम्बके
आत्मार्त्थं विधिवत्पूज्य उपवासं समाचरेत् ॥ २६ ॥
धूपदीपं हृदा दत्वा पूजयेत्तु मनोन्मनीम्
पूर्वरात्रौ तु संस्थाप्य वर्द्धनीं स्थापयेत्क्रमात् ॥ २७ ॥
नववस्त्रैरलङ्कृत्य सर्वगन्धानुलेपनम्
सर्वमाल्यं समादाय सर्वालङ्कारसंयुतम् ॥ २८ ॥
शिवाग्रे स्थण्डिलं कृत्वा षोडश द्रोणमेव व
तण्डुलन्तु तदर्द्धं वा तदर्द्धं वा तिलैरपि ॥ २९ ॥
तदर्द्धं लाजसंयुक्तं विन्यसेद्देशिकोत्तमः
एवं प्रमाणमित्युक्तं कल्पयेत्स्थण्डिलं क्रमात् ॥ ३० ॥
तन्मद्ध्येब्जं समालिख्य तदूर्द्ध्वे वस्त्रवेष्टितम्
तन्मद्ध्ये कदलीपत्रं लवणं पूर्णमेव हि ॥ ३१ ॥
लजपुष्पतिलैर्दर्भैर्विकीर्य समलङ्कृतम्
स्थण्डिले गौरीं विन्यस्य पूजयेद्देशिकोत्तमः ॥ ३२ ॥
पूजयेन्नवशक्तीनान्नवदिक्षु च विन्यसेत्
मनोन्मनीन्तु तन्मद्ध्ये पूर्वाशाभिमुखस्थिताम् ॥ ३३ ॥
पश्चिमद्वारपश्चिम्यान्दक्षिणद्वारदक्षिणे
उत्तरद्वारसौम्यायाः पार्श्वे चैवाष्टशक्तिकाः ॥ ३४ ॥
पूजयेत्तु स्वनामाद्यैर्देशिको होतृभिस्सह
[[६४८]]
गौरी दक्षिणदिग्भागे विघ्नेशं पूजेयेत्क्रमात् ॥ ३५ ॥
वामपार्श्वे तु दुर्गान्तु पूजयेत्तु स्वनामतः
हरिद्राणीं समाश्रित्य प्रस्थं पूरवरं लयम् ॥ ३६ ॥
शिवपूर्णन्तु व्रीहिस्स्यात्पूर्वाग्रे स्थापयेद्गुरुः
शकृच्चूर्णेन संयुक्तान् लवणं पूर्णमेव हि ॥ ३७ ॥
रजनीं स्थापनं कृत्वा पूर्वोक्तविधिना सह
एकपात्रे तु सङ्ग्राह्य दूर्वाक्षतैकपात्रकम् ॥ ३८ ॥
गौरी सन्निधिमासाद्य प्रोक्षयेदस्त्रवारिणा
देवीपादं समादाय मुद्गाङ्कुरसमृद्धिदम् ॥ ३९ ॥
नवभाण्डे तु पात्रं स्यात्पात्रकन्तु नवद्वयम्
तत्पात्रे पूर्णमुद्गं स्यान्नवकं पात्रमुच्यते ॥ ४० ॥
प्रातर्मद्ध्याह्नसायाह्ने व्रताचारं समाचरेत्
हरिद्राणीं समाश्रित्य मृदाप्लावनमाचरेत् ॥ ४१ ॥
ईशानेन तु मन्त्रेण सलिलन्तु विधीयते
तण्डुलन्दापयेत्पश्चात् पुरुषं मन्त्रमुच्चरन् ॥ ४२ ॥
व्रीहिदर्शनमेवोक्तं घोरमन्त्रं समुच्चरन्
पानीयं त्रिः प्रदक्षिण्यं विन्यसेद्देशिकोत्तमः ॥ ४३ ॥
शकृच्चूर्णन्तु पादाभ्यान्नाभौ व्रीहिञ्च विन्यसेत्
रजनीं हृदयेन्यस्य लवणं कण्ठमेव च ॥ ४४ ॥
दूर्वाक्षतौ न्यसेन्मूर्ध्नि व्रताचारं क्रमादिति
शङ्खदुन्दुभिनिर्घोषैः स्तोत्रमङ्गलवाचकैः ॥ ४५ ॥
कन्यकानवकं सप्तभूतं वै त्रिविधं भवेत्
वस्त्रचन्दनपुष्पाद्यैरर्चयेत् कन्यकाः क्रमात् ॥ ४६ ॥
धूपदीपादि नैवेद्यं ताम्बूलन्दापयेत्ततः
यथा शक्त्या सुवर्णानि यावत्कन्यां प्रपूजयेत् ॥ ४७ ॥
कन्यागोदर्शनञ्चैव ब्राह्मणान्स्वस्तिवाचकैः
[[६४९]]
गीतनृत्तसमायुक्तं पूरकर्मविधीयते ॥ ४८ ॥
मण्टपस्य तु तन्मद्ध्ये स्थण्डिलन्तु विधीयते
सर्लमाल्यं समादाय सर्वालङ्कार संयुतम् ॥ ४९ ॥
शिवाग्रे स्थण्डिलं कृत्वा षोडश द्रोणमेव वा
तण्डुलन्तु तदर्द्धं वा कुम्भार्द्धन्तु तिलैरपि ॥ ५० ॥
तदर्द्धं लाजसंयुक्तं विन्यसेद्देशिकोत्तमः
स्नपनं तत्र कुर्वीताप्यष्टोत्तरशतं क्रमात् ॥ ५१ ॥
अथवाप्येकविंशच्च अथवा पञ्चविंशतिः
स्नपनन्देवदेव्योश्च कृत्वा पूजां विशेषतः ॥ ५२ ॥
पायसान्नन्ददेत्पश्चात्ताम्बूलन्दापयेत्ततः
शिवाग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्सितैः ॥ ५३ ॥
तदूर्ध्वे वस्त्रमावेष्ट्य तन्मद्ध्ये लवणं क्षिपेत्
तदूर्ध्वे स्थापयित्वामां नवशक्त्या तु पूजयेत् ॥ ५४ ॥
गौरीदक्षिणदिग्भागे विघ्नेशं पूजयेत्ततः
यष्ट्वादुर्गां वामपार्श्वे हरिद्राणीमथोत्तरे ॥ ५५ ॥
उमाग्रे प्रस्थसम्पूर्णं तण्डुलं दूर्वयान्वितम्
शकृच्चूर्णं व्रीहियुक्तं रजनी लवणन्तथा ॥ ५६ ॥
एकपात्रं गृहीत्वा तु ततो दूर्वाक्षतान्वितम्
गौरी दक्षिणहस्ते तु पानीयं त्रिः प्रदक्षिणम् ॥ ५७ ॥
प्रतण्डुलं प्रस्थपूर्णं गन्धयुक् दापयेत्क्रमात्
नववस्त्रं गृहीत्वा तु घृतयुक्पायसं हविः ॥ ५८ ॥
हरिद्राणीं समाश्रित्य तण्डुलानान्तु दर्शनम्
पद्भ्यान्न्यस्त्वा शकृत् चूर्णं व्रीहीणां नाभिदेशके ॥ ५९ ॥
रजनीं हृदयेन्यस्य लवणङ्गलदेशके
उत्तमाङ्गे क्षतं दूर्वामनोन्मन्यास्तु दापयेत् ॥ ६० ॥
देशिकं पूजयेदन्ते वस्त्रहेमाङ्गुलीयकैः
[[६५०]]
भक्तानां परिचाराणां यथा शक्त्या तु दापयेत् ॥ ६१ ॥
लवणं मुत्गदानञ्च ग्रहं प्रतिग्रहं प्रति
सर्वेषान्दापयित्वाथ धनधान्य समृद्धिदम् ॥ ६२ ॥
राजराष्ट्रविवृद्धिञ्च सर्वशान्तिकरं शुभम्
सर्वपापात्प्रमुच्यन्ते सत्फलैकैकमङ्गलम् ॥ ६३ ॥
आषाढपूरकर्म स्यादाश्वयुङ्मासिवाथवा
सर्वमङ्गलकार्यार्त्थं सर्वमङ्गलरक्षकम् ॥ ६४ ॥
पूरकर्म तु संयोज्य सत्फलं सर्वसाधनम् ॥ ६५ ॥
गौरी श्रुणु त्वहं वक्ष्ये चाषाढे पूरकर्मकम्
आयुरारोग्य जयदं पुत्रपौत्रविवर्द्धनम् ॥ १ ॥
सर्वपापहरं पुण्यं सर्वसिद्धिकरं शुभम्
तद्दिनात्पूर्वरात्रे तु चाधिवासनमारभेत् ॥ २ ॥
तदर्द्धं मद्ध्यमं प्रोक्तमधमं द्रोणसंयुतम्
नवपात्रे क्षिपेत्तत्र गन्धपुष्पादिनार्चयेत् ॥ ३ ॥
प्रभाते विमले स्नाप्य देव्यै विज्ञाप्यदेशिकः
रङ्गे वा शिबिकायां वा रथे वा रोप्य भक्तितः ॥ ४ ॥
पञ्च द्ध्वनिसमायुक्तं किङ्किणीरवशोभितम्
अङ्कुरं मुद्गसंयुक्तं लवणञ्च प्रदापयेत् ॥ ५ ॥
ग्रामप्रदक्षिणं कृत्वा नदीं गच्छेत्समुद्रगाम्
शङ्खद्ध्वनिसमायुक्तैः तालकाहलमद्दलैः ॥ ६ ॥
भेरीवंशसमायुक्तैर्गेयनृत्तसमाकुलैः
स्तोत्रमङ्गलवाद्यैश्च जयशब्दादिशोभितैः ॥ ७ ॥
तीरे समतलं कुर्यात्प्रपां कृत्वातिसुन्दराम्
तस्य मद्ध्ये स्थितान्देवीं वामाद्याभिस्समर्चयेत् ॥ ८ ॥
वेद्यास्तु पूर्वदिक्भागे स्थण्डिलं कारयेद्बुधः
[[६५१]]
अष्टद्रोणप्रमाणैश्च शालिभिः पद्ममालिखेत् ॥ ९ ॥
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
विंशकं पञ्चकं श्रेष्ठं न्नवपञ्चकवा पुनः ॥ १० ॥
प्रत्येकं शुद्धवस्त्रेण वेष्टयेत्तु हृदा पुनः
पुण्याहं वाचयेत्तत्र प्रोक्षयेत्कलशानपि ॥ ११ ॥
गन्धपुष्पादिनाभ्यर्च्य नवशक्त्याधिदेवताः
गौरी गायत्रिमन्त्रेण स्नापयेद्देशिकोत्तमः ॥ १२ ॥
लाजचूर्णं विसृज्याथ अस्त्रमन्त्रेण बुद्धिमान्
रजनीन्दापयेन्नार्यास्ततस्नानं सहैव तु ॥ १३ ॥
संवत्सरकृतं पापं स्नानेनैव विनश्यति
राजराष्ट्रविवर्द्धेन भ्रातृमातृविवर्द्धनम् ॥ १४ ॥
गन्धपुष्पादिनाभ्यर्च्य कुर्यात्तत्राभिषेचनम्
आचार्यं पूजयेतव्यं वस्त्रहोमाङ्गुलीयकैः ॥ १५ ॥
साभ्यानां परिवाराणां वस्त्रादीनि प्रदापयेत्
प्रविशेदालयं पश्चात्स्वस्तिसूक्तसमन्वितम् ॥ १६ ॥
प्रभूतहविषन्दत्वा ताम्बूलञ्च निवेदयेत् ॥ १७ ॥
इति पूरकर्मविधिपटलस्त्रयोविंशत्युत्तरशततमः