पवित्रारोहणविधिपटलप्रारम्भः
पवित्रारोहणं वक्ष्ये भुक्तिमुक्तिप्रदं शुभम्
[[६३९]]
सर्वलोकहितं पुण्यं सर्वसम्पत्करं परम् ॥ १ ॥
पूजासङ्कर्षणं चैव विश्वे कृत्रिमनाशनम्
निर्माल्यसङ्करं यत्तत्पूजायां वत्सरे कृतम् ॥ २ ॥
तद्दोषशमनार्थं तु पवित्रारोहणं कुरु
परमाणुसमं तूलं यावत्सूत्रे तु कल्पितम् ॥ ३ ॥
तावद्वर्षसहस्राणि शिवलोके महीयते
आषाढादिचतुर्मासा शस्ता अन्यांस्तु वर्जयेत् ॥ ४ ॥
कर्तव्यं पक्षयोः शुक्लकृष्णयोरुभयोरपि
चतुर्दश्यामथाष्टम्यामारोहे तु पवित्रकम् ॥ ५ ॥
द्विजकन्याकृतं सूत्रमुत्तमं त्विति कीर्तितम्
मध्यमं नृपकन्यातः कन्यसं शूद्रया कृतम् ॥ ६ ॥
सूत्रमूर्णमयं वाथ सूत्रं कार्पाससम्भवम्
यथासम्भवसूत्रं वा द्रव्यात्कृतमथापि वा ॥ ७ ॥
समं श्लक्ष्णं दृढं दीप्तं निष्केशं तृणवर्जितम्
तत्सूत्रं त्रिगुणीकृत्य तेनैव त्रिगुणीकृतम् ॥ ८ ॥
तत्सूत्रं चैव सूत्रं तु कुर्यात्तेन पवित्रकम्
प्रोक्षयेद्बीजमुख्येन शोधयेत्सूत्रमादरात् ॥ ९ ॥
क्षालयेत्कवचेनैव कम्बलं वर्मणा कुरु
अष्टाविंशतिसूत्रात्तु दशवृद्ध्या शताष्टकम् ॥ १० ॥
पवित्रं नवधा प्रोक्तम् अधमादित्रयं त्रयम्
तत्पवित्रेण तत्कार्यं ग्रन्थयस्तन्तुसङ्ख्यया ॥ ११ ॥
दृढं बद्ध्वा पवित्रं तु तेष्वन्तरसमस्मृताः
ग्रन्थिं कुर्यात्तथा वन्ये प्राकारेणैव देशिकः ॥ १२ ॥
एकाङ्गुलप्रमाणेन अङ्गुलत्रयमथापि वा
अथ नास्यङ्गुलेनैव ग्रन्थिं कुर्यात्तु देशिकः ॥ १३ ॥
ग्रन्थयः सक्तसंयुक्तं येन यत्नेन तन्तुना
[[६४०]]
ग्रन्थ्यग्रे वलये दात्रि सारोक्तेनैव तन्तुना ॥ १४ ॥
बन्धयेदन्तराले तु प्रतिग्रन्थि यथाक्रमम्
ग्रन्थीनामधिदेवस्य ब्रह्मा विष्णु महेश्वरः ॥ १५ ॥
यज्ञसूत्रं शिरोमाला बाहुमालाविशेषतः
मकुटं लम्बमानं च लिङ्गे वा कौतुकेऽपि वा ॥ १६ ॥
सपीठलिङ्गमानेन लम्बमालां तु कारयेत्
विष्कम्भद्विगुणाधिक्यं बाहुमाला च तत्समम् ॥ १७ ॥
लिङ्गनाभिप्रमाणेन शिरोमालां तु कारयेत्
एकं तु परिवाराणां प्रासादस्य त्रिसूत्रकम् ॥ १८ ॥
शतार्धं सूत्रितं सूत्रं नृपाणां परिकल्पयेत्
पञ्चविंशतिसूत्रैश्च कृतं तत्स्थापकाय च ॥ १९ ॥
परिचारकभक्तानां रन्ध्रसूत्रेण सूत्रितम्
एवमापाद्य गन्धाख्यपवित्राणि विशेषतः ॥ २० ॥
तथा शुद्धपवित्राणि सङ्गृह्येव पृथक्पृथक्
निर्दिष्टदिवसात्पूर्वरात्रौ कुर्वधिवासनम् ॥ २१ ॥
हर्म्याग्रे मण्टपं कुर्यात् दशहस्ताष्टहस्तकम्
विकारस्तम्भसंयुक्तं चतुर्द्वारसमायुतम् ॥ २२ ॥
तन्मध्ये वेदिकां कुर्यात्तत्त्रिभागैकभागतः
विस्तारभ्य चतुर्भागम् उत्सेधं तु विधीयते ॥ २३ ॥
वेद्या मूले तु परितश्चोपवेदिं प्रकल्पयेत्
युगाङ्गुलप्रविस्तारं तदर्धं चोच्छ्रयं भवेत् ॥ २४ ॥
चतुर्दिक्षु च कुण्डानि तुर्यश्रं पद्ममेव वा
वृत्तकुण्डं तथैशान्ये कारयेद्विधिपूर्वकम् ॥ २५ ॥
तोरणैश्च ध्वजैश्चैव दर्भमालाङ्कुरैस्तथा
मङ्गलाष्टकसंयुक्तं स्तम्भवेष्टनसंयुतम् ॥ २६ ॥
गोमयालेपनं कृत्वा शालिपिष्टेन चिन्तयेत्
[[६४१]]
प्रोक्षयेत्पञ्चगव्येन मण्टपं कुशवारिणा ॥ २७ ॥
स्थण्डिलं कारयेद्विद्वान्दशद्रोणैश्च शालिभिः
तण्डुलैः समतलं कृत्य तिलदर्भैः सुपुष्पकैः ॥ २८ ॥
तन्मध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम्
शिवकुम्भं न्यसेन्मध्ये अस्त्रेशमस्त्रवर्धनीम् ॥ २९ ॥
कुम्भाग्रे मण्डलं चैव विधिवत्पूजयेद्गुरुः
गन्धादिकं समभ्यर्च्य पाद्यं वेद्युपरि न्यसेत् ॥ ३० ॥
शातकुम्भमयं वाथ ताम्रं वा कांस्यमेव वा ॥ ३१ ॥
तन्मद्ध्ये विन्यसेत्सूत्रं नववस्त्रेण वेष्टयेत्
अभ्यर्च्य गन्धपुष्पाद्यैर्हृदयेनैव देशिकः ॥ ३३ ॥
दर्शयेत्सुरभी मुद्रां नालमुद्रां तथैव च
ईशाने तु पवित्रञ्च तैलामलकपूर्वके ॥ ३४ ॥
दण्डाक्षमालाशय्यादि भिक्षापात्राणि दक्षिणे
शलाकां केशशोधञ्च कर्त्रिकां नखशोधनीम् ॥ ३५ ॥
उत्तरे विन्न्यसेद्धीमान् पश्चिमे तु विशेषतः
ताम्बूलं योगपट्टीञ्च चामरं गजमलिकाम् ॥ ३६ ॥
ईशानादीनि सद्यान्तं तत्तन्मन्त्रेण मन्त्रयेत्
पादुकान्दर्पणं वस्त्रं पञ्चमृत्पञ्चगव्यकैः ॥ ३७ ॥
छत्रं मृगा जनञ्चैव दन्तकाष्ठन्तथैव च
इन्द्रादीशानपर्यन्तं वेद्यां क्रमेण विन्न्यसेत् ॥ ३८ ॥
नैर्ऋते त्वञ्जनन्न्यस्त्वा भस्म चैशानगोचरे
न्यसेद्दिक्पालबीजैश्च प्रत्येकं वस्त्रवेष्टितम् ॥ ३९ ॥
गन्धपुष्पादिभिः पूज्य हृदयेनैव देशिकः
न्यस्त्वा शुद्धाख्यमेवन्तु मूलेनैव शतं हुनेत् ॥ ४० ॥
नित्यकर्मसमाप्ते तु नैमित्तिकमथाचरेत्
भक्त्यावित्तानुसारेण स्नपनं कारयेत्प्रभोः ॥ ४१ ॥
[[६४२]]
अर्चयेत् गन्धपुष्पाद्यैरर्चनोक्तं विशेषतः
पात्रे तु गृह्य तत् ग्रन्थिं गन्धपुष्पैस्समायुतम् ॥ ४२ ॥
प्रविश्य गर्भगेहन्तु प्रोक्षयेल्लिङ्गमस्त्रतः
पूजापर्युषितं सर्वमपनीय हृदा बुधः ॥ ४३ ॥
प्रोक्षयेत्पुरुषेनैव ततो गन्धपवित्रकम्
ईशानेन तु मन्त्रेण रोपयेत्तत्पवित्रकम् ॥ ४४ ॥
पायसान्नं न्यसेद्धीमान् ताम्बूलञ्च निवेदयेत्
अपूपान्पृथुकान्लाजान्गुलखण्डेक्षुखण्डकान् ॥ ४५ ॥
पनसाम्रकदल्यादि दापयेद्धृदयेन तु
पुनराचमनन्दत्वा ताम्बूलन्तु निवेदयेत् ॥ ४६ ॥
सौवर्णमूर्णसूत्रं वा सूत्रं कार्पासकन्तु वा
बन्धयेद्धृदयेनैव लिङ्गमद्ध्ये तु देशिकः ॥ ४७ ॥
हृदयेनैव मन्त्रेण पवित्रन्धारयेत् गुरुः
शिरो मनुमनुस्मृत्य मूर्तिपानां प्रदापयेत् ॥ ४८ ॥
राज्ञो वाथ शिवस्याथ दापयेत्तु पवित्रकम्
प्रतिमानान्तु सर्वेषां ददेत् गन्धपवित्रकम् ॥ ४९ ॥
प्राकाराभ्यन्तरे देवान् परिवारान् विशेषतः
गन्धपुष्पादिनाभ्यर्च्च्य पवित्रन्दापयेद्धृदा ॥ ५० ॥
मन्दिरे गोपुरे चैव रोपयेत्तु पवित्रकम्
सर्वेषां परिवाराणां दिक्पालानाञ्च दापयेत् ॥ ५१ ॥
एवं कृत्वा विशेषेण पश्चाद्धोमं समाचरेत्
नववस्त्रोष्णीषधरः पञ्चाङ्गभूषणैर्युतः ॥ ५२ ॥
शुक्लगन्धानुलिप्ताङ्गश्शुक्लमाल्यैरलङ्कृतः
प्रागुक्तलक्षणोपेतो देशिको मूर्तिपैस्सह ॥ ५३ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
पालाशोदुम्बराश्वत्थ वटान् पूर्वादिषु क्रमात् ॥ ५४ ॥
[[६४३]]
प्रधाना हि पलाशास्तु समिधस्सम्प्रकीर्तिताः
आज्यान्नसक्तुलाजांश्च तिलसर्षपकांस्तथा ॥ ५५ ॥
हृदयाद्यस्त्रपर्यन्तं मन्त्रैश्च जुहुयात्क्रमात्
शतमर्द्धन्तदर्द्धं वा प्रत्येकन्तु समाचरेत् ॥ ५६ ॥
मूलेनैव तु मन्त्रेण घृतेनाष्टशतं हुनेत्
पञ्चब्रह्मषडङ्गैश्च प्रत्येकञ्चाष्टसङ्ख्यया ॥ ५७ ॥
द्रव्यान्ते व्याहृतिं हुत्वा जयादिं जुहुयात्ततः
नृत्तगेयैश्च वाद्यैश्च स्तोत्रैर्मन्त्रजपैस्तथा ॥ ५८ ॥
रात्रिशेषं व्यपोह्याथ प्रभाते विमले गुरुः
कृतस्नानस्तु विधिना सकलीकरणञ्चरेत् ॥ ५९ ॥
गुरुं सम्पूज्य वस्त्रैश्च यज्ञपुष्पाङ्गुलीयकैः
दषिणान्दापयेत्तस्य पञ्चनिष्कन्तु कन्यसम् ॥ ६० ॥
द्विगुणं मद्ध्यमं प्रोक्तं त्रिगुणञ्चोत्तमं भवेत्
पूर्वोक्तविधिना चैव मूर्तिपादीन् प्रपूजयेत् ॥ ६१ ॥
पूर्णाहुतिन्तु शिरसा हुत्वाग्निन्तु विसर्जयेत्
शङ्खभेरीनिनादैश्च नृत्तगेयैः समाकुलम् ॥ ६२ ॥
ततो मुहूर्ते सम्प्राप्ते सूत्रारोहणमारभेत्
वेद्यां पवित्रमादाय शिरसाधार्य देशिकः ॥ ६३ ॥
शेषद्रव्याणि सर्वाणि मूर्तिपैः परिचारकैः
धारयित्वा क्रमेणैव हर्म्यं कृत्वा प्रदक्षिणम् ॥ ६४ ॥
व्रताङ्गमेवं कर्तव्यम् उक्तमार्गेण देशिकः
ततो गर्भगृहं गत्वा स्थण्डिलोर्ध्वे तु विन्न्यसेत् ॥ ६५ ॥
त्यक्त्वा पर्युषितं सूत्रं चण्डेशाय प्रदापयेत्
लिङ्गशुद्धिं ततः कृत्वा आसनं कल्पयेत्ततः ॥ ६६ ॥
आवाह्य देवदेवेशं पाद्यादीनि प्रदापयेत्
आसनन्दापयेद्धीमान् हृदयेन मृगाजिनम् ॥ ६७ ॥
[[६४४]]
सद्येन पादुकान्दत्वा लोहेन दारुजेन वा
ईशानेन तु मन्त्रेण छत्रं वै दापयेत्ततः ॥ ६८ ॥
दन्तकाष्ठं ददेद्धीमान् आदर्शानान्तु वर्मणा
अघोरेण तु मन्त्रेण त्वञ्जनन्दापयेत्प्रभोः ॥ ६९ ॥
अन्ते तु दापयेद्भस्ममन्त्रेण नयनेन च
पञ्चमृत्पञ्चगव्यैश्च स्नापयेद्बीजमुख्यकैः ॥ ७० ॥
अन्यानि सर्वकार्याणि चार्चनोक्तं समाचरेत्
आरोपयेद्धृदामन्त्री शुद्धाख्यन्तु पवित्रकम् ॥ ७१ ॥
मुकुलीं पद्ममुद्राञ्च पञ्चवक्त्रं प्रदर्शयेत्
अस्त्रेणैव तु मन्त्रेण दिग्बलञ्च ततः कुरु ॥ ७२ ॥
प्रागुक्तानि पवित्राणि तेभ्यस्तेभ्यः प्रदापयेत्
प्रभूतञ्च हविर्दत्वा ताम्बूलन्तु निवेदयेत् ॥ ७३ ॥
आचण्डालान्तरन्नादींस्तस्मिन्नहनि दापयेत्
द्विमासञ्चैकमासं वा पक्षं वाथ विशेषतः ॥ ७४ ॥
पञ्चाहं त्रयहं वाथ एकाहं वा पवित्रकम्
पूजान्ते प्रोक्ष्य तु हृदा रोपयेत्तत्पवित्रकम् ॥ ७५ ॥
यावत्पवित्रमावर्ज्य तावत्कालं व्रतञ्चरेत्
अक्षारलवणाशी स्यात्सदा वै निशि न स्वपेत् ॥ ७६ ॥
ग्रामान्तरं न गन्तव्यं न खरोमे न छेदयेत्
स्नात्वा प्रतिदिनं कर्ता व्रतमेवं समाचरेत् ॥ ७७ ॥
अर्त्थार्थी ह्येवमेवं स्यात् गुरुर्होमेन संयुतः
आलये वा गृहे वापि कारयेद्विधिपूर्वकम् ॥ ७८ ॥
आत्मार्त्थं लिङ्गपूजा चेत् यत्र लिङ्गं प्रकल्पयेत्
एकहस्तप्रमाणेन रेणुरज्जुं समारभेत् ॥ ७९ ॥
तत्राकारं शिरः कुर्यात् लिङ्गं वै स्थापयेत्क्रमात्
दुकूलपट्टवेदाङ्गैश्चित्रवस्त्रैश्च वेष्टयेत् ॥ ८० ॥
[[६४५]]
शेषं पूर्वोक्तवत्कुर्यात् गुरुणा सह पूजनम्
क्षुरिका बीजमुख्यैश्च पवित्राण्येव रोहयेत् ॥ ८१ ॥
स्नपनं कारयेदन्ते यथा वित्तानुसारतः
यागोपकरणं सर्वमाचार्याय प्रदापयेत् ॥ ८२ ॥
अर्चनोक्तं समभ्यर्च्य प्रभूतन्तु हविर्ददेत्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ८३ ॥
इति पवित्रारोहणविधिपटलः द्वाविंशत्युत्तरशततमः