आर्द्राव्रतविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि चार्द्राव्रतसुलक्षणम्
मार्गशीर्षकमासेऽस्मिन्नार्द्रायां व्रतमाचरेत् ॥ १ ॥
आर्द्रायां पर्वसंयुक्तमयुक्तं वाथवा यदि
विशेषात् केवलाप्यार्द्रा चोत्तमेति प्रचक्षते ॥ २ ॥
आर्द्रायामष्टनाडी स्यादन्यर्क्षे व्रतमाचरेत्
यद्यूनमष्टनाडीभिः पूर्वाह्ने व्रतमाचरेत् ॥ ३ ॥
यदृक्षमष्टनाड्यूनं तत्कृत्यं निष्फलं भवेत्
नालाभो वाथ सप्ताहे पञ्चाहेङ्कुरमारभेत् ॥ ४ ॥
मृगशीर्षकनक्षत्रे त्वधिवासनमारभेत्
सायाह्ने तु प्रकर्तव्यं सर्वालङ्कारसंयुतम् ॥ ५ ॥
[[६३६]]
गौरीन्तु स्थापयेत्पश्चात् श्वेतवस्त्रेण वेष्टयेत्
सर्वैराभरणैर्भूष्य सर्वैः पुष्पैश्च पूजयेत् ॥ ६ ॥
मण्टपे शुद्धिसंयुक्ते स्थण्डिलं कारयेत्क्रमात्
तन्मद्ध्ये स्थापयेत् गौरीं कौतुकं बन्धनाय च ॥ ७ ॥
सकुण्डलस्मितः स्थित्वा तन्मद्ध्ये तन्तुसूत्रकम्
नवाम्बरधरश्शुद्धः परिधानोत्तरीयकः ॥ ८ ॥
परिचारक उद्धृत्य प्राकारे समलङ्कृते
प्रदक्षिणन्ततः कुर्यान्मङ्गलैस्वस्तिवाचकैः ॥ ९ ॥
धूपदीपौ हृदा दत्वा पुण्याहं वाचयेत्ततः
शङ्खदुन्दुभिनिर्घोषैस्तोत्रमङ्गलवाचकैः ॥ १० ॥
वेदद्ध्वनिसमायुक्तं नृत्तगेय समन्वितम्
त्र्यम्बकेन मन्त्रेण कौतुकं बन्धयेत्ततः ॥ ११ ॥
रक्षासूत्रन्तु विप्रेन्द्रैराशिषो वाचयेत्ततः
नैवेद्यन्दापयेत्पश्चादपूपन्तु निवेदयेत् ॥ १२ ॥
धूपदीपौ हृदा दत्वा ताम्बूलन्तु निवेदयेत्
पश्चान्नटोत्सवं कुर्यात् पूर्वोक्तविधिनाधुना ॥ १३ ॥
पूर्ववत्कौतुकं कृत्वा देशिकस्तु विचक्षणः
अपरे दिवसे पश्चान्नित्यपूजां समाचरेत् ॥ १४ ॥
यमादूर्द्ध्वे शिखान्देवीमङ्गुलार्द्धं यथा क्रमम्
नववस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ॥ १५ ॥
सर्वैर्माल्यैस्समायुक्तं पूजयेत्परमेश्वरम्
शिवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणेन शालिभिः ॥ १६ ॥
तदूर्द्ध्वे वस्त्रमावेष्ट्य तन्मद्ध्ये लवणं क्षिपेत्
तन्मद्ध्ये स्थापितां देवीन्नवशक्तीश्च पूजयेत् ॥ १७ ॥
गौरीन्दक्षिणभागे तु विघ्नेशं पूजयेत्ततः
वामपार्श्वे तथा दुर्गां पूजयेत्तु विशेषतः ॥ १८ ॥
[[६३७]]
अइमपाणिं तथा कुर्यादुमासन्निधिसंस्थितम्
पिष्टसूत्रैरलङ्कृत्य वेदिं सर्वत्र वेष्टयेत् ॥ १९ ॥
पात्रमग्रे तु संस्थाप्य प्रथतण्डुलपूरितम्
शकत् चूर्णसमायुक्तं रजनीं लवणं तथा ॥ २० ॥
तिलसङ्गृह्य संयुज्यात्प्रत्येकं प्रस्थमानतः
एकपात्रे गृहीत्वा तु सदूर्वाक्षतसंयुतम् ॥ २१ ॥
गौरीं दक्षिणहस्ताब्जे पानीयं त्रिः प्रदक्षिणम्
प्रस्थतण्डुलपूर्णं तु दापयेद्देशिकोत्तमः ॥ २२ ॥
नवपात्रं गृहीत्वा तु पायसान्नं समृद्धिदम्
अपूपं कदलीपात्रे उमया सन्निधौ क्षिपेत् ॥ २३ ॥
पुण्याहं वाचयित्वा तु चार्द्रायां व्रतमाचरेत्
उमासूक्तेन मन्त्रेण तत्काले ब्राह्मणो जपेत् ॥ २४ ॥
देवी करेण सङ्गृह्य पानीयं दापयेद्गुरुः
सुमुहूर्ते सुलग्ने च देव्युत्सवमथाचरेत् ॥ २५ ॥
अश्मानं शिशुमागृह्य तण्डुलादर्शनात्परम्
सकृच्चूर्णं तु पादाय व्रीहीं वानभिदेशके ॥ २६ ॥
रजनीं हृदये भागे प्रवणं कण्ठदेशके
तिलं न्यस्य शिखायां च सर्वद्रव्यैः समक्रमात् ॥ २७ ॥
दूर्वाक्षतस्तु मूर्ध्नि स्यादर्चयेत्तु मनोन्मनीम्
नवशक्तेस्तु यत्पूज्यमपूपं पायसान्नकम् ॥ २८ ॥
तद्देवस्य निवेद्यं स्यात्सर्वसस्यफलप्रदम्
ताम्बूलं दापयेत्पश्चात् मुखवाससमन्वितम् ॥ २९ ॥
धूपदीपौ हृदा दत्वा नीराजनसमन्वितम्
दर्पणं दर्शयेत्तत्र चामरव्यजनं तथा ॥ ३० ॥
ऋग्यजुस्सामवेदाश्च सर्पादिस्तोत्रसूत्रकम्
शुद्धनृत्तं समारभ्य गेयवाद्यैः समायुतम् ॥ ३१ ॥
[[६३८]]
गोदर्शनमथाचार्यकन्यामालोकयेत्तदा
आचार्यं पूजयेत्तत्र ब्राह्मणान्भोजयेत्ततः ॥ ३२ ॥
पायसान्नं तथा कृत्वा मङ्गलीनां तु दापयेत्
प्राकारे तु प्रदक्षिण्यामालये तु स्थितं भवेत् ॥ ३३ ॥
आर्द्रायां रुद्रनक्षत्रे महास्नापनमाचरेत्
मध्याह्ना परमं कुर्यात् नृत्तेशस्योत्सवं ततः ॥ ३४ ॥
महास्नपनमारभ्य अष्टोत्तरशतं हुनेत्
होमान्ते स्नपनं कुर्यात् नृत्तमूर्तिं सुपूजयेत् ॥ ३५ ॥
वस्त्रेण वेष्टयेत्कृत्वा सर्वाभरणभूषितम्
सर्वपुष्पैरलङ्कृत्य सर्वगन्धान्प्रदापयेत् ॥ ३६ ॥
महानैवेद्यसंयुक्तमापो वाचमनीयकम्
विशुद्धाशुद्धवर्धन्यैश्शुद्धेयु परिचारकाः ॥ ३७ ॥
शुभं षोडशभिर्देव्या सर्वेभ्यो देशिकोत्तमः
श्रावयेच्चतुरो वेदान् ससूत्रान्सपुराणकान् ॥ ३८ ॥
गेयवाद्यादिनृत्ताद्यैर्घोषयेद्देवशम्भुना
हस्तमावरतं कृत्वा ग्रामं याने प्रदक्षिणम् ॥ ३९ ॥
मङ्गल्यैः स्वस्तिवाचैश्च वाद्यघोषैः पृथग्विधैः
प्रदक्षिणं ततः कुर्यात्सभायाश्चामया स्थितम् ॥ ४० ॥
सर्वसिद्धिं च नानां च सर्वरक्षां च सादयेत्
वस्त्रहेमाङ्गुलीयैश्च देशिकः सम्प्रपूजयेत् ॥ ४१ ॥
एवं सङ्क्षेपतः प्रोक्तम् आर्द्राव्रतविधिक्रमम्
कार्तिकप्रश्नकार्यार्थं शम्भुना वक्ष्यते क्रमात् ॥ ४२ ॥
इति कारणे प्रतिष्ठातन्त्रे आर्द्राव्रतविधिः पटलः