धनुर्मासपूजा-विधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि धनुर्मासार्च्चनं शुभम्
मकराद्यन्तु षाण्मासं देवानान्तु दिवा स्मृतः ॥ १ ॥
कर्क्कटाद्यन्तु षाण्मासं देवरात्रिरिति स्मृतः
मासैकं पञ्चनाडी स्यात् षाण्मासञ्चैव ज्येष्ठके ॥ २ ॥
आषाढं पञ्चनाडी स्यात् षाण्मासं मार्गशीर्षके
कोदण्डस्थे सवितरि प्रत्यूषे च शिवार्च्चनम् ॥ ३ ॥
पञ्चविंशत्युषः कालमुत्तमन्तु विधीयते
सप्तविंशत्युषः कालमधमन्तु विधियते ॥ ४ ॥
[[६३५]]
उषः पूजा प्रकर्तव्या धनुर्मासे विशेषतः
अर्द्धरात्रात् परे काले जलसङ्ग्रहणं मतम् ॥ ५ ॥
पुष्पसङ्ग्रहणं विप्र पूर्वेद्युरह उच्यते
नीलोत्पलञ्च कमलन्तुलसीबिल्वपत्रकम् ॥ ६ ॥
एकाहोषितपुष्पाणि नदोषन्तैस्सुपूजयेत्
यस्मिन्दिने प्रभाते च सायं मद्ध्यन्दिने रविः ॥ ७ ॥
चापसङ्क्रमणं कुर्यात् तद्दिनाद्यैस्सुरार्च्चयेत्
रविसङ्क्रमणं रात्रावपरे सम्प्रपूजयेत् ॥ ८ ॥
उषः काले धनुर्मासि स्वभक्त्याचार्च्चयेत् शिवम्
मुद्गान्नं घृतसंयुक्तं दधिश्रृङ्गीफलैर्युतम् ॥ ९ ॥
सहस्रशाखासंयुक्तं दिने दिने विशेषतः
सहस्रवर्षकीपूजा दिनमेकेन लभ्यते ॥ १० ॥
पूजान्ते बलिदानं स्यात्पूर्वोक्तविधिमार्गतः
इति धनुर्मासपूजाविधिपटलत्रयोदशोत्तरशततमः