११२ कृत्तिकादीपलक्षणविधिपटलः

कृत्तिकादीपलक्षणविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण कृत्तिकादीपलक्षणम्
आदित्ये गलिते चाग्नि नक्षत्रे च हरिद्रके ॥ १ ॥

शिवाय शिवपूजान्तु कारयेत्तु विशेषतः

[[६२३]]

तद्दिनस्यात्र पूर्वे तु अङ्कुराण्यर्प्पयेत्ततः ॥ २ ॥

तद्रक्षपूर्वरात्रे तु दीपञ्चैवाधिवासयेत्
चम्पकं नालिकेरं वा तालं वा खादिरन्तु वा ॥ ३ ॥

तिलकं वार्जुनं वापि दीपदण्डं विधीयते
प्रासादस्य समन्दीर्घमुक्षस्थलसमन्तु वा ॥ ४ ॥

ग्रीवान्तं वा कपोतान्तं महातालिस्तलन्तु वा
दीपस्तम्भं परिग्राह्य सर्वलक्षणसंयुतम् ॥ ५ ॥

हर्म्याग्रे वृषपृष्ठं वा पीठबाह्ये तथाग्रके
मद्ध्यमा मद्ध्यहारायां स्थापये दीपलक्षणम् ॥ ६ ॥

पञ्चतालप्रमाणेन खानयेत्पृथिवीन्ततः
वेदाङ्गुलाधिकन्तारदण्डविस्तारमुच्यते ॥ ७ ॥

दीपकीलानि दण्डे तु योजयेच्चक्रवत्क्रमात्
सहस्रदीपसंयुक्तन्तस्यार्द्धं युक्तमेव वा ॥ ८ ॥

शतदीपायुतं वापि दण्डमूलाधवाग्रतः
स्थापयेद्दीपदण्डन्तु तन्मूले वेदिकां कुरु ॥ ९ ॥

त्रिकरञ्चोत्तमं विद्धि मद्ध्यमं द्विकरं भवेत्
अधमञ्चैकहस्तं वा विस्तारं सम्प्रकीर्तितम् ॥ १० ॥

हस्तमात्रसमुत्सेधं कन्न्यसञ्च विधीयते
षडङ्गुलस्य वृद्ध्या तु मद्ध्यमस्योत्तमस्य तु ॥ ११ ॥

मूलचक्रक्रमारभ्य यावच्चक्रान्तकं यथा
पूर्वोक्तदीपसंयुक्तं तथा दीपन्तु दण्डकम् ॥ १२ ॥

घटिकां बन्धयेद्यत्र वृत्तावृत्तं यथा तथा
पूर्वे वा दक्षिणे वापि यन्त्रद्वारं प्रकल्पयेत् ॥ १३ ॥

एकहस्तं द्विहस्तं वा कल्पयेत् द्वारमत्र तु
वेदकीलन्तु दण्डाग्रे न्यस्त्वा हस्तप्रमाणतः ॥ १४ ॥

दीपदण्डस्य परितः कोणेषु च चतुर्ष्वपि

[[६२४]]

पञ्चहस्तप्रमाणेन कटं वापि प्रकल्पयेत् ॥ १५ ॥

गोमयालेपनं कृत्वा पञ्चचूर्णैरलङ्कृतम्
तरङ्गं पटमावेष्ट्य दर्भमालासमावृतम् ॥ १६ ॥

युगतोरणसंयुक्तं मण्टपं प्रतिमण्टपम्
उद्वास्य शिल्पिनं पश्चात् गोमयेनोपलेपयेत् ॥ १७ ॥

शिवाग्रे स्थण्डिलं कृत्वा निर्दोषैस्सिकतैस्सितैः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ १८ ॥

पलाशसमिधश्चैव सद्यमन्त्रेण होमयेत्
आज्यं मूलेन हुत्वाथ चरुञ्चाङ्गेन होमयेत् ॥ १९ ॥

कार्पासबीजं शिखया क्षीरन्तु शिखया हुनेत्
अग्नेस्तु बीजमन्त्रेण घृतेन जुहुयाच्छतम् ॥ २० ॥

दीपस्थालीन्नवादाय प्रस्थाज्येन प्रपूरितान्
कनिष्ठाङ्गुलिपरीणाहवर्तिभिश्च समायुता ॥ २१ ॥

कपिलाघृतेन दीपन्तु तद्वह्नौ रोपयेद्धृदा
मण्टलस्यैशदिग्भागे स्थण्डिलं शालिभिः कुरु ॥ २२ ॥

तस्योर्ध्वे नलिनं लिख्य साष्टपत्रं सकर्णिकम्
दर्भैः पुष्पैः परिस्तीर्य प्रोक्षयेत्पुरुषेण तु ॥ २३ ॥

तन्मद्ध्ये नवदीपानि मद्ध्यादीशान्तकं ततः
संस्थाप्य गन्धपुष्पाद्यैर्नवशक्तीस्सुपूजयेत् ॥ २४ ॥

ततो जयादिहुत्वाथ होमशेषं समापयेत्
कौतुकं बन्धयेद्दण्डे पूजयेद्धृदयेन तु ॥ २५ ॥

मद्ध्यदीपे समारोप्य दीपन्तु तरुणाख्यकम्
दीपदण्डञ्च सम्पूज्य गन्धपुष्पादिभिर्युतम् ॥ २६ ॥

तस्योर्ध्वे तु न्यसेद्दीपं तरुणाख्यं विशेषतः
अपरे दिवसे धीमान् दीपारोहणमारभेत् ॥ २७ ॥

पात्रन्तु कारयेद्धीमान् शातकुम्भमयेन वा

[[६२५]]

रौप्येन तावत्ताम्रेण मृण्मयेनैव बुद्धिमान् ॥ २८ ॥

खारित्रयञ्च सङ्ग्राह्य गोघृतञ्चैलमेव वा
तदर्द्धं वा तदर्द्धं वा पात्रं सम्पूर्य देशिकः ॥ २९ ॥

षट्सप्ताष्टपलाच्छिन्नवस्त्रैस्तु कन्यसादयः
कार्पासबीजसंयुक्तां पुत्तलास्यन्तु बन्धयेत् ॥ ३० ॥

आसमन्तात् घृतेनैव वत्तालाख्यञ्च सेचयेत्
पात्रं निक्षिप्यदण्डाग्रे विन्यसेत्कलमद्ध्यमे ॥ ३१ ॥

दीपकीलानि दण्डे तु घृतेनैव तु सेचयेत्
दण्डमूले तथा कुर्यात् यावत्सम्मार्जलेपनम् ॥ ३२ ॥

वेष्टयेत्वस्त्रयुग्मेन दण्डमूले विशेषतः
चतुष्कोणेषु कुण्डेषु होमं कुर्याच्छिवद्विजः ॥ ३३ ॥

कुण्डे वा स्थण्डिले वापि कारयेत्तु प्रमाणतः
अग्न्याधानादिकं सर्वं पूर्वोक्तविधिना कुरु ॥ ३४ ॥

ब्रंहाविष्णुश्च रुद्रश्च ईश्वरश्च क्रमेण तु
होमाधिदेवताः प्रोक्ताः दीपदण्डे सदाशिवः ॥ ३५ ॥

पलाशवटशम्यर्कसमिधः पावकादिषु
पूर्वोक्तैश्चैव मन्त्रैश्च द्रव्यैश्चैव पृथक्पृथक् ॥ ३६ ॥

होमयेत्तु विशेषेण स्विष्टान्तं देशिकोत्तमः
आदित्यास्तमने चैव दीपारोहणमारभेत् ॥ ३७ ॥

सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम्
नृत्तगेयसमायुक्तं पिञ्छिचामरसंयुतम् ॥ ३८ ॥

वितानध्वजसंयुक्तं नानाभक्तजनैर्युतम्
प्रतिमान्तु नयेत्तत्र पूजयेद्देशिकोत्तमः ॥ ३९ ॥

देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
पूजयेन्मूर्तिधारांश्च भक्तांश्च परिचारकान् ॥ ४० ॥

विज्ञाप्य देवदेवानां दीपारोहणमुत्तमम्

[[६२६]]

शक्तिदीपानि सर्वाणि एकीतृत्य सुबन्धयेत् ॥ ४१ ॥

ग्रहस्थो ब्रंहचारी वा तद्दीपं गृह्य पाणिना
दण्डन्तु शीघ्रमारुह्य अग्रे तूत्तरदिङ्मुखः ॥ ४२ ॥

पुत्तले रोपयेद्दीपं दीपकीलेषु रोपयेत्
अग्रादिमूलपर्यन्तं ज्वालामाला विभूषितम् ॥ ४३ ॥

पालिकेषु कपोतेषु महानासितलं कुरु
प्रासादमूर्ध्निपर्यन्तं दीपं सर्वत्र रोपयेत् ॥ ४४ ॥

अलाभे दीपदण्डस्य स्थूप्यग्रे तु विनिक्षिपेत्
गोपुरे चैव हर्म्याग्रे वृषाग्रे चैव दीपयेत् ॥ ४५ ॥

वृषालाभे तु हर्म्याग्रे दीपकूटन्तु कारयेत्
तदग्रे रोपयेद्दीपमलाभे देशिकोत्तमः ॥ ४६ ॥

प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं प्रति
परिवेषक्रमं कुर्यात्प्रविश्यास्थानमण्टपम् ॥ ४७ ॥

स्नपनं कारयेच्छम्भोः प्रभूतहविषन्ददेत्
उत्सवं कारयेत्तत्र यथा वित्तानुसारतः ॥ ४८ ॥

दीपदण्डयुतञ्चेत्तु एवमेवसमाचरेत्
हर्म्याग्रे वा वृषाग्रे वा कूटाग्रे रोहणन्तु चेत् ॥ ४९ ॥

तानि कार्याणि सर्वाणि कुर्याच्चैवाधिवासिनाम्
एवं कृतं महापुण्यं सर्वसस्य विवर्द्धनम् ॥ ५० ॥

राष्ट्रग्रामनृपाणाञ्च वर्द्धनं रोगनाशनम्
सर्वदेवप्रियार्त्थं स्यात् प्रियं पातालवासिनाम् ॥ ५१ ॥

अथ वक्ष्ये विशेषेण कृत्तिकादीपलक्षणम्
सङ्कल्प्य कृत्तिकादीपं तिथ्यर्क्षवारसंयुतम् ॥ १ ॥

कृत्तिकापर्वमाकल्प्य वह्निनक्षत्रमेव च
तस्मिन्पर्वणि तत्रैव कृत्तिकर्क्षयुतं यदि ॥ २ ॥

[[६२७]]

उत्तमं त्वितिविख्यातं तस्मिन्पर्वणि रोहिणी
मद्ध्यमं त्वितिविख्यातं भरणी सहितन्तु वा ॥ ३ ॥

अधमं त्वितिविख्यातं तत्पर्वं मृगशीर्षयुक्
कन्यसं त्विति विख्यातं निश्चित्यैवं प्रकल्पयेत् ॥ ४ ॥

आदित्ये गलिते चाग्नि नक्षत्रे तु हरिद्रके
रात्रौ दीपं प्रयोक्तव्यं वारापेक्षं न चेष्यति ॥ ५ ॥

सद्वारं वापि दुर्वारम् ऋक्षयुक्तमयुक्तकम्
पर्वं प्रधानमित्युक्तमादित्ये दृश्यमानके ॥ ६ ॥

सायाह्ने रोपयेद्दीपं शिवप्रीतिप्रदायकम्
शिवाय दीपपूजान्तु कारयेत्तु विशेषतः ॥ ७ ॥

तद्दिनस्य तु पूर्वे वा नवमे सप्तमेऽपि वा
पञ्चमं वात्र्यहं वापि सद्योङ्कुरमथाचरेत् ॥ ८ ॥

तद्दृक्षपूर्वरात्रे च दीपमेवाधिवासयेत्
मण्टपस्यैशदिग्भागे पूर्वे वा चोत्तरेऽपि वा ॥ ९ ॥

गोमयालेपनं कृत्वा दर्भमालैरलङ्कृतम्
पिष्टचूर्णैरलङ्कृत्य प्रोक्षयेत्तु शिवाम्भसा ॥ १० ॥

तन्मद्ध्ये स्थण्डिलं कृत्वाप्यष्टद्रोणैश्च शालिभिः
तण्डुलैस्तिललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ११ ॥

आधारं पूजयेत्तत्र पञ्चपात्राणि विन्यसेत्
अव्यक्ताख्यं सुशान्तञ्च तेजोरूपं कलामयम् ॥ १२ ॥

अमृतोदकपात्रं स्यादेवं पूजाविधीयते
गोघृतेन तु तत्पूर्य विन्यसेत्तन्तु वर्तितम् ॥ १३ ॥

पुण्याहं वाचयेत्तत्र ततो होमं समाचरेत्
नवाग्निं वाथ पञ्चाग्निमेकाग्निं वा प्रकल्प्य च ॥ १४ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तवत्कुरु
इन्धनाज्यचरून्लाजान्वेणुशालियवन्तिलम् ॥ १५ ॥

[[६२८]]

सक्तुसर्षपमुद्गञ्च पञ्चब्रह्मषडङ्गकैः
क्रमात् द्रव्याणि जुहुयादष्टोत्तरशतं बुधः ॥ १६ ॥

तदग्नौ रोपयेद्दीपं मद्ध्यमादि यथाक्रमम्
पूर्वादि चोत्तरान्तन्तु दीपमारोपयेद्बुधः ॥ १७ ॥

सर्वदीपांस्तु तत्रैव प्रधानाभिमुखान्न्यसेत्
तत्प्रधानन्तु तन्मन्त्रैरीशानाभिमुखान्न्यसेत् ॥ १८ ॥

पूजयेत्तु यथान्यायं पञ्चब्रंहाङ्गदैवतम्
गन्धपुष्पैस्समभ्यर्च्य धूपदीपं प्रदापयेत् ॥ १९ ॥

——- बद्ध्वाप्युमया सहितं शिवम्
एकरात्रे तु कर्तव्यं नित्यपूजावसानके ॥ २० ॥

पञ्चब्रंहात्मकैर्मन्त्रैर्दीपञ्चैवाधिवासयेत्
एकरात्रौ प्रकर्तव्यं दीपारोहणमारभेत् ॥ २१ ॥

स्नानं कृत्वा यथा न्यायं देशिको होतृभिस्सह
शिवपूजां प्रकल्प्याथ हव्यादीन् द्विगुणं ददेत् ॥ २२ ॥

गन्धपुष्पैस्समभ्यर्च्य देवेशं प्रार्त्थयेद्गुरुः
चम्पकन्नालिकेरं वा तालं वा खदिरन्तु वा ॥ २३ ॥

तिलकञ्चार्जुनं वापि नन्दनं वेणुकन्तथा
तिन्त्रिणीकिंशुकञ्चैव मधूकं क्रमुकन्तथा ॥ २४ ॥

देवदारुद्रुमञ्चैव दपदण्डं विधीयते
ध्वजदण्डोक्तवत्कुर्यात्सर्वलक्षणसंयुतम् ॥ २५ ॥

प्रासादस्याग्रतः स्थाने वृषस्य पुरतोऽपि वा
उक्षस्यापरभागे वा पीठाग्रे वा वृषाग्रके ॥ २६ ॥

गोपुराग्रेऽथ पृष्ठे वा महामर्यादि मद्ध्यमे
दण्डस्थानं प्रकर्तव्यं सर्वलक्षणसंयुतम् ॥ २७ ॥

प्रासादस्य समन्दीर्घम् उक्षस्थलसमन्तु वा
प्रस्तरान्तं नासिकान्तं कूटान्तं वा गलान्तकम् ॥ २८ ॥

[[६२९]]

महानासिकपोतान्तं शालान्तं गोपुरान्तकम्
दण्डमानमिति ख्यातं हस्तमानमथोच्यते ॥ २९ ॥

दण्डहस्तं समारभ्य चैकहस्तविवर्द्धनात्
यावत्त्रयोदशान्तं स्यात्तस्योत्सेधमिहोच्यते ॥ ३० ॥

अवक्रं निर्व्रणं स्निग्धं कृमिकोटरवर्जितम्
निर्दुष्टसारसंयुक्तं बहुपुष्पविहीनकम् ॥ ३१ ॥

अबालं पर्वहीनञ्च तरुसङ्ग्राहयेद्बुधः
वक्रे तु कलहं विद्धि व्रणयुक्तं गवाङ्क्षयम् ॥ ३२ ॥

अलक्ष्ये च प्रजानाशं कृमिदष्टन्तु सङ्कटम्
कोटरे सस्यनाशं स्यात् दोषयुक्ते कुलक्षयम् ॥ ३३ ॥

सारहीने महाव्याधिः स्त्रीनाशं बहुपुष्पयुक्
तरुणं रिपुवृद्धिस्स्यात्पर्वयुक्तं नृपक्षयम् ॥ ३४ ॥

त्वक्सारमन्तस्सारं वा सङ्ग्रहेल्लक्षणान्वितम्
त्वक्सारं मद्ध्यमं प्रोक्तमन्तस्सारन्तु चोत्तमम् ॥ ३५ ॥

द्वात्रिंशदङ्गुलन्नाहं कन्यसं त्विति कीर्तितम्
मद्ध्यमस्य तु नाहं स्यादष्टाविंशतिकाङ्गुलम् ॥ ३६ ॥

चतुश्चत्वारिकाङ्गुल्यमुत्तमन्नाहमुच्यते
दीपस्तम्भं परिग्राह्य सर्वलक्षणसंयुतम् ॥ ३७ ॥

वेदाङ्गुला – कन्दण्डविस्तारमुच्यते
दीपकीलानि दण्डे तु योजयेच्चक्रवत्क्रमात् ॥ ३८ ॥

सहस्रदीपसंयुक्तं तस्यार्द्धेन युतन्तु वा
शतदीपयुतं वापि दण्डमूले तथाग्रतः ॥ ३९ ॥

स्थापितस्यैव दण्डस्य तन्मूले वेदिकां कुरु
त्रिकरञ्चोत्तमं विद्धि मद्ध्यमं द्विकरं भवेत् ॥ ४० ॥

अधमञ्चैकहस्तं स्याद्विस्तारं सम्प्रकीर्तितम्
हस्तमात्रसमुत्सेधं कन्यसस्य विधीयते ॥ ४१ ॥

[[६३०]]

षडङ्गुलविवृद्ध्या तु मद्ध्यमस्योत्तमस्य तु
मूलचक्रं समाश्रित्य यावच्चक्रान्तकं यथा ॥ ४२ ॥

पूर्वोक्तदीपसंयुक्तं कर्तव्यं युक्तमेव वा
घटिभिर्बन्धयेत्तत्र वृत्तं वृत्तं यथा तथा ॥ ४३ ॥

पूर्वे वा दक्षिणे वापि यन्त्रद्वारं प्रकल्पयेत्
एकहस्तं द्विहस्तं वा कल्पयेत् द्वारमण्टपे ॥ ४४ ॥

वेदकीलन्तु दण्ढाग्रे न्यस्त्वा हस्तप्रमाणतः
दीपदण्डस्य परितः कोणेषु च चतुर्ष्वपि ॥ ४५ ॥

पञ्चहस्तप्रमाणेन कूटं वापि प्रपां कुरु
गोमयालेपनं कृत्वा पञ्चचूर्णैरलङ्कृतम् ॥ ४६ ॥

तरङ्गपट्टमावेष्ट्य दर्भमाला प्रलम्बितम्
युगतोरणसंयुक्तं पुष्पस्रग्भिरलङ्कृतम् ॥ ४७ ॥

पूर्णकुम्भसमायुक्तं मुक्तादामविभूषितम्
मङ्गलाङ्कुरसंयुक्तमष्टदिक् ध्वजशोभितम् ॥ ४८ ॥

प्रच्छन्नपटसंयुक्तं मण्टपं प्रतिमण्टपम्
उद्वास्य शिल्पिनं पश्चात् गोमयेनोपलेपयेत् ॥ ४९ ॥

पुण्याहं वाचयेत्तत्र प्रोक्षयेत्तु शिवाम्भसा
गव्येन प्रोक्षयेद्धीमान् बाह्यमाभ्यन्तरं ततः ॥ ५० ॥

शिवाग्रे स्थण्डिलं कृत्वा निर्दोषैस्सिकतैस्सितैः
हस्तमात्रप्रविस्तारं षडङ्गुलसमुच्छ्रितम् ॥ ५१ ॥

तत्र स्थाप्य विधानेन शिवाग्निं जनयेत्ततः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ५२ ॥

समिदाज्य चरूं लाजान् सर्षपञ्च यवन्तिलम्
मुद्गं माषञ्च नीवारं गोधूमं वैणवन्तथा ॥ ५३ ॥

होमद्रव्याणि सर्वाणि जुहुयात्तु पृथक्पृथक्
समिधं सद्यमन्त्रेण घृतं मूलेन होमयेत् ॥ ५४ ॥

[[६३१]]

चरुञ्च हृदयेनैव लाजं वामेन होमयेत्
सर्षपं घोरमन्त्रेण यवन्नेत्रेण होमयेत् ॥ ५५ ॥

तिलमीशानमन्त्रेण मुद्गन्तु शिरसा हुनेत्
माषन्तु शिखया हुत्वा नीवारं कवचेन तु ॥ ५६ ॥

गोधूमञ्चास्त्रमन्त्रेण मूलेन वैणवं हुनेत्
उक्तानुक्तन्तु यत्किञ्चित् तत्सर्वं मूलमन्त्रतः ॥ ५७ ॥

पलाशसमिधं सद्यमन्त्रेणैव तु होमयेत्
कार्पासबीजं शिखया क्षीरन्तु शिरसा हुनेत् ॥ ५१ ॥

मधूनि शस्त्रमन्त्रेण दधीनि पुरुषेण तु
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत् ॥ ५२ ॥

अग्नेस्तु बीजमन्त्रेण घृतेन जुहुयाच्छतम्
दीपस्थालीन्तदादाय प्रस्थेनाज्येन पूरितान् ॥ ५३ ॥

कनिष्ठाङ्गुलिसन्नाह वर्त्तिभिश्च समायुतान्
कपिलाघृतेन दीपांश्च तद्वह्नौ रोपयेद्धृदा ॥ ६१ ॥

मण्टपस्येशदिग्भागे स्थण्डिलं शालिभिः कुरु
तस्योर्द्ध्वे नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ६२ ॥

दर्भैः पुष्पैः परिस्तीर्य प्रोक्षयेत्पुरुषेण तु
तन्मद्ध्ये रन्ध्रदीपानि मद्ध्यादीशानमन्त्रकैः ॥ ६३ ॥

संस्थाप्य गन्धपुष्पाद्यैर्न्नवशक्तिं प्रपूजयेत्
ततो जयादिनाहुत्वा होमशेषं समाचरेत् ॥ ६४ ॥

कौतुकं बन्धयेद्दण्डे पूजयेद्धृदयेन तु
मद्ध्यदीपैस्समारोप्य तद्दीपन्तरुणाख्यकम् ॥ ६५ ॥

दीपदण्डन्तु सम्पूज्य गन्धपुष्पादिभिर्हृदा
तस्योर्द्ध्वे विन्यसेद्दीपं तरुणाख्यं विशेषतः ॥ ६६ ॥

अपरे दिवसे धीमान् दीपारोहणमारभेत्

[[६३२]]

पात्रन्तु कारयेद्धीमान् शातकुम्भमयेन तु ॥ ६७ ॥

रौप्येण वाथ ताम्रेण मृण्मये नैवबुद्धिमान्
खारित्रयन्तु सङ्ग्राह्य तैलैर्वा गोघृतेन वा ॥ ६८ ॥

तस्यार्द्धं वा तदर्द्धं वा पात्रमापूर्यदेशिकम्
षट्सप्ताष्टनवाछिन्न वस्त्रात्तु कन्यसादयः ॥ ६९ ॥

कार्पासबीजसंयुक्तं पुत्तल्याख्यन्तु बन्धयेत्
आसमन्तात् घृतेनैव पुत्तल्याख्यन्तु सेचयेत् ॥ ७० ॥

पात्रे निक्षिप्य दण्डाग्रे विन्यसेत्कीलमद्ध्यमे
दीपकालानि पिण्डन्तु घृतेनैव तु सेचयेत् ॥ ७१ ॥

दण्डमूलेऽथवा कुर्यात् सम्मार्जनोपलेपने
वेष्टयेद्युग्मवस्त्रेण दण्डमूले विशेषतः ॥ ७२ ॥

चतुष्कोणेषु कुण्डेषु होमं कुर्याद्विधानतः
कुण्डे वा स्थण्डिले वापि कारयेत्तु प्रमाणतः ॥ ७३ ॥

अग्न्याधानादिकं सर्वं पूर्वोक्तविधिना कुरु
ब्रह्माविष्णुश्च रुद्रश्च चेश्वरश्चक्रमेण तु ॥ ७४ ॥

होमाधिदेवताः प्रोक्ता दीपदण्डे सदाशिवम्
पलाशवटशम्यर्क्कास्समिधः पावकादिषु ॥ ७५ ॥

पूर्वोक्तद्रव्यैरेतैश्च मन्त्रैश्चैव पृथक्पृथक्
होमयेत्तु विशेषेण स्विष्टान्तं देशिकोत्तमः ॥ ७६ ॥

देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
पूजयेन्मूर्तिपांश्चैव भक्तांश्च परिचारकान् ॥ ७७ ॥

विज्ञाप्य देवदेवाय दीपारोहणमुत्तमम्
आदित्यास्तमनेकाले दीपारोहणमारभेत् ॥ ७८ ॥

उक्तालङ्कारसंयुक्तं सर्वातोद्य समायुतम्
नृत्तगेय समायुक्तं वितानध्वजसंयुतम् ॥ ७९ ॥

नानादीपसमायुक्तं छत्रचामरसंयुतम्

[[६३३]]

नानाभक्तजनैर्युक्तं प्रतिमासंयुतन्नवा ॥ ८० ॥

मद्ध्यदीपे महानासि पूर्वे पचनशालया
परिवाराश्च ये सर्वे दक्षिणन्दीपयोजनम् ॥ ८१ ॥

पश्चिमे संस्थिते दीपे प्राकारे गोपुरेषु च
उत्तरे संस्थिते दीपे तद्दण्डेषु च योजयेत् ॥ ८२ ॥

शक्तिबीजानि सर्वाणि चैकीकृत्य सुबन्धयेत्
ग्रहस्थो ब्रह्मचारी वा दीपं सङ्ग्राह्य पाणिना ॥ ८३ ॥

दण्डन्तु शीघ्रमारुह्य चोत्तराभिमुखस्थितम्
पुत्तले रोपयेद्दीपं दीपकीलेषु रोपयेत् ॥ ८४ ॥

अग्रादिमूलपर्यन्तं ज्वालामाला विभूषितम्
द्ध्यायेत् ज्योतिस्वरूपन्तु लिङ्गं पौराणरूपकम् ॥ ८५ ॥

तत्काले त्वग्निकूटानि ददेत्सर्वाण्यशेषकम्
दीपारोहणकर्त्तारं वस्त्रयुग्मेन पूजयेत् ॥ ८६ ॥

प्रासादेऽपि हि सर्वत्र दीपमाला विभूषितम्
पालिकेषु कपोतेषु महानासि तलं प्रति ॥ ८७ ॥

प्रासादमूर्ध्निदेशे तु मण्टपे गोपुरे तथा
परिवारालये चैव बाह्ये चाभ्यन्तरेऽपि वा ॥ ८८ ॥

प्राकारे सर्वदेशे तु दीपं सर्वत्र रोपयेत्
अलाभे दीपदण्डस्य स्थूप्यग्रे तु विनिक्षिपेत् ॥ ८९ ॥

एवन्देशे तु हर्म्याग्रे वृषे पीठे च दीपयेत्
वृक्षालाभे तु हर्म्याग्रे दीपकूटन्तु कारयेत् ॥ ९० ॥

तदग्रे रोपयेद्दीपमलाभे देशिकोत्तमः
प्रदक्षिणत्रयं कृत्वा दीपन्तु प्रतिमान्वितम् ॥ ९१ ॥

ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
परिवेष्टन्ततः कुर्यात्प्रविश्या स्थानमण्टपम् ॥ ९२ ॥

स्नपनं कारयेच्छम्भोः प्रभूतहविषन्ददेत्

[[६३४]]

भारादिनवभारान्तं नैवेद्ये पृथुकम्मतम् ॥ ९३ ॥

पृथुकन्दापयेच्छम्भोर्न्नालिकेरफलैर्युतम्
मरीचिजीरकैर्युक्तलेमाशुण्ठिसमायुतम् ॥ ९४ ॥

गुलखण्डसमायुक्तं नैवेद्यार्त्थं प्रकल्पितम्
अङ्कुरार्पणहीनं वा क्रियामेनां समाचरेत् ॥ ९५ ॥

गुरवे दक्षिणान्दद्यात् होतृभ्यस्तदनन्तरम्
यागोपकरणं सर्वं हेमकूटादिकन्धनम् ॥ ९६ ॥

तदङ्गमपरन्तेषान्देशिकाय प्रदापयेत्
उत्सवं कारयेत्तत्र यथा वित्तानुसारतः ॥ ९७ ॥

दीपदण्डयुतञ्चेत्तु ह्येवमेवं समाचरेत्
हर्म्याग्रे वा वृषाग्रे वा कूटारोपणमारभेत् ॥ ९८ ॥

विनाकार्याणि सर्वाणि कुर्याद्दीपाधिवासनम्
एवं कृते महापुण्यं सर्वसस्य विवर्द्धनम् ॥ ९९ ॥

राष्ट्रग्राम नृपाणाञ्च वर्द्धनं रोगनाशनम्
सर्वदेवप्रियार्त्थं स्यात् प्रियं पातालवासिनाम् १००
इति कृत्तिकादीपविधिपटलो द्वादशोत्तरशततमः