कृत्तिकादीपनक्षत्रनिर्णयपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि कृत्तिका दीपऋक्षकम्
तिथिनक्षत्रभेदांश्च विस्तरेण वदाम्यहम् ॥ १ ॥
कृत्तिकारोहिणीमिश्रा तद्रात्रौ पूर्णिमायुता
राजराष्ट्रसुभिक्षं स्यात् तत्काले दीपमुत्तमम् ॥ २ ॥
[[६२२]]
द्विवारे खण्डितं पर्वं पूर्वं त्यक्त्वा परं ग्रहेत्
अर्द्धास्तमनवेलायां दीपोत्सवं समाचरेत् ॥ ३ ॥
पर्वं नोचेत्तु सन्ध्यायां पूर्वेद्युर्दीपमाचरेत्
उत्तमं कृत्तिकायुक्तं मद्ध्यमं रोहिणीयुतम् ॥ ४ ॥
अथवा भरणी युक्तं दीपं पर्वणिकारयेत्
केवलं पौर्णमास्यान्तु कृत्तिकोत्सवमाचरेत् ॥ ५ ॥
भरणी कृत्तिकामिश्रा तद्दिने च चतुर्दशी
अल्पवृष्टिश्च रोगाश्च राष्ट्रक्षोभो न संशयः ॥ ६ ॥
भरणी कृत्तिका मिश्रे तद्दिने तु चतुर्दशी
कृत्तिकोत्सवमेवन्तु तदन्ये वा समाचरेत् ॥ ७ ॥
भरणीकृत्तिकामिश्रा तद्दिने च चतुर्दशी
कृत्तिकारोहिणीमिश्रा तद्दिने तु चतुर्दशी ॥ ८ ॥
सम्भवेत्तु चतुर्वक्त्रतदन्यवासरे चरेत्
तदन्यवासरे चैव कलया पौर्णमीयुता ॥ ९ ॥
दीपोत्सवं तथा सर्वं शोभयेन्मम मन्दिरम्
रोहिण्यां वा भरण्यां वा कदाचिन्मृगशीर्षके ॥ १० ॥
पर्वसम्बन्धसन्न्ध्यायां दीपोत्सवमथाचरेत्
ऋक्षत्रययुते पर्वे राहुग्रस्ते चतुर्मुख ॥ ११ ॥
तद्रात्रौ दीपकाले वा ग्रसेद्दीपं समाचरेत्
एवं विचार्यकर्तव्यं कृत्तिका दीपमाचरेत् ॥ १२ ॥
इति कृत्तिकादीपनक्षत्रनिर्णयपटल एकादशोत्तरशततमः