११० मासपूजाद्रव्यविधिपटलः

मासपूजाद्रव्यविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण सर्वशान्तिकरं शुभम्
श्रीकरं विजयं प्रोक्तं विशेषाच्छत्रुनाशनम् ॥ १ ॥

मण्टपञ्च ततः कुर्यात् भुवनस्य चतुर्दशि
अथवा त्वीशदिग्भागे मण्टपञ्चतुरश्रकम् ॥ २ ॥

षड्ढस्तं पञ्चहस्तं वा सप्तहस्तमथापि वा
उपवेदि समायुक्ता दर्पणोदरसन्निभा ॥ ३ ॥

तत्पूर्वञ्चतुरश्रं वा वृत्तं वा हस्तमानकम्
विस्तारं समखातं वा मद्ध्यमन्यंशमेव वा ॥ ४ ॥

मेखला सहितेनैव खातमानं विधीयते
कर्णमेकाङ्गुलं ख्यातं परित्यज्य तु मेखलाम् ॥ ५ ॥

ऊर्द्ध्वे वेदाङ्गुला यो धः त्र्यङ्गुला द्व्यगुलामताः
योन्यष्टनाभियुक्तं स्यान्मानं पूर्ववदाचरेत् ॥ ६ ॥

ब्रह्मस्थानं प्रणीता च मद्ध्यमे खलयासमम्
षडङ्गुलन्तु विस्तारमग्रञ्चैवाग्रयोनिकम् ॥ ७ ॥

[[६१८]]

घृतवैष्णवपीठं स्यादन्तरन्तु द्वयाङ्गुलम्
यावत्तु मेखलात्मानं योनिनालन्तु भूगतम् ॥ ८ ॥

त्र्यङ्गुलन्तु प्रविस्तारं वृत्तं वा चतुरश्रकम्
गजहस्तसमाकारं सर्पाकारमथापि वा ॥ ९ ॥

एवं सम्पाद्य कुण्डञ्च कुण्डस्याग्नौ तु चुल्लिका
भुजद्वयसमायुक्तं पूर्भे शिरसिसंयुता ॥ १० ॥

पश्चिमाभिमुखीकार्या चैकैकं पर्वताङ्गुलम्
अग्रे त्वङ्गुलविस्तारा चुल्लिरत्रापि चित्रता ॥ ११ ॥

कुम्भैकस्याग्रके वेदी मद्ध्ये व्याधि विनाशनम्
हस्तमात्र प्रविस्तारमुत्सेधन्तु तदर्द्धकम् ॥ १२ ॥

उपवेदी समायुक्तान्दर्पणोदरसन्निभाम्
ध्वजतोरणसंयुक्तन्दर्भमालाद्यलङ्कृतम् ॥ १३ ॥

एवं सम्पाद्य सर्वन्तु शुद्धिं कृत्वा विशेषतः
पुण्याहप्रोक्षणं कृत्वा पञ्चगव्येन संयुतम् ॥ १४ ॥

पूर्वेद्युरधिवासं वा सद्योधिवासनन्तु वा
मण्डलं वेदिकोर्द्ध्वे तु वसन्तादी च षडृतु ॥ १५ ॥

वसन्ते स्वस्तिकाब्जञ्च ग्रीष्मे तु सर्वभद्रकम्
प्रावृट् च भद्रमाख्यातं लिङ्गाब्जं स्वस्तिकन्तथा ॥ १६ ॥

शरद्येव तु हेमन्ते पार्वतीकान्तमण्डलम्
पद्मस्वस्तिकमाख्यातं शिशिरे तु विशेषतः ॥ १७ ॥

मेषादिमीनपर्यन्तमेकाहे सतिपूजने
पूजाम्मासदिने कुर्यात् पूर्वरात्रे समाचरेत् ॥ १८ ॥

षण्मण्डलं समासाद्य व्याण्यप्यधिवासयेत्
अन्नं पुष्पं फलञ्चैव लाजापूपसमन्वितम् ॥ १९ ॥

गन्धं सद्योधिवासञ्च अन्येषां पूर्वरात्रके
सद्योधिवासनञ्चेत्तु चरूं यागं विनाचरेत् ॥ २० ॥

[[६१९]]

कुम्भेसाग्रेधिवासः स्यात् पूजामासादिषु क्रमात्
स्थापनं यजनञ्चैव योजनञ्च क्रमेण तु ॥ २१ ॥

एकाग्नौ होमयेत्सर्वञ्चरुमेकसमन्वितम्
दर्भास्तरणमेकन्तु विष्टरं परिधी ततः ॥ २२ ॥

ब्रह्माणञ्च प्रणीतां च मण्टपस्यार्चनन्ततः
अधिवासहुतञ्चैकमुपहोमन्तथैव च ॥ २३ ॥

प्रायश्चित्ता हुतिञ्चैकं कुम्भे स्तोरणन्ततः
पूजाहोमञ्च सम्पातद्रव्यं प्रतिविशेषतः ॥ २४ ॥

आरभ्योदयराशे तु उदयान्तं समाचरेत्
सम्पूज्य देवदेवेशं ज्ञापयेत्तु विशेषतः ॥ २५ ॥

अहं यद्यपिदेवेश दुर्बलो ह्यल्पसाधनः
भक्त्या करोमि पूजान्ते ततो नुज्ञातु मर्हसि ॥ २६ ॥

इति विज्ञाप्यदेवेशं प्रविशेन्मण्टपे ततः
मण्टपं विधिनाराद्ध्य पञ्चद्रव्याधिवासनम् ॥ २७ ॥

मण्डलेऽभ्यर्चनं कृत्वा होमं विज्ञाप्य देशिकम्
कुण्डसंस्कारपूर्वन्तु पञ्चसंस्कारमाचरेत् ॥ २८ ॥

पञ्चधाग्निं विभज्याथ चरुपाकं समाचरेत्
पश्चाद्धोमं प्रकर्तव्यं शिवावाहनपूर्वकम् ॥ २९ ॥

पलाशसमिदाज्यान्नलाजैश्चैव तिलैः क्रमात्
अष्टोत्तरशतं वार्द्धं सद्यादि ब्रह्मपञ्चकैः ॥ ३० ॥

मूले नाद्यन्तु पञ्चाशत् सम्पातं सम्यगाचरेत्
उपहोमन्ततः कृत्वा स्वाहान्तं मूलमुच्चरन् ॥ ३१ ॥

एवञ्जागरणं रात्रौ प्रभाते स्नानमाचरेत्
मण्टपं पूर्ववत्पूज्य वर्द्धनी भ्रमणं विना ॥ ३२ ॥

तोरणद्वारपालानां कला स्यादधिदेवता
तत्तन्मन्त्रेण सङ्ग्राह्य कुम्भेशे विनिवेशयेत् ॥ ३३ ॥

[[६२०]]

आसनं मूर्तिमूलेन पूजयेत्पावकन्ततः
होमान्ते पूजनं वाथ पूजान्ते वा समाचरेत् ॥ ३४ ॥

पूजाहोमं प्रकर्तव्यं मूलेनाज्यन्तु होमयेत्
ओदनञ्चास्त्रमन्त्रेण हुनेदष्टशतं क्रमात् ॥ ३५ ॥

तदर्द्धं मद्ध्यमं प्रोक्तन्तदर्द्धमधमं भवेत्
पूर्णाहुतिः प्रकर्तव्या पूजा होममिति स्मृतम् ॥ ३६ ॥

पश्चाद्धोमं प्रकर्तव्यं प्रायश्चित्तादि दीक्षितः
सर्वद्रव्य समायुक्तं हव्यवाहनहोमयेत् ॥ ३७ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
कूश्माण्डादादिभिर्हुत्वा व्याहृतिञ्च विशेषतः ॥ ३८ ॥

अस्त्रेणैव तु मन्त्रेण हुनेदष्टशतं क्रमात्
पूर्णाहुतिः प्रकर्तव्या सर्वकर्मप्रपूरणी ॥ ३९ ॥

एवं समाप्यहोमञ्च दर्भभस्मान्तमाचरेत्
प्रातस्सन्ध्यार्चनादेव तत्पूर्वे वा समाचरेत् ॥ ४० ॥

नित्यन्नैमितिकं काम्यन्तन्त्रेणैव समाचरेत्
द्वारपूजान्ततः कृत्वा लिङ्गशुद्धिं समाचरेत् ॥ ४१ ॥

गव्यैर्गन्धोदकैः स्नाप्य पश्चात्पञ्चामृतेन च
अष्टोत्तरशतैः स्नाप्य यजेदावरणं प्रति ॥ ४२ ॥

शङ्खद्ध्वनि समायुक्तं स्तस्तिसूक्तसमन्वितम्
द्रव्यानुद्धृत्य शिरसा कुम्भेशेन सहैव च ॥ ४३ ॥

धामप्रदक्षिणं कृत्वा प्रविशेत् गर्भगेहके
गन्धपुष्पादिनाभ्यर्च्य प्रोक्षयेत्तु घटोदकैः ॥ ४४ ॥

पश्चात् द्रव्येण संयोज्य मूलमन्त्रमनुस्मरन्
मूर्द्धादिपिण्डिकान्तं वा स्थलान्तं वा समाचरेत् ॥ ४५ ॥

नववस्त्रेण संवेष्ट्य लिङ्गपीठं क्रमेण तु
वस्त्रैराभरणैर्माल्यैरलङ्कृत्य विशेषतः ॥ ४६ ॥

[[६२१]]

पायसान्नं हरिद्रान्नं कृसरान्नं गुलान्नकम्
मुत्गान्नन्दापयेदीशवक्त्राद्ये पञ्चवक्त्रके ॥ ४७ ॥

तण्डुलात्त्रिंशतिर्भागं रजनी चूर्णसंयुतम्
जीरकादिसमोपेतं किञ्चिल्लवणसंयुतम् ॥ ४८ ॥

हरिद्रान्नमिति प्रोक्तमन्येषां पूर्ववत् बुधः
अथवा शुद्धोदनं स्यात्तु व्यञ्जनेन समन्वितम् ॥ ४९ ॥

नारङ्गं लवणोपेतं श्रिङ्गिबेरसमायुतम्
सर्षपञ्चैव सम्मिश्रं लवणं त्रिफलैर्युतम् ॥ ५० ॥

दधिमत् घृतसंयुक्तमपूपादि समन्वितम्
दापयेद्देवदेवाय उमादेव्यै च दापयेत् ॥ ५१ ॥

सकलानान्तु सर्वेषां यथा वित्तानुसारतः
पानीयाचमनन्दत्वा ताम्बूलं दापयेत्ततः ॥ ५२ ॥

नित्याग्नियजनं कुर्यात् बलिभ्रमणमाचरेत्
प्रविशेत् गर्भगेहन्तु धूपदीपादिभिश्शिवम् ॥ ५३ ॥

आरात्रिकेण सन्तोष्य दर्प्पणच्छत्रचामरैः
तालवृन्तेन संयुक्तं वेदादीन् दापयेत्ततः ॥ ५४ ॥

गीतवाद्यसमायुक्तं नृत्तान्तं सम्यगाचरेत्
एवं कृत्वा विशेषेण प्रतिमासं समाचरेत् ॥ ५५ ॥

श्रीकरं पुण्यवृद्धिञ्च आयुरारोग्य वर्द्धनम् ॥ ५६ ॥

इति मासपूजाद्रव्यविधिपटल एकादशोत्तरशततमः