१०९ मासपूजाविधिपटलः

मासपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण मासपूजा विधिक्रमम्
पुष्यमासादि संयुक्तं मार्गशीर्षकमन्तकम् ॥ १ ॥

पुष्यमासे तु पुष्यान्तं माघमासे मखान्तकम्
उत्तरान्तन्तु फल्गुन्याञ्चित्रकञ्चैत्रमासके ॥ २ ॥

विशाखान्तं हि वैशाखे ज्येष्ठके मूलभान्तकम्
आषाढोत्तराषाढान्तं श्रावणे वैष्णवान्तकम् ॥ ३ ॥

पूर्वाषाढं हि तन्मासे चाश्वयुङ्मासिचाश्वनी
कृत्तिकान्तं हि कार्तिक्याम् आर्द्रान्तं मार्गशीर्षके ॥ ४ ॥

आर्द्रान्तं सर्वमासे वा कर्तुर्जन्मदिनेऽपि वा
एकमासे द्विऋक्षे तु अन्त्यर्क्षे व्रतमाचरेत् ॥ ५ ॥

चन्दनादिषु गन्धेषु पुष्यमासे हि पूजयेत्
घृतकं बलमाघस्य फल्गुन्यां पुष्पपूजनम् ॥ ६ ॥

सुमानि चैत्रमासस्य वैशाखस्यात्र पूजनम्

[[६१७]]

ज्येष्ठमासे तु पूजायां परिपक्वफलानि च ॥ ७ ॥

आषाढे तु पवित्रं स्याच्छ्रावणे तिलपूजनम्
पूर्वाषाढे तिलासञ्च आश्वमासे घृतानि वै ॥ ८ ॥

कृत्तिकामासिदीपञ्च मार्गशीर्षे तु कुङ्कुमम्
पुष्पमालादि सर्वाणि पूजयेत्तु विशेषतः ॥ ९ ॥

सर्वपापहरञ्चैव सर्वशान्तिकरं शुभम्
सर्वशत्रुक्षयकरं सर्वयज्ञफलप्रदम् ॥ १० ॥

सर्वव्याधिप्रशमनं सर्वधी कीर्तिवर्द्धनम्
आयुः श्रीः कीर्तिविजयं मासपूजा फलं त्विदम् ॥ ११ ॥

इति मासपूजाविधिपटलदशोत्तरशततमः