१०८ नक्षत्रपूजाविधिपटलः

नक्षत्रपूजाविधिपटलप्रारम्भः
वक्ष्ये नक्षत्रयजनं सर्वारिष्टविनाशनम्
महाभूतप्रशमनं परसेनापलायनम् ॥ १ ॥

सर्वशत्रुक्षयकरं सकलाभीष्टसिद्धिदम्
अकालमृत्युशमनं नवग्रहविनाशनम् ॥ २ ॥

राजाभिषेकसमये कर्त्तुर्जन्मदिनेऽपि च
चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि ॥ ३ ॥

रणारम्भे वसाने वा योगयुक्तदिनेऽथवा
नक्षत्रयजनं कार्यं सर्वाभीष्टप्रसिद्धये ॥ ४ ॥

शिवाग्रे मण्टपं कुर्यात्सर्वालङ्कारसंयुतम्
तन्मद्ध्ये वेदिकां कुर्यात् गुणभागैकभागतः ॥ ५ ॥

विस्तारार्द्धसमुत्सेधं दर्पणोदरसन्निभम्
दिव्यमालासमायुक्तं निम्नोन्नतविवर्जितम् ॥ ६ ॥

[[६१२]]

द्वादशस्तम्भसंयुक्तं प्रासादवदलङ्कृतम्
तुरङ्गं वृषभं वाथ कल्पयेदग्रपार्श्वयोः ॥ ७ ॥

अलङ्कृत्य विशेषेण पत्रचित्रसुदामभिः
कैलासं कल्पयेन्मद्ध्ये शालिपिष्टमयेन तु ॥ ८ ॥

उपवेदिं ततः कृत्वा तद्विस्तारार्द्धमानतः
चतुरङ्गुलमुत्सेधं निम्नोन्नतविवर्जितम् ॥ ९ ॥

शालामण्टपं सङ्कल्प्य मद्ध्ये पद्मं समालिखेत्
भानुसङ्ख्यामहाब्जञ्च लिङ्गं षण्णवतिं विदुः ॥ १० ॥

कुङ्कुमं कृष्णवर्णञ्च रक्तं गोक्षीरवर्णकम्
शुक्लवर्णं क्रमेणैव कल्पयेत् पूर्ववर्त्मना ॥ ११ ॥

गेयार्त्थं मण्टपं कुर्यात्पूर्वोक्तविधिना ततः
निश्चित्य दिवसात् पूर्वे नवमे सप्तमेऽपि वा ॥ १२ ॥

पञ्चमे वा विशेषेण बिल्ववृक्षं समाश्रयेत्
तत्पूर्वादीनि पत्राणि तृणादीनि व्यपोह्य च ॥ १३ ॥

पुण्याहं वाचयेद्धीमान् प्रोक्षयेच्छिवमन्त्रतः
हस्तमात्रेण तन्मूले परितश्चतुरश्रकम् ॥ १४ ॥

खातयेदस्त्रमन्त्रेण पञ्चगव्येन पूरयेत्
गन्धादिभिस्समभ्यर्च्य मूलमन्त्रेण सुव्रत ॥ १५ ॥

त्रियम्बकेन मन्त्रेण बध्वाप्रतिसरं यथा
दद्ध्योदनबलिन्दत्वा नवदेवादितृप्तये ॥ १६ ॥

यायादाशोषितं गव्यं जप्त्वा रुद्राधिदैवतम्
जपान्ते सङ्ग्रहेद्विद्वान् बिल्ववृक्षं समूलकम् ॥ १७ ॥

पञ्चाङ्गं प्रणवेनैव विभजेत्तत्पृथक्पृथक्
सद्योजातेन सङ्ग्राह्य मूलं मूर्तिकयान्वितम् ॥ १८ ॥

रुद्रं वामेन सङ्ग्राह्य पत्रं हृदयमन्त्रतः
फलमस्त्रेण सङ्ग्राह्य ईशानेन सुमङ्ग्रहेत् ॥ १९ ॥

[[६१३]]

शुद्धवस्त्रेण संवेष्ट्य शिरसावाहयेत्ततः
सर्वालङ्कारसंयुक्तं स्वस्तिसूक्तसमन्वितम् ॥ २० ॥

धामप्रदक्षिणं कृत्वा शिवाग्रे वापि मण्टपे
गोमयालेपनं कृत्वा पिष्टचूर्णैर्विचित्रयेत् ॥ २१ ॥

स्थण्डिलं कारयेद्विद्वान् शालिभिर्विमलैश्शुभैः
विन्यसेत् बिल्वपञ्चाङ्गं तत्तन्मन्त्रक्रमेण तु ॥ २२ ॥

तत्पूर्वे पश्चिमे वापि चोत्तरे वापि शेषतः
अष्टाङ्गुलप्रमाणेन हित्वा परशुना स्मृतः ॥ २३ ॥

बिल्वकाष्ठञ्च मूलञ्च शुद्धतोयेन प्रोक्षयेत्
रोचनां कुङ्कुमञ्चापि चन्दनं हरिचन्दनम् ॥ २४ ॥

उशीरं मेघकर्पूरं तस्मादगरुनिस्सृतम्
हरिबेरसमायुक्तं हिमतोयेन मर्दयेत् ॥ २५ ॥

छायाशुष्कां पटीं कृत्वा पत्रपुष्पफलादिकम्
गृहीत्वा नवभाण्डे तु मुखं वस्त्रेण वेष्टयेत् ॥ २६ ॥

ऋचाभ्यर्च्य षडङ्गेन चामृती करणं कुरु
जप्त्वाष्टोत्तरसहस्रं पापक्षीणञ्च वाग्रतः ॥ २७ ॥

ओं सकल्मषाय नमः शिवाय नमः
ततो मण्टपमासाद्य सकली कृतविग्रहः ॥ २८ ॥

विघ्नेश्वरं समभ्यर्च्य पुण्याहं वाचयेद्गुरुः
मण्टपं पूजयेद्विद्वान् पूर्वोक्तविधिना ततः ॥ २९ ॥

स्थण्डिलं वेदिका मद्ध्ये चाष्टद्रोणेन शालिना
तण्डुलैस्तिललाजैश्च दर्भैश्चैव परिस्तरेत् ॥ ३० ॥

बहुरूपेण सम्प्रोक्ष्य पूजयेद्वृषभासनम्
मण्टपस्योत्तरे पूर्वे पश्चिमे वा विशेषतः ॥ ३१ ॥

अष्टद्रोणेन दुन्धेन स्नपनं परिकल्पयेत्
अर्घ्यं संसाधयेद्विद्वान् पात्रशुद्धिं समाचरेत् ॥ ३२ ॥

[[६१४]]

विभजेदथपञ्चाङ्गमष्टधा देशिकोत्तमः
द्विभागेन शिवं रूपमेकभागेन पार्वतीम् ॥ ३३ ॥

नक्षत्रं पञ्चभागेन कल्पयेत्तु यथाक्रमम्
गन्धपुष्पादिना यष्ट्वा जप्त्वा पूर्वोक्तमन्त्रतः ॥ ३४ ॥

प्रणवेनैव सङ्ग्राह्य विन्यसेद्वेदिकोपरि
पूजयेत्कर्णिका मद्ध्ये पार्वतीं परमेश्वरम् ॥ ३५ ॥

चतुर्दिक्षु न्यसेद्विद्वान् नक्षत्राणि यथा क्रमम्
अग्न्याद्याश्लेषपर्यन्तं सप्ताङ्गं त्विन्द्रदेशके ॥ ३६ ॥

माखादिशूर्पपर्यन्तं सप्ताङ्गं याम्यदेशके
अनूराधादि विष्ण्वन्तं षष्ठाङ्गं पश्चिमे स्थितम् ॥ ३७ ॥

श्रविष्ठादिभरण्यन्तं सप्ताङ्गं सौम्यदेशके
सङ्कल्प्याभ्यर्च्य गन्धाद्यैस्तत्तन्मन्त्रेण देशिकः ॥ ३८ ॥

ततो गर्भगृहं गत्वा लिङ्गशुद्धिं समाचरेत्
निवेदयेत्तु मुद्गान्नं लेपयेच्चन्दनेन तु ॥ ३९ ॥

धूपदीपैस्समभ्यर्च्य इष्टार्थं प्रार्त्थयेद्गुरुः
ततो मण्डलमासाद्य मण्टपाधिपतिं न्यसेत् ॥ ४० ॥

अग्न्याय तनमासाद्य शिवाग्निं विधिना यजेत्
मधुरत्रयसंयुक्तं दूर्वाग्रकदलीफलम् ॥ ४१ ॥

नालिकेरफलं दुग्धमोदनेन समन्वितम्
ततो मण्टपमासाद्य सर्वालङ्कारसंयुतम् ॥ ४२ ॥

प्रणवेनैव सङ्ग्राह्य पञ्चचूर्णं सबिल्वकम्
शिरसावाहयित्वा तु प्रदक्षिणमथाचरेत् ॥ ४३ ॥

विवस्वन्मण्टपस्याग्रे पुण्याहं वाचयेत्ततः
कैलासगिरिमभ्यर्च्य पूजयेद्वृषदैवतम् ॥ ४४ ॥

नक्षत्रं परितः स्थाप्य पूर्ववत्पूजयेत्क्रमात्
शतमर्द्धं तदर्द्धं वा मूलेनैव समाचरेत् ॥ ४५ ॥

[[६१५]]

पूर्णाहुतिं ततो हुत्वा शिवाग्निञ्च विसर्जयेत्
ततस्सम्पूज्य देवेशमुमादेवी समन्वितम् ॥ ४६ ॥

हविर्निवेदयित्वा तु ताम्बूलं दापयेद्बुधः
परिचारं समाहूय सोष्णीषं सोत्तरीयकम् ॥ ४७ ॥

कुम्भानुद्धृत्य शिरसा कृत्वा धामप्रदक्षिणम्
प्रविशेत् गर्भगेहन्तु स्नापयेत्स्नापनार्हकैः ॥ ४८ ॥

हविर्निवेदयित्वा तु गन्धपुष्पादिभिर्यजेत्
ततो मण्टपमासाद्य सर्वालङ्कारसंयुतम् ॥ ४९ ॥

प्रणवेनैव सङ्गृह्य पञ्चचूर्णं सबिल्वम्
शिरसा वाहयित्वा तु प्रदक्षिणमथाचरेत् ॥ ५० ॥

विवस्वन्मण्टपस्याग्रे पुण्याहं वाचयेत्ततः
कैलासगिरिमभ्यर्च्य पूजयेद्वृषदैवतम् ॥ ५१ ॥

नक्षत्रं परितस्थाप्य पूर्ववत्पूजयेत्क्रमात्
पट्टिकां पाटलीं व्याघ्रीं रक्तागस्त्यञ्च धातकीम् ॥ ५२ ॥

लक्ष्मीञ्चरक्तपद्मञ्च सप्तमं कृत्तिकादिषु
वरुणाद्रोणपुष्पञ्च धुत्तूरं करवीरकम् ॥ ५३ ॥

प्रदोषं पृथिवीपद्मं भूपाटलमखादिषु
तुलसीजातिपुन्नागं श्वेतार्कं बिल्वपत्रकम् ॥ ५४ ॥

रुद्रपर्णीति पत्रञ्च अनूराधादिषट्सु च
श्रियावर्तञ्च मन्दारं कर्तार्कञ्चतुरङ्गुलम् ॥ ५५ ॥

विष्णुक्रान्तिं सभां भद्रीं श्रविष्ठादि च सप्तसु
मुद्गान्नं कृत्तिकादौ स्यात् कृसरान्नं मखादिषु ॥ ५६ ॥

पायसान्नं प्रदातव्यमनूराधादिषट्सु च
गुलान्नन्तु श्रविष्ठान्तं शुद्धान्तं त्वीश्वरस्य तु ॥ ५७ ॥

भक्त्यासर्वोपचारेण पूजयेत्तु यथा विधि
यं यं कामयते मर्त्यस्सर्वमाप्नोति नित्यशः ॥ ५८ ॥

[[६१६]]

आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
भक्तानां परिचाराणां यथा शक्त्या च दक्षिणाम् ॥ ५९ ॥

दीनान्धकृपणानाञ्च अन्नपानादिकं ददेत्
सन्ध्यान्तरे परे वाथ पुष्पाञ्जलिकरो गुरुः ॥ ६० ॥

मूलेन शिवमादाय योजयेच्छिवमात्मनि
पञ्चचूर्णं समादाय शुद्धपात्रे गृहेद्गुरुः ॥ ६१ ॥

तच्चूर्णं यजमानाय दापयेत्तु विशेषतः
पञ्चचूर्णं समादाय चन्दनेनैव संयुतम् ॥ ६२ ॥

भस्मनैव तु संयोज्य सततं धारयेन्नरः
सर्वपापविनिर्मुक्तस्सर्वत्र विजयि भवेत् ॥ ६३ ॥

इति नक्षत्रपूजाविधिपटलनवोत्तरशततमः