अमावास्यार्चनाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण अमावास्यार्चनं परम्
सर्वपापहरं पुण्यं सर्वरोगविनाशनम् ॥ १ ॥
देवानाञ्च पितॄणाञ्च पूजनं सफलन्ततः
पुष्याषाढे प्रकर्तव्या सर्वदेवप्रियार्त्थकम् ॥ २ ॥
शिवं सम्पूज्य विधिवत् पूजान्ते वासनन्ततः
तत्तत्काले विशेषेण गव्यैः पञ्चामृतैस्ततः ॥ ३ ॥
[[६१०]]
स्नपनं कारयित्वा तु पूर्ववत्पूजयेत्ततः
नैवेद्यं धूपदीपान्तं पूजयित्वा विचक्षणः ॥ ४ ॥
कृत्वा तु जलधारादीन् कारयेत्पूर्ववद्बुधः
शान्तिहोमं प्रकर्तव्यं सर्वदोषनिकृन्तनम् ॥ ५ ॥
उमास्कन्दादिदेवानां तीर्त्थयाने कृते सति
अङ्कुराण्यर्पयेद्वाथ कौतुकं बन्धयेत्ततः ॥ ६ ॥
पूर्वेद्युरधिवास्याथ प्रातस्सन्ध्यार्चनन्नयेत्
कृतकौतुकबेरस्य पूजां कृत्वा विशेषतः ॥ ७ ॥
अथ नैमित्तिकन्नित्यन्तत्रेणैव समाचरेत्
तीर्त्थदेशं समीपश्च अग्रे वा मण्डपेऽथवा ॥ ८ ॥
शिवाग्रे स्थण्डिलं कृत्वा भेरीताडनपूर्वकम्
चूर्णोत्सवन्ततः कुर्यात्पूर्वोक्तविधिना ततः ॥ ९ ॥
तैलदूर्वाङ्कुरञ्चूर्णन्दद्यात्पूर्वोक्तवर्त्मना
अथवा तीर्त्थदेशन्तु क्रोशो यद्योजनान्तिकम् ॥ १० ॥
तीर्त्थतीरेऽथ कर्तव्यञ्चूर्णोत्सवविधानतः
अस्त्रलिङ्गं समभ्यर्च्य अन्नलिङ्गसमन्वितम् ॥ ११ ॥
लोकपालबलिन्दत्वा कुर्यात् वास्तुप्रदक्षिणम्
शीघ्रं यानं प्रकर्त्तव्यं तीर्त्थदेशं प्रविश्य च ॥ १२ ॥
नदी तटाके स्रवणे समुद्रे सङ्गमेऽपि वा
अन्येषु पुण्यतीर्त्थेषु जलक्रीडां समाचरेत् ॥ १३ ॥
तैलस्नानादिकं कृत्वा गव्यैः पञ्चामृतैस्तथा
स्नपनं कारयित्वा तु व्यपोह्य कौतुकन्ततः ॥ १४ ॥
वस्त्राभरणमालाद्यैरलङ्कृत्य विशेषतः
नैवेद्यं पायसादीनि दत्वा चाचमनक्रियाम् ॥ १५ ॥
ताम्बूलन्दापयित्वा तु मुखवाससमन्वितम्
नृत्तगीतसमायुक्तन्दर्पणछत्रचामरैः ॥ १६ ॥
[[६११]]
सर्ववाद्य समायुक्तस्तोत्रमङ्गलवाचकैः
शनैर्द्ध्यानं प्रकर्तव्यं धूपदीपसमन्वितम् ॥ १७ ॥
ग्रामप्रदक्षिणं कृत्वा प्रविश्यास्थानमण्टपे
धूपदीपसमायुक्तमारार्तिकसमन्वितम् ॥ १८ ॥
नृत्तगीतसमायुक्तं विनोदालोकनन्ततः
ताम्बूलन्दापयित्वा तु क्षत्रियस्य विशेषतः ॥ १९ ॥
आलयन्तु प्रविश्याथ शेषं पूर्ववदाचरेत्
आचार्यं पूजयित्वा तु पञ्चाचार्यसमन्वितम् ॥ २० ॥
एतानेव सुसम्पूज्य पर्यष्टिपरिचारकान्
भक्तानाञ्चैव सर्वेषां वाद्यकानान्तथैव च ॥ २१ ॥
पूजयित्वा विशेषेण यथा विभवविस्तरम् ॥ २२ ॥
इति अमावास्यार्चनविधिपटल अष्टोत्तरशततमः