१०६ प्रदोषपूजाविधिपटलः

प्रदोषपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण प्रदोषार्च्चाविधिक्रमम्
भक्तानां रक्षणार्त्थाय कृतान्तस्य च निग्रहम् ॥ १ ॥

कृतः कालान्तकेनापि तत्कालं रजनीमुखम्
अस्तमानं समारभ्य त्रिपादेन त्रिनाडिका ॥ २ ॥

प्रदोषमिति विख्यातं तत्काले शिवमर्चयेत्
स्नानं दानं जपं होमन्निष्फलञ्च भवेत्तदा ॥ ३ ॥

वृषस्य वृषणे चैव सर्वतीर्त्थानि तत्र वै
तस्मात्तद्वृषणं स्पृष्टा श्रृङ्गमद्ध्ये शिवन्दृशेत् ॥ ४ ॥

ऋणरोगादिदारिद्र्य क्षुद्बाह्य व्यधमृत्यवः
किल्बिषञ्च मनः खेदं कोपमोहभयानि च ॥ ५ ॥

एतेप्यस्तीति विज्ञाप्य देवदेवस्य सन्निधौ
तत्फलन्नलभेन्मत्तर्यस्सर्वपापैः प्रमुच्यते ॥ ६ ॥

आर्द्रेण तालपत्रेण लेख्य विज्ञाप्य सन्निधौ
तत्पत्रन्दाहयित्वा तु जलतीरे विशेषतः ॥ ७ ॥

त्रिवारमिति कृत्वा तु तत्फलञ्च न विद्यते
सर्वपापहरं पुण्यं सर्वदोषनिकृन्तनम् ॥ ८ ॥

सायं काले विशेषेण शिवपूजां समारभेत्
वृषभं पूजयेत्पूर्वं पञ्चगव्याभिषेचनम् ॥ ९ ॥

शुद्धतोयेन सस्नाप्य गन्धं पुष्पञ्च धूपकम्
कृसरान्नन्निवेद्याथ ताम्बूलन्तु निवेदयेत् ॥ १० ॥

प्रासादाग्रे विशेषेण स्थण्डिलं शालिभिः कुरु
लाजैः पुष्पैस्तिलैस्सार्द्धं विकिरेत्समलङ्कृतम् ॥ ११ ॥

परिस्तीर्य ततो दर्भैः पुण्याहं वाचयेत्ततः
नवकुम्भं समादाय प्रोक्षयेच्छुद्धवारिणा ॥ १२ ॥

तन्तुनावेष्टयेत्तत्र वस्त्रकूर्च्चादिकन्तथा

[[६०६]]

चूतपल्लवहेमञ्च नालिकेरसमन्वितम् ॥ १३ ॥

स्थण्डिलोपरिसंस्थाप्य सुगन्धादिभिरर्च्चयेत्
पञ्चगव्यञ्च संस्थाप्य पञ्चामृतन्तदन्तिके ॥ १४ ॥

नालिके रोदकञ्चैव शुद्धतैलं घृतन्तथा
स्नानद्रव्यं समाहृत्य प्रोक्षयेच्छुद्धवारिणा ॥ १५ ॥

गर्भग्रहं प्रविश्याथ स्थानशुद्धिन्ततः कुरु
लिङ्गशुद्धिन्ततः कृत्वा पीठशुद्धिन्ततः परम् ॥ १६ ॥

आसनम्मूर्त्तिमूलञ्च मातृकां विन्यसेत्तदा
अष्टत्रिंशत्कलान्यासं व्योमव्यापि मुमा बुधः ॥ १७ ॥

आवाहयेत्ततो देवं पाद्याद्यैरुपचारकैः
पञ्चगव्यैस्ततस्नाप्य पञ्चामृतरसैस्तदा ॥ १८ ॥

नालिकेरोदके नैव स्नापयेत्परमेश्वरम्
स्नानद्रव्यं समालोड्य देवदेवानुलेपयेत् ॥ १९ ॥

तैलं वाथ घृतं वाथ स्नापयेत्तु विशेषतः
गन्धोदैस्नापयित्वा तु शुद्धोदैरभिषेचयेत् ॥ २० ॥

गन्धपुष्पादिभिः पूज्य धूपदीपन्ददेत्ततः
स्नपनक्रममुद्धृत्य गत्वा हर्म्यप्रदक्षिणम् ॥ २१ ॥

कुम्भाद्देवं समादाय लिङ्गमद्ध्ये तु विन्यसेत्
वर्धन्याद्बीजमादाय पीठमध्ये तु विन्यसेत् ॥ २२ ॥

तत्र कुम्भोदकेनैव स्नापयेत्परमेश्वरम्
चमकं पुरुषसूक्तञ्च स्कन्दसूक्तन्तथैव च ॥ २३ ॥

प्रदोषे पूजयित्वा तु अन्यमन्त्राणि वर्जयेत्
वस्त्रेण लम्बनं कृत्वा लिङ्गपीठं विशेषतः ॥ २४ ॥

सर्ववस्त्रैरलङ्कृत्य सर्वगन्धानुलेपनैः
हारके यूरमाल्याश्च हृदयेन प्रदापयेत् ॥ २५ ॥

धूपदीपन्ददेच्छम्भोर्नैवेद्यञ्च प्रदापयेत्

[[६०७]]

देवस्य नयनोच्छिष्टं प्रदोषे निरवन्ततः ॥ २६ ॥

शुद्धान्नं पायसान्नञ्च अपूपञ्च विशेषतः
कदलीनालिकेरञ्च इक्षुदण्ढोपदंशकैः ॥ २७ ॥

नैवेद्यन्दापयेत्पश्चात् हृदयेनैव मन्त्रतः
पानीयन्दापयित्वा तु ताम्बूलञ्च निवेदयेत् ॥ २८ ॥

परिवारबलिन्दत्वा नित्यहोमपुरस्सरम्
नित्योत्सवन्ततः कुर्यात् धूपदीपन्ददेद्बुधः ॥ २९ ॥

आचमनन्दापयेत्पश्चात् भस्मरक्षासमन्वितम्
छत्रचामरकौ दद्यात् वेदं विज्ञाप्य देशिकः ॥ ३० ॥

वेदैः पुराणरागैश्च कुर्यात् स्तोत्रमथाचरेत्
सर्ववाद्यैस्समायुक्तं नृत्तगीतेन सेवितम् ॥ ३१ ॥

पूजयेत्परमेशानं सर्वसम्पत्सुखावहम्
प्रमादाद्यजने हीने राजराष्ट्रस्य दोषकृत् ॥ ३२ ॥

तस्मात्सर्वप्रयत्नेन शिवपूजां समाचरेत्
प्रदोषे रुद्रमभ्यर्च्य रुद्रलोके महीयते ॥ ३३ ॥

देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
भक्तानां परिचाराणां स्वस्ववित्तानुदक्षिणाम् ॥ ३४ ॥

प्रदोषे यजनं प्रोक्तं सर्वपापनिकृन्तनम् ॥ ३५ ॥

इति प्रदोषपूजा विधिपटलः षडुत्तरशततमः
अमावास्यापूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण त्वमावास्याविधिं परम्
सर्वपापहरं पुण्यं सर्वसिद्धिकरं शुभम् ॥ १ ॥

सर्वरोगविनाशार्त्थं सर्वप्राणिसुखावहम्
चतुर्दश्यान्तके प्राप्ते कारयेदधिवासनम् ॥ २ ॥

अर्द्धयामे प्रकर्तव्यं रक्षाबन्धनकर्म च

[[६०८]]

शालिभिः स्थण्डिलं कृत्वा तन्मद्ध्ये नलिनं लिखेत् ॥ ३ ॥

ततोमास्कन्ददेवस्य लिङ्गस्याग्रे तु कौतुकम्
देवसन्निधिसम्प्राप्ते भस्मपात्रसुसंस्थिते ॥ ४ ॥

स्थण्डिले तण्डुले हैमे तन्मद्ध्ये सूत्रमेव च
परिचारशिरस्थन्तत्प्रासादस्य प्रदक्षिणम् ॥ ५ ॥

कृत्वा देवस्य पुरतो यात्राहोमं समाचरेत्
पञ्चब्रह्मषडङ्गैश्चाप्यष्टोत्तरशतं हुनेत् ॥ ६ ॥

समिदाज्य चरून्लाजान् होमयेत्तु विशेषतः
ततो भूतबलिन्दत्वा लोकपालबलिं क्षिपेत् ॥ ७ ॥

वाचयेत् नन्दपुण्याहं कौतुकं बन्धयेत्ततः
त्रियम्बकेन मन्त्रेण रक्षासूत्रन्तु बन्धयेत् ॥ ८ ॥

नैवेद्यन्दापयेत्पश्चात् ताम्बूलन्तु निवेदयेत्
नित्यपूजावसाने तु नित्योत्सवमथाचरेत् ॥ ९ ॥

भेरीमाताड्यविधिवत् ग्रामे चैव बलिं क्षिपेत्
शिवाग्रे स्थण्डिलं कृत्वाप्युमास्कन्दपुरस्थितम् ॥ १० ॥

स्नपनं पञ्चविंशत्तु मूललिङ्गे सुयोजयेत्
अस्त्रदेवञ्च सम्पूज्य होमकर्मसमारभेत् ॥ ११ ॥

भेरीमाताड्य विधिवत् ग्रामे चैव बलिं क्षिपेत्
लोकपालबलिप्राप्ते तथावास्तु प्रदक्षिणम् ॥ १२ ॥

अन्तलिङ्गसमायुक्तमस्त्रदेवसमायुतम्
ताम्बूलं रजनीञ्चैव देवन्दूर्वाक्षतैर्युतम् ॥ १३ ॥

चूर्णोत्सवन्ततः कुर्यात्प्राकारे तु बलिं क्षिपेत्
मूललिङ्गञ्च सम्पूज्य तैलचूर्णञ्च दापयेत् ॥ १४ ॥

रजनी चैव वक्त्रे स्याद्दूर्वाक्षतं विनिक्षिपेत्
अस्त्रञ्च पूजयेत्पश्चादुमास्कन्दञ्च पूजयेत् ॥ १५ ॥

आचार्यं पूजयेत्पश्चात् ब्राह्मणान्पूजयेत्ततः

[[६०९]]

वाद्यनृत्तकनारीणान्दापयेत्तैलमेव च ॥ १६ ॥

ततो भक्तजनानान्तु तैलचूर्णं निवेदयेत्
नदी तीरे तटाके वा कुर्यात्तीर्त्थं विशेषतः ॥ १७ ॥

षोडशस्नपनं कृत्वा ह्यस्त्रमूर्तिञ्च पूजयेत्
वस्त्रेण वेष्टयेद्धीमान् नैवेद्यन्तु निवेदयेत् ॥ १८ ॥

ताम्बूलन्दापयेत्पश्चादालयन्तु प्रवेशयेत्
उमास्कन्देश्वरं पूज्य वस्त्रेणैव तु वेष्टयेत् ॥ १९ ॥

सर्वाभरणैस्सम्भूष्य सर्वपुष्पैरलङ्कृतम्
सर्ववाद्य समायुक्तं वेदद्ध्वनिसमन्वितम् ॥ २० ॥

हर्म्यं प्रदक्षिणी कृत्य सभास्थानं समाविशेत्
श्रमनिर्हरणार्त्थाय शीतलोदैस्सुगन्धिभिः ॥ २१ ॥

फलपञ्चामृतैश्चैव नालिकेरोदकैस्तथा
स्नपनैरभिषिच्यैवं पूर्वोक्तवत्क्रमाद्यजेत् ॥ २२ ॥

नृत्तगीतैश्च विविधैः स्तोत्रैस्सन्तोष्य शङ्करम्
धूपदीपादिनैवेद्यैर्नीराञ्जनपुरस्सरम् ॥ २३ ॥

विधायान्योपचाराणि सर्वातोद्य समायुतम्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ २४ ॥

इति अमावास्यापूजाविधिपटलस्सप्तोत्तरशततमः