अष्टमीपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण अष्टम्यार्चनमुत्तमम्
सर्वलोकहितं पुण्यं सर्वैश्वर्य सुखप्रदम् ॥ १ ॥
घृतं पूज्यन्तु मोक्षं स्यात्पुत्रपौत्रविवर्द्धनम्
अष्टाविंशतिकोटीनामेकादश्यां घृतं चरेत् ॥ २ ॥
एकाकृष्णाष्टमी मुख्या तदर्द्धं च चतुर्दशी
घृतस्नानसमोपेतं पूजयेत्परमेश्वरम् ॥ ३ ॥
अष्टम्यां च चतुर्दश्यां घृतस्नानं सकृन्नरः
मात्रापित्रा च दारैश्च कुलत्रयसमन्वितम् ॥ ४ ॥
इहलोके सुखं प्राप्य सोन्ते सायुज्यमाप्नुयात्
तस्मात्सर्वं प्रयत्नेन अष्टम्यार्चनमाचरेत् ॥ ५ ॥
[[६०१]]
विप्रक्षत्रियविट् छूद्रादीक्षितानां विशेषतः
भक्तानां चैव सर्वेषान्नारीणां वृद्धिवर्द्धनी ॥ ६ ॥
मार्गशीर्षकमासे तु त्वारभ्यव्रतमाचरेत्
व्रतानामुत्तमं प्रोक्तं ———– ॥ ७ ॥
अष्टम्यां वा चतुर्दश्यां रात्रावेव समाचरेत्
प्रातस्नानादिकं कृत्वा सन्ध्यावन्दनपूर्वकम् ॥ ८ ॥
शम्भुं प्रदक्षिणं कृत्वा शिवमन्त्रञ्जपेत्ततः
शिवद्ध्यानसमायुक्तं शिवस्य कथनं श्रुणु ॥ ९ ॥
सायाह्नसमये चैव सन्ध्यावन्दनपूर्वकम्
पूजां समारभेद्धीमान् पूर्वोक्तविधिना ततः ॥ १० ॥
घृतस्य प्रोक्षणं लेपं घृतस्नानं त्रिधा भवेत्
दूर्वेण घृतसंयुक्तं प्रोक्षणं कुडुपद्वयम् ॥ ११ ॥
प्रस्थं प्रस्थार्द्धकञ्चैव घृतलेपनमेव च
द्विप्रस्थादिनिशान्तानि नवधा स्नानमेव च ॥ १२ ॥
यावन्मात्रमनो बुद्धिघृतपूज्येन बुद्धिमान्
सहस्रार्द्धघृतञ्चैव सायुज्यञ्च तथा भवेत् ॥ १३ ॥
अष्टोत्तरशतेनैव सारूप्यमभिधीयते
पुत्रपौत्रविवृद्ध्यर्त्थं पञ्चविंशत्घृतान्वितम् ॥ १४ ॥
इष्टकाम्यफलञ्चैव षोडशप्रस्तसंयुतम्
प्रस्थं प्रस्थार्त्थकञ्चैव ऐश्वर्यञ्च विशेषतः ॥ १५ ॥
कुडुपञ्चैव युग्मञ्च आयुरारोग्य वर्द्धनम्
स्थण्डिलं शालिभिः कृत्वा शिवाग्रे वाथ मण्टपे ॥ १६ ॥
पुण्याहप्रोक्षणं कृत्वा गव्यैः पञ्चामृतैरपि
स्नपनं तत्र कुर्वीत घृतं वै स्थापयेत्ततः ॥ १७ ॥
वस्त्रपूतेन शुद्धिस्स्यात् कोष्ठेनैव समन्वितम्
स्थापयेत्तु क्रमेणैव पूजयेद्धृदयेन तु ॥ १८ ॥
[[६०२]]
गन्धपुष्पादिभिश्चैव धूपदीपैः प्रपूजयेत्
गर्भगेहं प्रविश्याथ लिङ्गशुद्धिं समाचरेत् ॥ १९ ॥
आसनं मूर्तिमूञ्च विद्यादेहञ्च कल्पयेत्
आवाह्य देवदेवेशं गन्धपुष्पादिनार्चयेत् ॥ २० ॥
पञ्चगव्यैस्तु संस्नाप्य शुद्धैस्तैरभिषेचयेत् ॥ २१ ॥
पश्चात्पञ्चामृतेनैव जलस्नानान्तरान्तरे
घृतमिमीक्षेति मन्त्रेण घृतसूक्तेन मन्त्रतः ॥ २२ ॥
चमकन्नमकञ्चैव नरसूक्तं त्रियम्बकम्
जपेयुर्ब्राह्मणास्सर्वे शिवमन्त्रं समुच्चरन् ॥ २३ ॥
अघोरेणैव मन्त्रेण स्नापयेल्लिङ्गमूर्द्धनि
पिण्डिकायाञ्च संस्नाप्य शनैः कोष्णसमन्वितैः ॥ २४ ॥
कोष्णोदकैश्च संस्नाप्य मुद्गचूर्णेन मर्दयेत्
कदली फलसंयुक्तं नालिकेरगुलन्तथा ॥ २५ ॥
शुद्धोदकेन संस्नाप्य गन्धोदैरभिषेचयेत्
स्थाप्यतैः कलशैस्नाप्य शिवमन्त्रं समुच्चरन् ॥ २६ ॥
गन्धपुष्पादिनाभ्यर्च्य पायसान्नं ददेद्गुरुः
वस्त्राभरणमाल्याद्यैरलङ्कृत्य विशेषतः ॥ २७ ॥
नैवेद्यं दापयित्वाथ ताम्बूलञ्च निवेदयेत्
नित्याग्नियजनं कृत्वा नित्योत्सवमथाचरेत् ॥ २८ ॥
धूपदीपसमायुक्तं दर्पणञ्चत्र चामरैः
स्तोत्रसङ्गीतनृत्तैश्च पूजयेत्परमेश्वरम् ॥ २९ ॥
कृत्वा प्रणम्म्य देवेशमुपोष्य रजनीं यथा
मुमुक्षूणां प्रकर्तव्यमन्न्येषान्तु विशेषतः ॥ ३० ॥
मुद्गादीनान्तु सम्प्राश्यमक्षारलवणन्तथा
नक्तवाथ प्रकर्तव्यं भोगमोक्षफलप्रदम् ॥ ३१ ॥
एवं सामान्यमित्युक्तं विशेषमधुना श्रुणु
[[६०३]]
मार्गशीर्षकमासे तु शङ्करन्तस्य चार्चयेत् ॥ ३२ ॥
नन्द्यावर्तेन सम्पूज्य पायसान्नं निवेदयेत्
पीत्वा शक्त्या च गोमूत्रमनाहारं निशि स्वपेत् ॥ ३३ ॥
अतिरात्रस्य यज्ञस्य फलमष्टगुणं भवेत्
एवं पुष्ये तु सम्पूज्य शम्भुमभ्यर्चयेत्ततः ॥ ३४ ॥
करवीरेण सम्पूज्य दद्ध्यन्नञ्च निवेदयेत्
घृतं सम्प्राश्य यत्नेन वाजपेयफलं भवेत् ॥ ३५ ॥
माघे महेश्वरं पूज्य बिल्वपुष्पैस्समर्चयेत्
गुलान्नञ्च निवेद्याथ गोक्षीरं प्राशयेत्ततः ॥ ३६ ॥
गमेदिष्टफलं लब्ध्वा फाल्गुनेन विशेषतः
महादेवञ्च सम्पूज्य पद्मपुष्पैस्समर्चयेत् ॥ ३७ ॥
तिलान्नञ्च निवेद्याथ तिलं सम्प्राशयेत्ततः
राजसूयस्य यज्ञस्य फलमष्टगुणं भवेत् ॥ ३८ ॥
वैशाखे शिवनामानिं कर्णिकारैस्समर्चयेत्
आज्यान्नन्तु निवेद्याथ पीत्वा चैव कुशोदकम् ॥ ३९ ॥
पुरुषमेधस्य यज्ञस्य फलं लब्ध्वा विशेषतः
ज्येष्ठे पशुपतिं पूज्य द्रोणपुष्पैस्समर्चयेत् ॥ ४० ॥
शुद्धान्नं व्यञ्जनोपेतं गवांश्रृङ्गोदकं पिबेत्
गवां कोटिप्रदानस्य यत्फलं तदवाप्नुयात् ॥ ४१ ॥
आषाढे चोग्रनामानं श्वेतार्कैरेव पूजयेत्
हरिद्रान्नं निवेद्याथ प्राश्यगोमयवारिणा ॥ ४२ ॥
सौत्रामण्यस्य यज्ञस्य फलमष्टगुणं भवेत्
श्रावणस्सर्वनामानां जातिपुष्पैस्समर्चयेत् ॥ ४३ ॥
कदलीफलसंयुक्तां फलान्तञ्च निवेदयेत्
प्राश्येवं शुद्धपुण्याहं रुद्रलोके महीयते ॥ ४४ ॥
मासे भाद्रपदेष्टम्म्यां मन्त्रेश्वरमथार्चयेत्
[[६०४]]
चम्पकैश्च समभ्यर्च्य पनसाम्रफलैस्सह ॥ ४५ ॥
नैवेद्यन्दापयित्वा तु पूजयेन्मन्त्ररूपकम्
प्राशनं बिल्वपत्राणामनन्तफलमाप्नुयात् ॥ ४६ ॥
मासे चाश्वयुजे चैव ईश्वरं सम्प्रपूजयेत्
उत्पलैश्च समभ्यर्च्य नालिकेरान्नसंयुतम् ॥ ४७ ॥
नैवेद्यन्दापयित्वाथ पीत्वा च तण्डुलोदकम्
पुण्डरीकस्य यज्ञस्य फलमष्टगुणं भवेत् ॥ ४८ ॥
मासे तु कृत्तिका ख्येस्मिन् रुद्रनाम्ना च पूजयेत्
नीलोत्पलैस्समभ्यर्च्य सूपयुक्तं पयःप्लुतम् ॥ ४९ ॥
दापयेद्देवदेवाय दधिसम्प्राशयेत्ततः
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं भवेत् ॥ ५० ॥
मासं प्रतिविशेषेण शुद्धान्नञ्च निवेदयेत्
मूर्तिभेदेन मन्त्राणां भेदेनैव विचक्षणः ॥ ५१ ॥
प्रणवादि चतुर्त्थ्यन्तं स्वनामपदमद्ध्यमम्
स्वाहान्तं मन्त्रमुद्दिष्टं तत्तन्मूलमिति स्मृतम् ॥ ५२ ॥
मूलमन्त्रमिति ख्यातमन्येषां पूर्ववत् बुधः
व्रतान्ते भोजयेद्विप्रान् भक्तानां भोजयेत्ततः ॥ ५३ ॥
शक्त्या हिरण्यवासादिभक्त्या तेभ्योऽपि दापयेत्
निवेदयेच्च रुद्राय होमं कृष्णयजस्वनीम् ॥ ५४ ॥
वर्षमेकञ्चरेदेताञ्चैरन्तर्येण योनरः
तस्यैव फलसम्पत्तिः वर्णने नैव शक्यते ॥ ५५ ॥
आचार्यं पूजयित्व तु दक्षिणां सम्प्रदाय च
यत्कर्म दक्षिणाहीनं तत्कर्मनिष्फलं भवेत् ॥ ५६ ॥
तस्मात्सर्वप्रयत्नेन आचार्यं पूजयेत्ततः ॥ ५७ ॥
इति अष्टमी पूजाविधिपटलः पञ्चोत्तरशततमः
[[६०५]]